यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ।। २४ ।।

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।

क्रियते बहुलायासं तद्राजसमुदाहृतम् ।। २४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यत्तु कामेति ।। तुशब्दः पूर्वस्माद् विशेषद्योतनार्थः । यत्तु कामेप्सुना काम्यत इति कामः फलम्, तत् प्राप्तुमिच्छता साहङ्कारेण कर्तृत्वाभिमानवता, वाशब्दः चशब्दार्थः । क्रियते यच्च पुनर्बहुलायासं बहुवित्तव्ययादिनिबन्धन-मानसादिक्लेशयुक्तं कर्म तद्राजसमुदाहृतम् ।। २४ ।।