आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ।। १५ ।।

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः  ।। १५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु आढ्यः सम्पन्नो धनेन अभिजनवान् परिजन-वान् कुलीनो वा मया तुल्यार्थैरतुलोपमाभ्यां तृतीया अन्यतरस्याम्’ इति तृतीया । सदृशः तुल्यः अन्यः कोऽस्ति यक्ष्ये यागं करिष्यामि, इतरदीक्षितेभ्यो महतीं प्रतिष्ठां प्राप्स्यामीति यावत् । दास्यामि स्तावकेभ्यः । ततो मोदिष्ये सन्तोषं प्राप्स्यामि । इत्येवमज्ञानेन विमोहिताः विविधं वैचित्र्यमापादिताः ।। १५ ।।