यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत् स्यान्मया भूतं चराचरम् ।। ३९ ।।

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।

न तदस्ति विना यत् स्यान्मया भूतं चराचरम् ।। ३९ ।।

भावरत्नकोशः

सर्वभूतानां बीजं कारणं च अहम् एव । यदि ज्योतिरादिषु रव्यादीनां त्वत्सन्निधानकृतं वैशिष्ट्यम्, तर्हि तदन्येषां ज्योतिरादीनां त्वत्सन्निधिर्न स्यात् । ततश्च तत्सत्तादिकं स्वत एव स्यात् ? इत्यत उच्यते मया विना यच्चराचरं भूतं स्यात् तन्नास्तीति । केचित् प्रकरणोपसंहारार्थं विभूतिसङ्क्षेप उच्यते ‘न तदस्तीति’ इत्यवातारयन्

।। ३९ ।।