भाष्यम्
भाष्यम्
‘गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ।।
वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात् ।
पूजा या विषमा दृष्टिः समा साम्यं विदुःखजम् ।।’ इति ब्रह्मवैवर्ते ।
सुहृदादिषु शास्त्रोक्तपूजादिकृतिरन्यूनानधिका या सापि समता । तदप्याहुः–
‘यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च ।
तथा करोति पूजादि समबुद्धिः स उच्यते ।।’ इति गारुडे ।
प्रमेयदीपिका
दृष्टिरेवोक्तप्रकारत्रयेण समा कार्या, पूजा तु विषमैवेत्यत्र प्रमाणान्तरमाह– गुणेति ।। या विषमा पूजा सा वैषम्यम् । तस्यैव व्याख्यानम् उत्तमत्त्वम् । साम्यं ददाति विदुःखत्वनिमित्तम् । समबुद्धित्वं प्रकारान्तरेण व्याचष्टे– सुहृदादिष्विति ।। एतन्न योगारूढविषयमिति तत्रैव नोक्तम् । न हि योगारूढो लौकिकेष्वरिष्वपकारं करोति ।।
भावदीपः
।। उक्तप्रकारत्रयेणेति ।। जीवचितः स्वतो निर्दोषत्वारित्वादि-धर्माणामन्तःकरणौपाधिकत्वे ईशायत्तत्वादिप्रकारेणेत्यर्थः ।। पुराणे पूजा या विषमा इत्यत्र ‘पूजायाः’ इत्यस्य षष्ठ्यन्तभ्रमं निरस्यन् योजनामाह– या विषमा पूजेति ।। सा इति शेषोक्तिः ।। प्रकारान्तरेणेति ।। यत् सुहृत्वादिकं यथा शास्त्रं सुहृदादिषु उपकारा-पकारानुष्ठातृत्वरूपप्रकारान्तरेणेत्यर्थः ।।
भावरत्नकोशः
।। उक्तप्रकारेणेति ।। सुहृत्त्वारित्वादिधर्माणाम् अन्तःकर-णोपाधित्वेशायत्तत्वादिरूपोक्तप्रकारेणेत्यर्थः । सर्वभूतेषु सुहृत्त्वादिरूपेष्विति भाष्यार्थः । ‘पूजाया विषमा दृष्टिः’इत्येतत् षष्ठीभ्रमं निरस्यन्नन्वयं दर्शयन् व्याचष्टे– या विषमा पूजेति ।। ‘वैषम्यम् ददाति’ इत्युक्तम् । वैषम्यस्य दोषत्वेन गुणाद्यनुसारिपूजाफलत्वायोगात् इत्यत आह– तस्यैवेति ।। उत्तमत्वम् ‘इति’ शेषः । नरसञ्चयात् पामरनिवहात् इति भाष्यार्थः । या तु दृष्टिरुक्तप्रकारेण समा सा साम्यम्, इत्यस्य अनुवृत्तेन ‘ददाति’ इत्यनेनान्वय इत्याह– ददातीति ।। ‘विदुःखजम्’ इत्यस्य तात्पर्यम् विदुःखत्वनिमित्तमिति । प्रकारान्तरेणेति । सुहृदादिषु, ‘महतां बहुमानेन दीनानामनुकम्पया । मैत्र्या चैवात्मतुल्येषु’ इति, ‘गुरुदेवप्रतीपानां विमुखः’, ‘यः प्रशंस्यान्न प्रशंसेत् निन्द्यो येन न निन्द्यते’ इत्यादिशास्त्रोक्तपूजानिन्दादिकृतिरापादनीयेत्येवं प्रकारान्तरे-णेत्यर्थः । नन्वेवं व्याख्यानं ‘न तु साधुपापादीनां पूजादिसाम्यम्’ इत्यतः पूर्वमेव कस्मान्न कृतम् ? औचित्यात् इत्यत आह– एतदिति ।। प्रकारान्तरेण व्याख्यानमित्यर्थः । कुतो योगारूढविषयत्वं नास्ति ? इत्यतस्तदुपपादयति– न हीति ।। ‘हि’शब्दो हेतौ । अतो न योगारूढविषयम्, किन्तु योगार्थिविषयमिति भावेनात्रैतदुक्तमित्यभिसन्धिः ।
भावदीपिका
।। उक्तप्रकारत्रयेण ‘जीवचितः’ इत्युक्तप्रकारेण, ‘वैषम्यं ददाति’ इति भाष्येणान्वयः । तस्यैव वैषम्यस्यैव । तथा चायं प्रमाणार्थः गुणानुसारिणीं पूजाम् उक्तप्रकारत्रयेण समां दृष्टिं सर्वभूतेषु यो नरः कुरुते, तस्य विष्णुः प्रसीदति । न केवलं विष्णु-प्रसादः फलम्, किन्तु तदतिरिक्तं चास्तीत्युच्यते– वैषम्यमिति ।। यच्छब्दश्रवणात् तच्छब्दा-ध्याहारः । तथा च या विषमा पूजा सा नरसञ्चयात् नरसमूहात् पूजकस्य वैषम्यम् इतरापेक्षया वैलक्षण्यं ददाति । ‘तं यथा यथोपासते’ इत्यादिश्रुतेः ।
ननु ‘गोमहिष्योर्वैषम्यमस्ति’ इत्युक्ते गवि महिष्यपेक्षयोत्तमत्वरूपम्, महिष्यां चाधमत्वरूपं वैषम्यं यथा प्रतीयते, तथेह ‘वैषम्यं ददाति’ इत्युक्ते किम् इररापेक्षयोत्तमत्वम् अधमत्वरूपं वेति शङ्कायां तस्य वैषम्यस्य व्यख्यानं क्रियते ‘नरसञ्चयादुत्तमत्वं ददाति’ इति । तथा या समा दृष्टिः सा विदुःखं दुःखाभावो जायते यस्मात् तद् विदुःखजं विदुःखत्वनिमित्तं यत्साम्यं तदस्य द्रष्टुर्ददाति, साम्यप्राप्तौ दुःखाभावप्रसिद्धेरिति ।
ननु ‘सुहृदादिषु’ इति समबुद्धित्वव्याख्यानं समबुद्धित्वव्याख्यानप्रकरण एव, न तु ‘साधुपापादीनाम्’ इत्यतः पूर्वमेव, इत्यत आह– एतदिति ।। एतत् समबुद्धित्वव्याख्यानं ‘सुहृदादिषु’ इत्यादिना क्रियमाणमित्यर्थः । पूर्वतनं तु योगारूढविषयम्, इदं तु सर्वसाधारणम् । अतस्तत्रैव नोक्तमित्याशयः । तथा चास्मिन् पक्षे ‘युक्त इत्युत्यते योगी’ इति लक्ष्योक्त्या योगारूढलक्षणनिरूपणं समाप्तम् । ‘सुहृत्’ इत्यादिना तु ‘साम्यबुद्धिः सर्वेषामपेक्षिता’ इति प्रसङ्गादुच्यत इत्यवधेयम् ।
नन्वेतत् कुतो न योगारूढविषयम् । सोऽपि सुहृत्सु शास्त्रोक्तपूजां करोत्येवेति चेत्, तत्राह– न हीति ।। अत एव भाष्ये ‘सुहृदादिषु’ इति ‘पूजादि’ इति चादिपदं प्रयुक्तमिति भावः । ननु सोऽप्यान्तरेषु कामादिरूपादिषु वधादिरूपापकारं करोत्येवेत्यत उक्तम्– लौकिकेष्विति ।। बाह्येष्वित्यर्थः । ‘सुहृदादिषु’ इति भाष्यस्य सुहृदादिषु न न्यूनाधिका, योग्यताऽनुसारिणी या शास्त्रोक्तपूजादिकृतिः साऽपि साम्यशब्दार्थत्वेन सम्मता, न केवलं ‘जीवचितः’ इत्याद्युक्तरूपे-त्यर्थः । ‘यथा’ इति प्रमाणस्य सुहृत्सु पूजादि यथा कर्तव्यम्, पितृशत्रुसुतेषु ‘यथा कर्तव्यम्’ इति वर्तते, यथा तदनुसारेण यः करोति स समबुद्धिरुच्यत इत्यर्थः ।