हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ।। १९ ।।

श्रीभगवानुवाच–

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ।। १९ ।।

भावरत्नकोशः

‘हन्त ते कथयिष्यामि’ इत्यादेः ‘अथवा बहुनैतेन’ इत्यन्तस्य गीतावचनस्याक्षरार्थस्तु–

द्विविधं वैभवं विष्णोः प्रत्यक्षं च तिरोहितम् ।

 कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ।

 भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम््् ।

 स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम् ।।’

इति प्रमाणसिद्धानि द्विविधानि भगवतो विभूतिरूपाणि ‘वक्तुमर्हस्यशेषेण दिव्या ह्यात्म-विभूतयः’ इति प्रश्नस्योत्तरतया निरूपयिष्यता प्रतिज्ञा क्रियते– भगवानुवाच हन्त त इति ।। ‘हन्त’ इति हर्षेऽव्ययम् । हे कुरुश्रेष्ठ या हि दिव्या आत्मनो विभूतयः पृष्टाः ता दिव्या आत्मविभूतयः आत्मविभूतीः नानाभूतानि रूपाणि इति, द्वितीयार्थे तु प्रथमा, प्राधान्यतः प्रधानतया स्थितानि, ते तुभ्यं कथयिष्यामि । यतो मे विस्तरस्य विभूतीनां वैपुल्यस्य अन्तः अवधिः नास्ति ।। १९ ।।