ततः परं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ।। ४ ।।
ततः परं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ।। ४ ।।
भाष्यम्
तदर्थं च तमेव प्रपद्ये प्रपद्येत । तच्चोक्तं तत्रैव ‘तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद् ब्रह्म मूलं तच्छित्सुः’ इति । ‘नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्’ इति च मोक्षधर्मे । छेदनोपायो ह्यत्राकाङ्क्षितः । न च भगवतोऽन्यः शरण्योऽस्ति ।। ४ ।।
भावप्रदीपिका
विमर्शेन ब्रह्मदर्शनं भवतीत्युक्तम् । विमर्शश्च कथम् इत्याशङ्क्य, तमेव इत्येतत् पुरुषव्यत्यासेन व्याचष्टे– तदर्थमिति । उत्तमपुरुषतैवात्र किं न स्यात् इत्यतः साऽनुपयुक्तेत्याह– छेदनेति । न तु भगवतः शरणागतिकथनम् इति शेषः। अयुक्ता चेत्याह– न चेति ।। ४ ।।
प्रमेयदीपिका
वाक्यार्थस्य समाप्तत्वात् ‘तमेव चाद्यम्’ इति व्यर्थ-मित्यतः सङ्गतिं सूचयन्नाह– तदर्थं चेति ।। विमर्शार्थं चेति ।। विश्वविमर्शाद् ब्रह्मज्ञानं भवतु । स विमर्श एव कथं स्यात्? इत्याकाङ्क्षां तदर्थम् इत्यनेन सूचयति ।। तर्हि चिच्छिदिषुं प्रति तदुपायो विधेयः, न तु प्रपद्य इति वचनं सङ्गतमित्यतो ‘व्यत्ययो बहुलम्’ इति वचनमाश्रित्याह– प्रपद्येतेति ।। कुतः? इत्यतः श्रुतिस्मृति-संवादादित्याह– तच्चेति ।। तद्विश्वं छित्सुः । अभ्यासलोपः इडभावः छान्दसः । चिच्छिदिषुः च्छित्सुः विश्वविमर्शार्थी यद् ब्रह्म विश्वस्य मूलं तमेव पुरुषं प्रपद्येत इत्यर्थः । प्रपत्त्या प्रसन्नेन नारायणेन दृष्टः पुमान् प्रतिबुद्धः विश्वविमर्शक्षमो भवेत् इत्यर्थः । इतश्च पुरुषव्यत्ययोऽत्र व्याख्येय इत्याह– च्छेदनेति ।। ‘अतस्तदुपाय-विधानमेव सङ्गतम्’ इति शेषः । न केवलमुत्तमपुरुषोऽत्रानुपयुक्तः । किन्त्वयुक्त-श्चेत्याह– न चेति।। ‘तमेव प्रपद्य इत्येवं परिमार्गितव्यम्’ इति सम्बन्धस्त्वयुक्तः । अस्य परिमार्गणत्वाभावात् ।। ४ ।।
भावबोधः
ननु यथास्थितस्तथा कुतो नोपलक्ष्यते इत्यत आह– विकारि-त्वादिनेति ।। आदिपदेन नाशादिकम् । ननु कथं विष्णोर्जगन्नाशोत्पत्तिस्थितिरूपत्वमित्यत आह– संहर्तृत्वादेरिति ।। ननु च्छिदेः सन्प्रत्यये ‘सन्यङोः’ इति द्वित्वे एकाजनुदात्तत्वादिड अभावे ‘हलन्ताच्च’ इति सनः कित्त्वेन गुणाभावे ‘सनाशंसभिक्ष उः’ इति उप्रत्यये आतो लोपे च सति चिच्छित्सुरिति भवेत् । छित्सुः इति कथमित्यत आह– अभ्यासलोप इति ।। ४ ।।
भावदीपः
ननु ‘छिदिर् द्वैधीकरणे’ इत्यतो ‘धातोः कर्मणः समानकर्तृकादि-च्छायां वा’ (पा.सू.३.१.७) इति सन्प्रत्यये ‘सन्यङोः’ (पा.सू.६.१.९) इति द्विर्वचने, नलोपे ‘आर्धधातुकस्येड् वलादेः’ (पा.सू. ७.२.३५) इतीडागमे ‘हलन्ताच्च’ (पा.सू. १.२. १०) इति सनः कित्वेन गुणाभावे ‘सनाशंसभिक्ष उः’ (पा.सू. ३.२.१६८) इत्युप्रत्यये ‘चिच्छित्सुः’ इति भाव्यम् । कथं छित्सुः? इत्यत आह– अभ्यासलोप इति ।। इडभाव इति पाठो लेखकदोषमूलः । छिदेरनिट्त्वात् ‘चिच्छिदिषुः’ इति प्रयोगोऽपि तथैवेति ज्ञेयम् । ‘छित्सुः’ इत्यस्य प्रतिपदमुक्त्वा तस्यार्थमाह– चिच्छिदिषुरिति ।। पुरुषव्यत्यय इति ।। प्रपद्ये इत्युत्तमपुरुषः प्रथमपुरुषतया व्यत्यय इत्यर्थः ।। तत्परिमार्गितव्यमिति ।। तमेव चाद्यं पुरुषं प्रपद्ये इत्यन्वेषणयत्नेन, प्रपत्तिकर्मत्वेन च पुरुषस्यैव प्रकृतत्वात् तत्स्वरूपोक्तेरेवा-काङ्क्षितत्वादिति भावः ।। ४ ।।
वाक्यार्थप्रदीपः
।। व्यत्ययो बहुलमिति वचनादिति ।। लटो लिङ्त्वेन लिङ्व्यत्ययः । उत्तमपुरुषस्य प्रपद्येतेति प्रथमपुरुषत्वेनेत्येमुभयथापि व्यत्यय इत्यर्थः । एतच्च व्याख्यातत्वान्नात्र विव्रियते ।।
ननु छिदेः सन्प्रत्यये सन्यङोः इति द्वित्वे अभ्यासे चर्च इति अकारलोपे सति चिच्छिदिषुरिति भवितव्यम् । छित्सुरिति कथमित्यत आह– अभ्यासलोपः इडभावश्छान्दस इति ।। अत्र लोपोभ्यासस्येत्यस्य सनीमीम इत्यारभ्य यदुक्तं तत्रैवाभ्यासलोपविधायकत्वात् छिदेश्च सनीमीम इत्यादावगणनेनाभ्यासलोपासम्भवात् अभ्यासलोपश्छान्दस इत्यर्थः । एकाच उपदेशेनुदात्तात् इत्यत्र उपदेशे अनुदात्तात् इत्यव्याख्याने भविष्यति पचिष्यति इत्यादौ इट् न स्यात् । उपदेशे एकाच्त्वात् । प्रत्ययोदात्तत्वे कृते शेषनिघातेन सम्प्रति तस्याप्यनुदात्तत्वात् तथा कर्ता कर्तुमित्यत्रापि इट्प्रसङ्गाच्च । नित्स्वरेण सम्प्रति तस्याप्युदात्तत्वेनानुदात्तत्वाभावात् । उपदेशे अनुदात्तादिति व्याख्याने क्रियमाणे च नातिप्रसङ्गः । भविष्यति इत्यादौ सम्प्रत्यनु-दात्तत्वेन प्रकृते आद्यपाठरूपोपदेशे अनुदात्तत्वाभावात् । तत्रेट्निषेधाप्रसङ्गात् । कर्ता इत्यादेश्च सम्प्रति नित्स्वरेणोदात्तत्वेनोपदेशे अनुदात्तत्वेन विशेषणत्वेपि न एकाच्त्वविशेषण-त्वमपि । उपदेशे एकाच् इत्यव्याख्यानेपि दोषाप्रसक्तेः । नचैवं क्रादिसूत्रे नियम एवंसति नोपपद्येत । चकृव चकृम इत्यादौ श्रूयमाणरूपस्यानेकाच्त्वेन तत्रेट्निषेधाप्रसङ्गात् । किन्तु विधिरेव स्यादिति कथं दोषाभाव इति चेत् न । दोषाभावेन तत्र इट्निषेधाप्रसङ्गात् । नचैवमपि पिपेचिव पिपेचिम इत्यादौ एत्वाभ्यासलोपयोः कृतयोः एकाचः श्रूयमाणादिति इट्प्रतिषेधः स्यादेवेति वाच्यम् । तत्र परत्वादौ लिटि कृते अनन्तरमपि एत्वाभ्यासलोपयोः पेचिवेत्यादि रूपसिद्धेः सम्भवात् ।।
नच नित्येे एत्वाभ्यासलोपे कृतेपि इटि प्राप्नुतः, अकृतेपीति कृताकृतप्रसङ्गित्वात्, इट् पुनरनित्ये एत्वाभ्यासलोपयोः कृतयोरेकाचः श्रूयमाणादिति इट्निषेधात् । ततश्च नित्यत्वादेव अभ्यासलोपयोरेव प्राथम्यादिट् न स्यादेवेति वाच्यम्। थलि च सेटि इत्यत्र अत एव हल्मध्ये अनादेशादेः लिटि इति अनुवर्तनादन्तरेणापि थसोन्यस्य सेट् किति लिट एव च सम्भवेन सेटीत्येतावतैव थल्येव सेटि एत्वाभ्यासलोपयोः सिद्ध्या थल्ग्रहणमनर्थकमेव प्राप्नोति । ततश्च सिद्धेपि विवक्षितार्थे यत् थल्ग्रहणं करोति तत् ज्ञापयत्याचार्यः सेट्ग्रहणं कालावधारणार्थ-मिति ।। इटि कृत एव एत्वाभ्यासलोपौ स्याताम् । अकृते मा भूदिति । ततश्चानित्येपि इटि कृत एव एत्वाभ्यासलोपयोः नित्ययोरपि सम्भवेन पेचिव इत्यादेरुपपत्तेः ।
नचैवमपि विभिस्तसि विच्छित्सति इत्यत्र नित्यत्वद् द्विर्वचने कृते एकाचः श्रूयमाणत्वात् इति इट् अविप्रतिषेधोे न स्यादिति वाच्यम् । भिदिछिदोः सन्नन्तयोः श्रूयमाण एकाच्त्वाभावेन सेट्कत्वस्यैव युक्तत्वात् । यङ्लुङन्तयोस्तयोः विभेदिता चेछिदिता इति इटो दृष्टत्वाच्च्च । नचैवं ह्लदिछिभिदिधुक्षुध इत्यनिट्कारिकायां छिदेः पाठो नस्यादिति वाच्यम् । भुञ्जिस्वञ्जिसृजि-मृजिविध्यनिङ्स्वरानिति अनुदात्तकारिकायां पठितस्यापि मृजैः उदितत्वेन विकल्पितेट्कत्व-दर्शनात् विन्दति विघतर्छति इति भाष्ये अनुदात्ततया सङ्ग्रृहीतस्य लाभार्थकस्य विन्दतेः वेदिता विद्यानां वेदिता धनस्येत्यादिप्रयोगदर्शनेन सेट्कत्वेन व्यभिचारदर्शने अनिट्कारिकापाठस्या-प्रयोजकत्वात् । उपदेशे अनुदात्तादेकाचः श्रूयमाणाद् धातोः परस्य वलादेरार्धधातुकस्य इट् न स्यात् इत्येव व्याख्यानोपपत्तेः । छिदेः श्रूयमाणैकाच्त्वाभावेन सेट्कत्वाभावात् इडभावः छान्दस इति सूक्तमिति स्वामिनः ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीविद्याधीशतीर्थतत्पूज्यचरणानां निजशिष्यकेशवेन विरचिते व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे पञ्चदशोध्यायः ।।
भावरत्नकोशः
।। वाक्यार्थस्येति ।। संसाराख्यविश्वरूपम् ‘ऊर्ध्वमूलमधः-शारवम्’ इत्याद्युक्तप्रकारोपेतं विकारत्वादिनाऽज्ञायमानं च तत् । एवंविधं विरूढमूलं वृक्षं सङ्ग-राहित्यसहितेन ज्ञानासिना च्छित्वा विमृश्य, ततो ब्रह्मज्ञानमापाद्य, ब्रह्म प्राप्य न पुनरावर्तत इति ‘ऊर्ध्वमूल्म्’ इत्यादिमहावाक्यार्थस्य ‘यस्मिन् गता न निवर्तन्ति भूयः’ इत्युक्त्या समाप्तत्वात् इत्यर्थः । तमेव च’ इत्यस्य कथं विश्वविमर्शार्थत्वम् इत्यत आह– विश्व-विमर्शादिति ।। ‘चिच्छित्सुम्’ इत्यत्र ‘चिच्छिदिषुम् इति पाठो लेखकदोषमूल इति स्वामिनः । केचित्तु ‘छिदिर् द्वैधीकरणे इति धातोः द्वैधीकरणार्थकस्यापि ‘अनेकार्था हि धातवः’ इति न्यायेनेह विमर्शार्थत्वाभ्युपगमेन ‘एकाच उपदेशेऽनुदात्तात्’ इति शास्त्रप्राप्तस्य इण्निषेधस्य द्वैधीकरणार्थकधातावेव प्रवृत्त्या, विमर्शार्थके प्रवृत्त्यभाव इति मनसि निधाय ‘चिच्छिदिषुम्’ इति प्रयुक्तम् इत्याहुः । तदुपायः छेदनोपायः । न त्विति ।। ‘प्रपद्ये’ इत्युत्तमपुरुषश्रवणाद् कृष्णस्य प्रपत्तृत्ववचनं तदनुपायत्वात् न तु सङ्गतमित्यर्थः । व्यत्यय इति ।। ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इति एतत्सूत्रवार्तिकेन नरशब्देन पुरुषग्रहणात् ‘क्वचिदन्यदेव’ इति वचनादिह ‘प्रपद्यते’ इति प्रथमपुरुषार्थे उत्तमपुरुषप्रयोग इति भावः ।
कुत इति ।। ‘गीतायां पुरुषव्यत्ययो व्याख्येयः’ इत्येतत् कुतः प्रमाणात् प्रतिपत्तव्यमित्यर्थः । ‘तत्रैव’ इति भाष्ये भाल्लवेयश्रुतेरेवोक्तत्वात् तत्र च ‘ब्रह्म वाऽस्य पृथङ्मूलम्’ इति इदंशब्देन विश्वस्य प्रकृतत्वाद् अत्र तच्छब्देन तदेव ग्राह्यमिति भावेनाह– तद्विश्वमिति ।। ननु ‘छिदिर द्वैधीकरणे’ इति धातोः ‘धातोः कर्मणः समानकर्तृकाद् इच्छायां वा’ इति सन्प्रत्यये, ‘सन्यङोः’ इति द्वित्वे, ‘हलन्ताच्च’ इति सनः कित्त्वेन गुणाभावे, ‘सनाशंस भिक्ष उः’ इति उप्रत्यये च ‘चिच्छित्सुः’ इति भाव्यम् । तत्कथं ‘छित्सुः’ इति । तत्राह– अभ्यासलोप इति ।। ननु विमर्शार्थस्य छिदेरुक्तरीत्या इण्निषेधाभावाभ्युपगमाद् ‘छिदिषुम् इत्येव स्यात् इत्यत आह– इडभावश्चेति ।। चिच्छिदिषुरिति ।। तदर्थः ‘विश्वविमर्शार्थी’ इति । ‘चिच्छिदिषुः’ इति निर्वाहस्तु प्रागुक्त एव । विश्वस्य विमर्शनीय-विश्वस्य । ‘सा वैश्वदेव्यामिक्षा’ इतिवत् विधेयापेक्षया ‘तम्’ इति पुंलिङ्गम् । मोक्षधर्म-स्मृत्यर्थमाह– प्रपत्त्येति ।। शरणागत्या । दृष्टः अनुगृहीतः । ‘प्रतिबुद्धः’ इत्यस्य प्रकृतो-पयोग्यर्थकथनम्– विश्वविमर्शक्षम इति ।। अनेन विश्वविमर्शाद् ब्रह्मज्ञानं भवतु, स विमर्श एव कथं स्यात्’ इति शङ्का परिहृतेत्युक्तं भवति ।
चशब्दश्रवणादाह– इतश्चेति ।। न केवलं श्रुतिस्मृतिसंवादात्, किन्त्वौचित्यबलाच्चेत्यर्थः । तदुपायविधानम् प्रतिपत्तिरूपच्छेदनोपायविधानम् । अनेन ‘प्रपद्ये’ इति वचनं न सङ्गतमिति कृतचोद्यं परिहृतं भवति । भावप्रदीपिकायां तु ‘ननु यदि संसारवृक्षो ज्ञानेन च्छेद्यः, तर्हि एकस्य ज्ञानेन सर्वमोक्षः स्यात् इत्यत आह– छेदश्चेति ।। संसारविमर्शेन कथं मोक्ष इत्यत आह– तथा हीति ।। संसारविमर्शे सतीत्यर्थः । अनेन ‘ततः परम् ’इति व्याख्यातं भवति । विमर्शेन ब्रह्मदर्शनं भवतीत्युक्तम् । विमर्शश्च कथम् इत्याशङ्क्य ‘तमेव’ इत्येतत् पुरुष-व्यत्ययेन व्याचष्टे– तदर्थमिति ।। उत्तमपुरुषतैवात्र किं न स्यात् इत्यतः साऽनुपयुक्तेत्याह– छेदनेति ।। ‘न तु भगवतः शरणागतिकथनम् • शेषः । अयुक्ता चेत्याह– न चेति ।। इति ‘छेदश्च’ इत्यादिभाष्यं व्याख्यातम् ।।
अनुपयुक्तत्वमयुक्तत्वं च दोषं परिजिहीर्षुः शङ्करः ‘कथं परिमार्गितव्यम् ’इत्यत उच्यते– तमेवेति ।। ‘तमेव चाद्यं पुरुषं प्रपद्ये’ इत्येवं परिमार्गितव्यमिति सम्बन्धमुक्तवान् । तदनुवदति– तमेव प्रपद्य इत्येवमिति ।। इत्येवं परिमार्गितव्यमिति वदन् ‘इत्येवम्’ इत्यस्याध्याहारो दोष इत्यभिसन्धत्ते । अर्थदोषं चाह– अस्येति ।। ‘अहं प्रपद्ये’ इत्येवं-भावनस्य ब्रह्मज्ञानत्वाभावादित्यर्थः । ‘प्रपद्ये’ इत्येवम् एकान्तभक्तिलक्षणया शरणागत्या परिमार्गितव्यमित्यत्र तात्पर्यमिति चेन्न । एतदपेक्षया भाष्यरीत्या श्रुतिस्मृतिसंवादिपुरुष-व्यत्ययमात्रव्याख्यानस्योक्तत्वादिति ।।
गीताक्षरार्थस्तु ततः प्रकृत्यादेर्विश्वस्मात् परं विलक्षणं तत् ‘ओम् तत्सदिति निर्देशो ब्रह्मणः त्रिविधः स्मृतः’ इति वचनाद् ब्रह्म परमार्गितव्यम् । परिमार्गणम् अन्वेषणम् । श्रवणादिना ज्ञातव्यं कीदृशम् यस्मिन् गताः यत् प्राप्ताः न निवर्तन्ति भूयो नावर्तन्ते । भावप्रदीपिकायां तु ‘ततः पदम्’ इति पठितम्, तदा ततः पश्चात् तत् ‘ऊर्ध्वमूलम् इत्यत्र प्रकृतं पदं वस्तु विष्ण्याख्यं परिमार्गितव्यमिति व्याख्येयम् ।
‘ननु विश्वविमर्शो ब्रह्मज्ञानं प्रति कथमुपायः इति चेत् उच्यते । विश्वस्य कार्यत्वादिना विमर्शे सति कार्यस्य कारणापेक्षत्वात्, चेतनानधिष्ठिताद् उपादानाद् उत्पत्त्यसम्भवात्, परतन्त्राणां मुख्यतयाऽधिष्ठातृत्वायोगाद् उपादानकारणाधिष्ठातृ ब्रह्मैव विज्ञातं भवतीति । ननूक्तरीत्या विश्वविमर्शाद् ब्रह्मज्ञानं भवतु, स विमर्श एव कथं स्यात् इत्यतस्तत्रोच्यते– तमेव चाद्यमिति ।। यतः यस्मात् पुरुषात् पुराणी चिरन्तनी अनादिकालप्राप्तप्रवृत्तिः संसारवृक्षस्य सव्यापारावस्थितिः प्रसृता निर्गता तमेव आदौ भवं पुरुषं प्रपद्ये ‘व्यत्ययो बहुलम्’ इति पुरुषव्यत्ययेन प्रपद्येत शरणं व्रजेत् ‘विश्वविमर्शार्थम्’ इति शेषः । कुतः पुरुषव्यत्ययाश्रयणम् इति चेत् ‘तं वै प्रपद्येत, यं वै प्रपद्य न शोचति... तद् ब्रह्म’ इति, तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम् इति च श्रुतिबलादिति ब्रूमः ।। ४ ।।
भावदीपिका
सङ्गतिसूचना केन जाता इत्यत आह– विश्वेति ।। विधेय इति ।। ‘यज’ इत्यादिवत् लिङादिप्रत्ययेन विधेय इत्यर्थः । इति वचनमुत्तमपुरुषवचनम् । व्यत्यय इति ।। विधायकत्वलाभाय लिङात्मनेपदिनः प्रथमपुरुषत्वे व्यत्यय इत्यर्थः । ननु ‘छिदिर् द्वैधीकरणे’ अस्मात् सन्प्रत्यये नकारलोपे, ‘छिद् स’ इति जाते ‘सनाशंसभिक्ष उः’ इति सन्नन्तत्वाद् उप्रत्यये, ‘छिद् स उ’ इत्यत्र ‘सन्यङोः’ इति सनि परे अभ्यासररूपे द्वित्वे ‘छिद् छिद्’ इति जाते, अभ्यासलोपे हलादिशेषे ‘छिछिद्’ इति जाते, अभ्यस्तछकारस्य ‘अभ्यासे चर्च’ इति चर्त्वे चिछिद्’ इति जाते छिदेः सेड्धातुत्वेन इडागमे ‘इस उ’ इति जाते, सस्य षत्वे ‘चिछिदिषु’ इति प्रातिपदिके जाते, पश्चात्स्वाद्युत्पत्तौ ‘चिछिदिषुः’ इति भवेत् । ‘छित्सुः’ इति कथम्? अत आह– अभ्यासलोप इडाभावश्छान्दस इति ।। अत्र चकारः परस्परसमुच्चायकः । तथा च ‘छिद्’ अस्मात् सनि उप्रत्यये दस्य तत्वे च ‘छित् स् उ छित्सु’ इति प्रातिपदिकनिष्पत्तौ सत्यां पश्चात् स्वाद्युत्पत्तौ ‘छित्सुः’ इति भवतीत्यर्थः । अत्र–
‘तप्क्षिप्वापिवपिस्वप्लिप्लुपः तृप्यतिदृप्यती ।
सृप् छुप् स्वप् शप ्क्षिपः स्कन्दि हदि स्यदि छिदिर् भिदः । इमे हलन्तेष्वनिटः’
इत्यनिड्धातुसङ्ग्रह इति वचनेन छिदेरपि दकारस्य हल्त्वेन हलन्ततयाऽनिट्त्वेन अनिड्-धातुमध्ये पाठात् कथमिडभावश्छान्दस इत्युक्तम्? इति शङ्कायाः समाधानं विचार्यमस्तीति केचिद् आहुः । वस्तुतस्तु व्याकरणकारान्तरमते सेड्धातुमध्ये छिदेः पाठाद् एवमुक्तमिति प्रतिभाति ।
पुरुषव्यत्यय इति ।। उत्तमपुरुषस्य प्रथमपुरुषत्वेन व्यत्ययः । ‘विधानमेव’ इत्यत्र विधानपदोपरि भारो द्रष्टव्यः । न चेतीति ।। कृष्णस्यैव सर्वशरण्यत्वेन तस्यान्यः शरण्यो नास्ति यतः, अतोऽहं प्रपद्य इति भगवद्वचनमयुक्तमित्यर्थः । इति सम्बन्ध इति ।। ‘इति एवम्’ शब्दयोरध्याहारेणेत्यर्थः । परिमार्गणत्वाभावादिति ।। भावनाविशेष एवायमिति भावः
।। ४,५ ।।
भावप्रकाशः
।। चिच्छिदिषुमिति ।। ‘रलोव्युपधाद्धलादेः संश्च’ इति सेटः सनः कित्वाद्गुणाभाव इति ध्येयम् । ननु छिदेरनुदात्तत्वेन ‘एकाच उपदेशेशिति’ इति इट्प्रति-षेधात् कथं चिच्छिदिषुमित्युक्तम् । अत्राहुः । सूत्रे ‘अनुदात्तात्’ इत्यस्योपदेश इति विशेषणम् । अन्यथा कर्तुमित्यादाविण्निषेधाप्रसङ्गात् । नित्स्वरेण सम्प्रत्युदात्तत्वात् । नत्वेकाच इत्यस्य । अतः श्रूयमाणैकाचः इति पर्यवस्यति । प्रकृते च सन्नन्तस्य च्छिदेः श्रूयमाणै-काच्त्वाभावेन इण्निषेधाभावाच्चिच्छिदिषुमिति युक्तमिति । तदपरे न क्षमन्ते । ‘एकाचः’ इत्यत्राप्युपदेश इत्यस्यावश्यकत्वात् । अन्यथा बिभित्सति पिपक्षतीत्यादाविडभावायोगात् द्वित्वे कृतेऽनेकाच्त्वात् । तस्माच्छेदनं च्छित् । सम्पादादित्वाद्भावे क्विप् । ततः ‘सर्वप्रातिपदिकेभ्यः क्विब्वा आचारे’ इत्याचारे क्विप् । एवं च आचारक्विबन्तस्य धात्वन्तरत्वात् लक्षणप्रतिपदोक्तपरिभाषया नोक्तसूत्रेण इण्निषेधः । अतश्चिच्छिदिषुमिति युक्तम् । आचरक्विबन्तत्वं चावश्यमङ्गीकार्यम् । च्छिदिशक्यार्थद्वैधीकरणसादृश्येन विमर्शरूपार्थलाभात् । अन्यथा तदलाभादित्याहुः । तन्न । धातूनामनेकार्थत्वात् च्छिदिनैवोक्तार्थलाभे तदर्थमाचार-क्विबाद्यनुसरणायोगात् । गत्यन्तरसत्वे प्रकृतप्रयोगसिद्ध्यर्थं तदनुसरणमित्यस्याप्ययोगाच्च । चिच्छिदिषु पदात् क्विब्द्वयार्थप्रतीतिपूर्वकमेव पदार्थबोधप्रसङ्गाच्च । वयं तु ब्रूमः ।
अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः ।
शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु’
इत्यत्र भर्तृहरिणा ये स्वतन्त्राः प्रसिद्धार्थाः । ये च लोकविश्रुताः । प्राचुर्येण लोक-प्रयुक्ताश्च शब्दास्तेष्वैव शास्त्रार्थः कर्तव्यः । निरूढत्वेन प्रथमोपस्थितैस्तैरेव निराकाङ्क्ष-त्वादित्युक्तम् । ततश्च पाणिन्यादिभिश्छिदेः यदनुदात्तत्वमुक्तं तद् द्वैधीकरणार्थस्यैव तदर्थत्वेन लोकप्रसिद्धत्वात् प्राचुर्येण लोकोपयुक्तत्वाच्च । न तु विमर्शार्थस्य , तदभावात् । अत एव ‘शब्देषु न तदुक्तिषु ’इत्यनेन तत्सदृशशब्देषु शास्त्रार्थो न कर्तव्य इत्युक्तम् । एवञ्च विमर्शार्थच्छिदेरिडभावप्रयोजकानुदात्तत्वाभावात् एकाच उपदेशेऽनुदात्तात् इत्यनेन इण्निषेधः । ततः चिच्छिदिषुमिति युक्तमुक्तम् । श्लोके अनर्थकं सन्दिग्धार्थकम् अप्रयुक्तञ्च क्रमेण विशेषणव्यावर्त्यम् । तदुक्तिषु तत्सदृशेष्वित्यर्थः । अत एव मिमीते माता तस्याः स्वसा मातृस्वसा इत्यत्र मातृपितृभ्यां स्वसेति षत्वं नेति दिक् ।
ननु प्रतिपदोक्तेष्वेवाभिव्यक्तपदार्था ये इति न्यायप्रवृत्तिरिति चेत् । उच्यते । च्छिद्यादीना-मप्यप्रसिद्धार्थत्वेन नानुदात्तत्वम् । उक्तन्यायात् । इयांस्तु विशेषः । सर्वनामत्वं सूत्रोक्तमनु-दात्तत्वं तु व्याख्याकारोक्तमिति । ततश्च ‘सर्वाय’ इत्यादिसंज्ञाशब्दे ‘सर्वनाम्नः स्मै’ इत्यादि-कार्याभावाद्विमार्शार्थच्छिदावपि ‘एकाच उपदेश’ इत्युक्तकार्याभावे सति न कश्चिद्दोषः ।
नन्वेवं तदुक्तरीत्या चिच्छिदिषुरिति वक्तव्यमित्यत आह– अभ्यासलोप इति ।। प्रपत्त्येति ।। ‘तदीयोऽहम्’ इत्यादिस्मृतिरूपया शरणागत्येत्यर्थः । उत्तमपुरुष इति ।। ‘प्रपद्ये’ इत्युत्तमपुरुषप्रयोग इत्यर्थः । अस्येति ।। ‘तमेव प्रपद्ये’ इत्यस्य ब्रह्मज्ञानत्वा-भावादित्यर्थः ।। ४ ।।