अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।। ५ ।।

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः  ।। ५ ।।

भाष्यम्

तुष्टिः अलम्बुद्धिः । ‘अलम्बुद्धिस्तथा तुष्टिः’ इत्यभिधानात् ।। ५ ।।

भावप्रदीपिका सुखात् तुष्टेर्वैलक्षण्यं सप्रमाणकमाह– तुष्टिरिति ।।५।।

प्रमेयदीपिका

सुखशब्दागतार्थतया तुष्टिशब्दं सप्रमाणकं व्याचष्टे– तुष्टिरिति ।। ५ ।।

भावरत्नकोशः

।। अहिंसेति ।। अहिंसा परपीडाऽभावः । समता द्वन्द्वेषु निर्विकारत्वम्, तुष्टिः विषयालम्बुद्धिः । ‘तपो ब्रह्मचर्यादि’ इति षोडशाध्यायभाष्यम् । दानम् न्यायार्जितधनस्य पात्रे प्रतिपादनम्् । यशः कीर्तिः, अयशः दुष्कीर्तिः । एते नानाविधा भावाः बुद्ध्यादयो विंशतिधर्माः भूतानां सशरीरजीवानां मत्त एव भवन्ति ।। ५ ।।