सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ।। ६ ।।
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ।। ६ ।।
भाष्यम्
इतश्च सन्न्यासाद्योगो वर इत्याह– सन्न्यासस्त्विति ।। योगाभावे मोक्षादिफलं न भवति । अतः कामजयादिदुःखमेव तस्य । मोक्षाद्येव हि फलम् । अन्यत् फलम् अल्पत्वादफलमेवेत्याशयः ।।
भावप्रदीपिका
अतिशयेन ज्ञानान्तरङ्गत्वाद्योगः संन्यासाधिक इत्युक्तम् । संन्यासस्य योगाभावे विफलत्वाच्चासौ वर इत्यर्थं श्लोकमवतारयति– इतश्चेति ।। ननु कथं ज्ञानयोगसंन्यासस्य दुःखहेतुत्वमुच्यते ? इत्यत आह– योगेति ।। विफलत्वमेव दुःख-साधनत्वमित्यर्थः । ननु मोक्षाभावे फलान्तरसम्भवात् कथं संन्यासो विफलः ? इत्यत आह– मोक्षादीति ।।
भावप्रकाशिका
‘संन्यासः कर्मयोगश्च’ इत्येतद्व्याख्याने द्वन्द्वत्यागात् तु संन्यासात् मत्पूजा इति वाक्योदाहरणेन भगवत्पूजात्मकत्वात् कर्मयोगः संन्यासाद्वर इत्युक्तम् । अधुनाऽनेन विना निःश्रेयसकरत्वाभावाच्च स तस्माद्वर इत्याह– इतश्चेति ।। ननु निःश्रेयसकरयोरेव संन्यासकर्मयोगयोः कर्मयोगस्यातिनिःश्रेयसकरत्वमेव समर्थनीयम् । न तु संन्यासस्य दुःखहेतुत्वम् । पूर्वापरविरोधादित्याशङ्क्य तदेव समर्थ्यत इति भावेनाह– योगाभाव इति । योगरहितसंन्यासस्य निष्फलत्वात् साधनानुष्ठानश्रम एवावशिष्यत इत्युच्यते । न तु नरकादिदुःखहेतुत्वम् । निष्फलत्वं च मोक्षादिमहाफलाभावादेव । न तु सर्वथा फलाभावादित्यर्थः । किञ्चित्फलहेतोरपि मुक्त्यहेतोरफलत्वोक्तिरयुक्तेत्यतः सप्रमाणक-माह– मोक्षादिति ।।
प्रमेयदीपिका
‘सन्न्यासस्तु’ इत्यस्य सङ्गतिमाह– इतश्चेति ।। ननु प्राक् सन्न्यासाद्योगस्य वरत्वे न कोऽपि हेतुरुक्तः । तत्कथमेवमुच्यते? मैवम् । सन्न्यासस्य योगावरत्वे बाधकं परिहृतम् । साधकमिदानीमुच्यते । बाधकाभावसहितमेव साधकं वस्तुनो व्यवस्थापकम् । तस्माद् इतश्च इति युक्तम् । पूर्वं सन्न्यासस्य निःश्रेयसकरत्वमुक्तम् । इदानीं कथं दुःखहेतुत्वमुच्यते ? किंवा अनेन साधकमुक्तम्? इत्यतो व्याचष्टे– योगेति ।। विष्ण्वर्पणबुद्ध्या कर्मकरणाभावे। ‘सन्न्यासमात्रेण’ इति शेषः । आदिपदेन ज्ञानं गृह्यते । तस्य केवलसन्न्यासिनः । योगाभावे सन्न्यासो निष्फल एवेत्येतन्न युज्यते । मोक्षाद्यभावे अपि तात्कालिकापमानादि – दुःखाभावादेर्भावादित्यत आह– मोक्षादीति ।।
भावदीपः
।। बाधकमिति ।। ज्ञानान्तरङ्गत्वरूपमित्यर्थः ।।
भावरत्नकोशः
समुच्चेयहेत्वन्तरानुक्तेः चशब्दानुपपत्तिरिति शङ्कते– ननु प्रागिति ।। एवमुच्यते ‘इतश्च’ इत्येवमुच्यते । परिहृतमिति । ‘संन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः इत्यत्र’ इति शेषः । तथाच समुच्चयार्थत्वमित्याह– बाधकेति ।। एवं च न केवलं बाधकाभावात् संन्यासाद्योगो वरः, अपि तर्हि साधकसद्भावाच्चेति युक्तमेवं भाषणमित्यर्थः । उक्तं ‘संन्यासः कर्मयोगश्च’ इत्यत्र । उच्यते तथा च व्याहतिः । किञ्चेति । साधकं च ‘संन्यासस्तु’ इति वचनेन किमुक्तं भवतीत्यर्थः ।
अपमानादिदुःखाभावादेरिति । अपमानादिजनितदुःखाभावस्य, आदिपदगृहीतप्राकृत-जनमानननिमित्तकसुखस्य च फलस्य सत्त्वादित्यर्थः । ‘बाह्यस्पर्शेष्वसक्तात्मा’ इति गीता-व्याख्याऽवसरे टीकायां संन्यासमात्रेण स्वस्वरूपसुखाविर्भावस्याप्यावेदितत्वाद् अत्रादिपदेन स्वरूपसुखसङ्ग्रह इत्यपि आहुः । अत्र अन्यत् अपमानादिकृतदुःखाभावादिफलं न भवतीत्ये-तस्मिन्नर्थे । वचने ‘यस्य कस्यापि साधनस्य यत् फलत्वेनावगतं तत् तस्य फलं न भवति’ इति कथं प्रतिषिध्यत इति शङ्कते– ननु मोक्षेति । उक्तम् ‘अन्यत् फलम् अल्पत्वाद् अफलमेव’ इत्यादावुक्तम् । ‘महाफलस्य योग्यं महाफलयोग्यम्’ इति विग्रहमभिप्रेत्य तत्फलितमाह– महाफलमिति ।। कृष्यादिकं तु मुक्त्यहेतुत्वात् न तद्योग्यमिति भावः । तर्हि वचने मोक्षपदस्य, भाष्ये मोक्षादिपदस्य चायोगः ? इत्यत आह– मोक्षादिग्रहणमिति ।।
भावदीपिका
।। एवमुच्यत इति ।। ‘इतश्च’ इति समुच्चयार्थकशब्दोपेत-वाक्यप्रयोगः कथमित्यर्थः ।। बाधकमिति ।। ज्ञानविरोधित्वरूपमित्यर्थः ।। युक्तमिति ।। तथा च बाधकाभावसमुच्चयार्थश्चशब्द इति भावः ।। साधकमिति ।। ‘संन्यासाद्योगस्य वरत्वे’ इति शेषः ।। अपमानादीति ।। केनचिदपमाने कृते सति तत्र कामक्रोधपरित्यागरूपसंन्यासानुष्ठाने तत्प्रयुक्तं दुःखं न भवतीत्यर्थः । ‘मोक्षादि’ इत्यादिपदेन ज्ञानं ग्राह्यम् ।। भाष्ये अन्यत्फलमपीति ।। तात्कालिकाप-मानादिप्रयुक्तदुःखाभावादिरूपमित्यर्थः ।
ननु तर्हि ‘यत्तु महत्फलयोग्यम्’ इत्याद्येव वक्तव्ये ‘मोक्षाद्येव’ इति, ‘विना मोक्षफलम्’ इति मोक्षादिग्रहणं किमर्थमित्यत आह– मोक्षादीति ।। ‘योगस्य महाफलं मोक्षाद्येव’ इति प्रकृता-पेक्षयेत्यर्थः । भाष्येऽनर्घ्यधनप्राप्तिसाधनभूतपद्मरागमणिं कस्मैचिद्दत्त्वा तस्मान्मुष्टिपरिमिततण्डुल-मात्रग्रहणे, तद् यथा फलं न भवति तथेत्यर्थः ।।
भावप्रकाशः
समुच्चेयाभावात् समुच्चयार्थकचशब्दानुपपत्तिरित्याक्षिपति– ननु प्रागिति ।। बाधकाभावेति ।। तथा च बाधकाभावसहितस्यैव साधकस्य योगोत्तमत्वसिद्धि-रूपक्रियया अन्वयात् मिलितानामेकान्वयरूपेतरेतरयोगार्थश्चशब्द इति भावः । अपमानादि-दुःखाभावादेरिति ।। आदिपदात् स्वरूपसुखसङ्ग्रहः । बाह्यस्पर्शेष्विति गीताव्याख्यावसरे टीकायां सन्न्यासमात्रेण स्वल्पस्वरूपसुखाविर्भावस्यावेदितत्वादिति मन्तव्यम् ।।