कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।। १५ ।।
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।। १५ ।।
भाष्यम्
कर्म ब्रह्मणो जायते । ‘एष ह्येवैनं साधु कर्म कारयति’ (कौ.उ.३-८) ‘बुद्धिर्ज्ञानम्’ (१०.४) इत्यादिभ्यः ।।
भावप्रदीपिका
‘कर्म ब्रह्मोद्भवम्’ इत्येतत् ‘कर्म वेदेन प्रकाश्यते इति’ इत्यपव्याख्यां दूषयितुं व्याचष्टे– कर्मेति ।।
भावप्रकाशिका
‘कर्म ब्रह्मोद्भवम्’ इत्यत्र ब्रह्मशब्दोक्तो वेद उद्भवशब्दोक्तः प्रकाश इत्येतामपव्याख्यामपाकर्तुं तावद्ब्रह्मशब्दोक्तं परब्रह्म, उद्भवशब्दोक्तं जन्मेति सप्रमाणकं सम्यगेव व्याचष्टे– कर्मेति ।।
प्रमेयदीपिका
‘कर्म ब्रह्मोद्भवं ब्रह्मणा वेदेन प्रकाश्यम्’ इति परेषां व्याख्यान- मसदिति भावेनाऽह– कर्मेति ।। ब्रह्मणः परब्रह्मणः । कुतः? इत्यत आह– एष हीति ।।
भावरत्नकोशः
‘कर्म ब्रह्मोद्भवम्’ इत्यत्र ‘ब्रह्म वेदः स उद्भवः प्रकाशको यस्य तद् ब्रह्मोद्भवम्’ इति परेषां भाष्यं सप्रतीकमर्थतोऽनुवदति– कर्म ब्रह्मोद्भवं ब्रह्मणा वेदेन प्रकाश्यमितीति ।। ब्रह्मशब्देन वेदग्रहणे किं परेणापराद्धम् ? इत्यतः ‘मुख्यस्य निर्विशेषेण शब्दः’ इति शास्त्रं मनसि निधाय तदर्थमाह– ब्रह्मणः परब्रह्मण इति ।। कुत इति ।। ‘कर्म ब्रह्मणो जायते’ इत्येतत् कुतः प्रमाणाज्ज्ञातव्यमित्यर्थः । एषः परमात्मा । ‘बुद्धिर्ज्ञानम्’ इति गीतावचन एव ‘भवन्ति भावा भूतानाम्’ इति भावशब्देन बुद्ध्यादिधर्माणां जीवनिर्वर्त्यसर्व-कर्मणां च ‘मत्त एव’ इति भगवदेकायत्तत्वश्रवणादिति भाष्यार्थः ।