अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ।। १ ।।

।। षष्ठोऽध्यायः ।।

श्रीभगवानुवाच–

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ।। १ ।।

भाष्यम्

ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन । विवक्षितं सन्न्यासमाह– योगेन सह– अनाश्रित इति ।। चतुर्थाश्रमिणोऽप्यग्निः क्रिया चोक्ता दैवमेव (४-२५) इत्यादौ । ‘अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता’ इति च । तस्मात् निरग्निरक्रियः सन्न्यासी योगी च न भवत्येव ।। १ ।।

भावप्रदीपिका

एतदध्यायार्थं दर्शयति– ज्ञानेति । आद्यषट्कस्य प्राधान्येन साधनपरत्वात्, साधनेषु च ध्यानयोगस्य मुख्यत्वादसावेव कथ्यत इत्यर्थः । समाधियोगश्च सर्वकर्मप्रहाणे शनैर्भवतीति मन्दाशङ्कानिवारकतयाऽऽद्यश्लोकमवतारयति– विवक्षितमिति । निष्कामकर्मिणामेव योगित्वात् संन्यासित्वाच्च तेषामेव समाधियोगो न निरग्नेरक्रियस्या-पीत्यर्थः । यतीनामग्न्याद्यभावात् कथं ‘न निरग्निः’ इत्याद्युच्यत इत्यत आह– चतुर्थेति । चतुर्थाश्रमिणोऽप्यग्न्यादिसद्भावो यस्मात् तस्मात् ‘न निरग्निः’ इति युक्तमेवेत्याह– तस्मादिति

।। १ ।।

भावप्रकाशिका

प्राधान्येन साधनप्रतिपादनपर आद्ये षट्के पूर्वाध्यायोक्त-ज्ञानादिसर्वसाधनसापेक्षत्वात् स्वयमपरोक्षज्ञानान्तरङ्गत्वाच्च षष्ठ एव समाधियोगः प्रतिपादनीय इति भावेनाध्यायार्थमाह– ज्ञानान्तरङ्गमिति । अत्र केचिदाहुः । यावद्यावत्कर्मभ्य उपरमते तावत्तावन्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयत इति समाधियोगः सर्वकर्मसंन्यासिनः चतुर्थाश्रमिण एव घटते । न तु यः पूर्वाध्यायविवक्षितः संन्यासः कर्मयोगसहितः, तद्वतः । तस्य चित्तसमाधानविरोधित्वादिति । तन्निराकरोतीति भावेनाद्यं श्लोकमवतारयति– विवक्षितमिति । समाधियोगवतोऽपि पूर्वाध्यायविवक्षितं कर्मयोगसहितं कामसङ्कल्पत्यागादि-लक्षणमेव संन्यासमाह। न तु सर्वकर्मसंन्यासमित्यर्थः ।

तथाहि श्लोकार्थः । ‘अनाश्रितः कर्मफलम्’ इति यः पूर्वाध्यायोक्तः कामसङ्कल्पादित्याग-वान् संन्यासीत्युच्यते । कार्यं कर्म करोतीति यस्तत्रोक्तः कर्मयोगी च, स एव चतुर्थाश्रमवान् समाधियोगवांश्च । यस्तु निरग्निरक्रियश्च स न चतुर्थाश्रमी । विहितपरित्यागेनेश्वरप्रकोपवान्, न समाधियोगवांश्चेति । ननु चतुर्थाश्रमिणो निरग्नित्वाक्रियत्वेनैव वेदादिसिद्धत्वात् कथं निरग्निरक्रियः संन्यासी योगी च न भवति ? इत्यत आह– चतुर्थेति । ‘दैव’शब्दोक्त-ब्रह्मोपासनं यथा यज्ञो भवति तथोपासत इति व्याख्यातत्वाद्बह्मैवाग्निः, तदुपासनं क्रियेत्यर्थः । प्रकटं वाऽन्यत्रोक्तमित्याह– अग्निरिति । अनग्नित्वाक्रियत्वप्रसिद्धिस्तु बाह्याग्न्यभावात्, बाह्यकर्मसङ्कोचाच्च । एवमविरुद्धत्वादयमेव श्लोकार्थ इति भावेन तच्छेषं व्याचष्टे– तस्मा-दिति । एतेनैतदप्यपास्तम् । यदाह मायी ‘न केवलं निरग्निरक्रिय एव संन्यासी योगी च । किन्तु फलानपेक्षया कर्मकृदपीत्यकाम्यकर्म स्तूयते’ इति । अनध्याहारेण प्रतीयमानमुख्यार्थो-पपत्तौ, अप्रतीयमानाध्याहारेण स्तुतिमात्रकल्पनायोगादिति भावः ।। १ ।।

प्रमेयदीपिका

सङ्गतिं सूचयन् एतदध्यायप्रतिपाद्यमर्थमाह– ज्ञानान्तरङ्ग-मिति ।। योगे त्विमां शृणु (२.३९) इति प्रतिज्ञाय द्वितीयषट्के वक्ष्यमाणं भगवज्ज्ञानं प्रति कर्मयोगस्य बहिरङ्गत्वात् स प्राधान्येनातीते ग्रन्थे प्रतिपादितः । तत्साध्यत्वात् ज्ञानान्तरङ्ग-त्वाच्च अवसरप्राप्तं समाधियोगमाहानेन षष्ठाध्यायेनेत्यर्थः ।। आसनादीनामङ्गानां वक्ष्यमाण-त्वेऽपि तेषां समाध्यर्थत्वात् प्राधान्येन समाधियोगस्य ग्रहणम् । पञ्चमान्तोक्तस्य प्रपञ्चोऽयम् इत्यदोषः ।।

‘गृहस्थस्यापि स्तुत्यर्थमुपचरितं सन्न्यासित्वं योगित्वं चाऽद्येन श्लोकेनोच्यते’ इति परकीयतात्पर्यकथनम् असदिति भावेनाऽह– विवक्षितमिति ।। समाधियोगं विधातुं तत्राधि-कारिणं ज्ञापयिष्यन् साङ्ख्याद्यभिमततदधिकारिनिरासाय तद्विशेषणं प्राग् विवक्षितं कामादि-वर्जनलक्षणं सन्न्यासम् ईश्वराराधनस्वकर्मानुष्ठानलक्षणेन योगेन सह आह इत्यर्थः । यदि हि सन्न्यासो यत्याश्रमोऽत्र विवक्षितः स्यात्, योगश्च कश्चिद् गृहस्थासम्भवी स्यात् तदोपचारेण तत्स्तुतिरियम् । न चैवमिति भावः ।।

‘न केवलं निरग्निरक्रियश्चतुर्थाश्रमिसन्न्यासी योगी च किन्तु अनाश्रितः इत्याद्युक्तो गृहस्थोऽपि’ इति परकीयां योजनां निराकरोति– चतुर्थेति ।। अत्रैव स्पष्टं वाक्यान्तरं पठति– अग्निरिति ।। चस्त्वर्थः । ‘अतो न परकीया योजना युक्ता’ इति शेषः । तर्हि कथमित्यत आह – तस्मादिति ।। परकृतयोजनायाः निरस्तत्वात् ।। ननु निरग्नेरक्रियस्य चतुर्था-श्रमिणोऽपि सन्न्यासित्वाद् योगित्वाच्च कथं न निरग्निः इत्याद्युक्तमित्यतो वाऽह– चतुर्थाश्रमिणोऽपीत्यादि ।। न भवत्येवेति ।। ‘युक्तम्’ इति शेषः । अनग्नित्वादिप्रवादश्च बाह्याग्न्याद्यभावनिबन्धन इति भावः ।। १ ।।

भावबोधः

स्पर्शान् कृत्वेति समाधेरुक्तत्वात्पुनरुक्तिदोष इत्यत आह– पञ्चमान्त इति ।।

भावदीपः

भाष्यमित्युुपलक्षणं मत्वाऽह– तत्साध्यत्वादिति ।। कर्मयोग-साध्यत्वादित्यर्थः ।। स्पर्शान् कृत्वा (५.२७) इत्यत्र ध्यानयोगस्योक्तत्वात् पुनरुक्तिदोषमा-शङ्क्याऽह– पञ्चमान्तेति ।। विधातुमिति ।। योगी युञ्जीत इत्यादिनेति योज्यम् ।। प्राग्विवक्षितमिति ।। ज्ञेयः स नित्यसन्न्यासी इत्यत्रेति भावः ।। ननु कामहीनकर्मानुष्ठानं योगः, कामवर्जनं सन्न्यासः । ‘योगेन सह आह’ इति कथं इत्यतोऽत्र योगशब्द एकदेशपर इति भावेनाऽह– ईश्वरेति ।। १ ।।

भावरत्नकोशः

।। सङ्गतिं सूचयन्निति । ज्ञानपदेन वक्ष्यमाणग्रन्थप्रतिपाद्य-ज्ञानरूपार्थेन योगेन चैतदध्यायार्थसमाधियोगस्य साध्यसाधनभावलक्षणां सङ्गतिं सङ्क्षेपेण ज्ञापयन्नित्यर्थः । तामेवाह योग इत्यादिना । प्रतिज्ञाय प्रतिपादित इति सम्बन्धः । बहिरङ्गत्वात् मनःशुद्ध्यादिद्वारा साधनत्वात् । तथा च आहुः ‘कर्मभिः शुद्धसत्त्वस्य’ इति, ‘प्राचीनाचीर्ण-पुण्योच्चयचतुरतराचारतश्चारुचित्तान्’ इति च । तत्साध्यत्वात् कर्मयोगसाध्यत्वात् । ज्ञानान्तरङ्ग-त्वात् भगवज्ज्ञानं प्रत्यावश्यकसाधनत्वात् समाधियोगमिति ।

यद्यपि तात्पर्यनिर्णये ‘ध्यानमत्रोच्यते’ इति ध्यानमध्यायार्थ इत्युक्तम् । तद्व्याख्यानं कृतं न्यायदीपिकायाम् ‘ ‘योगे त्विमां शृणु’ इति प्रतिज्ञातम् । योगश्च कर्मयोगो ध्यानयोगश्चेति द्वेधा भवति । तत्र सङ्क्षेपविस्तराभ्यां कर्मयोगो निरूपितः । ध्यानयोगप्रकारश्च सङ्क्षेपेण पञ्चमान्ते निरूपितः । विस्तरेणास्मिन्नध्याय उच्यते’ इति । अत्र तु समाधियोगोऽध्यायार्थ उच्यते । ध्यानसमाधी च भिन्नलक्षणौ । यथोक्तं तन्त्रसारे–

‘खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते ।

 अप्रयत्नात्समाधिश्च .................................।।’ इति ।

पञ्चमान्तप्राचीनटीकायां च ‘सर्वदा सर्वत्र ध्यातृप्रयत्नं विना स्वयमेव कृपया आत्मन्यभि-व्यक्तस्य भगवतो मनसाऽवलोकनं समाधिः । ध्यानं तु ध्यातृप्रयत्नसाध्यम्’ इति । तथाप्यवान्तरसूक्ष्मवैलक्षण्यं अनालक्ष्योभयोरेकत्वमभिसन्धाय एवमुक्तमित्यविरोधः । तथा च ‘सोपासना च द्विविधा’ इत्यत्र सुधा ‘ध्यानसमाध्योरनतिभिन्नत्वाद् ध्यानशब्देन समाधिरपि गृह्यते’ इति । ‘आसनादीनाम्’ इत्यादिपदेन स्वनासाग्रावलोकनदिगनवलोकनप्रशान्तात्मत्व-ब्रह्मचर्यमनःसंयमनादीनां ग्रहणम् । नन्वेवं ध्यानसमाध्योरेकत्वे ध्यानयोगस्य ‘स्पर्शान् कृत्वा बहिर्बाह्यान्’ इति पञ्चमान्ते कथितत्वान्नात्र स वक्तव्यः, पौनरुक्त्यापत्तेरित्यत आह– पञ्चमान्तोक्तस्येति ।। तत्र सङ्क्षेपेणोक्तस्यात्र विस्तरेण निरूपणान्नोक्तदोष इति भावः ।

परकीयतात्पर्यकथनमिति । तथा च सङ्करः ‘प्रतिपन्नगार्हस्थ्यस्याग्निहोत्रादिकर्म फलनिरपेक्ष-मनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यत इति ‘संन्यासी च योगी च’ इति स्तूयते’ इति । विधातुम् ‘उद्धरेदात्मनाऽत्मानमित्यनेन’ इति शेषः । तद्विशेषणं समाधि-योगाधिकारिविशेषणम् । प्राक् ‘ज्ञेयस्स नित्यसंन्यासी’ इत्यत्र । ननु कामहीनं कर्मानुष्ठानं योगः । तथा च कामवर्जनाख्यं संन्यासं योगेन सहाहेति कथमुच्यत इत्यतोऽत्र योगशब्देन तदेकदेशो गृह्यत इति भावेनाह– ईश्वरेति । परकीयतात्पर्यकथनस्यासत्त्वं भाष्यभावोक्त्या स्पष्टयति– यदि हीति ।। स्तुतिरियम् ‘इति तात्पर्यं कथनीयं स्यात्’ इति शेषः ।

‘न केवलं निरग्निरक्रिय एव संन्यासी योगी च, किं तर्हि ? कर्म्यपि कर्मफलासङ्गं संन्यस्य कर्मयोगमनुतिष्ठन् संन्यासी योगी च भवतीति स्तूयते’ इति सङ्करभाष्यं सार्थमनुवदति– न केवलमिति । अत्रैव चतुर्थाश्रमिणोऽप्यग्निः क्रिया चास्तीत्यत्रैव । ‘दैवमेव’ इत्यस्योक्तार्थत्वे विप्रतिपद्यमानं प्रति वाक्यान्तरं पठतीत्यर्थः । च इति । ‘क्रिया तु ब्रह्मपूजा’ इति चशब्दस्तुशब्दार्थ इत्यर्थः । ‘इति च’ इत्यनन्तरं शेषमाह– अत इति ।। ‘चतुर्थाश्रमिणोऽप्यग्निः क्रिया चास्ति’ इत्यस्य प्रमाणसिद्धत्वादित्यर्थः । कथं योजना इत्यतो वेति । अस्मिन् पक्षे ‘तस्मात्’ इत्यस्य चतुर्थाश्रमिणोऽप्यग्निक्रियासद्भावस्य प्रमाणसिद्धत्वादित्यर्थः इति भावः । तर्हि ‘अनग्निरनिकेतनः’ इति, ‘विशेषो निष्क्रिययतेः’ इत्यादावनग्नित्वाद्युक्तिः कथमित्यत आह– अनग्नित्वादीति ।। बाह्याग्न्यादीति । आहवनीयाद्यग्निहोत्रादिर्बाह्याग्निशब्दार्थः । आदिपदेन तदितरक्रिया ग्राह्या ।।१।।

भावदीपिका

प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।

षष्ठाध्यायस्य टीकायाः क्रियते भावदीपिका ।।

नन्वासनादीनामङ्गानामपि वक्ष्यमाणत्वात् समाधियोगग्रहणमेव कुत इत्यत आह– आसनादीनामिति ।। समाध्यर्थत्वादिति ।। ‘तदङ्गं धारणाकिम्’ इत्युक्तत्वादिति भावः ।। ननु पञ्चमाध्यायान्ते ‘स्पर्शान् कृत्वा’ इत्यादिना समाधियोगस्योक्तत्वात् पुनरुक्तिदोषः ? इत्यत आह– पञ्चमान्तोक्तस्येति ।। विधातुमिति ।। ‘उद्धरेत् इत्यादिना’ इति शेषः । अत एव वक्ष्यति ‘उद्धरेदित्यादिनैव योगो विहितः’ इति । साङ्ख्याद्यभिमतेति । अचेतनप्रकृतेरेव स्वातन्त्र्येण कर्तृत्वज्ञानप्रकृतिपुरुषविवेकज्ञानादिमानेव ध्यानाधिकारीति साङ्ख्यैरुक्तत्वा-दित्यर्थः । तद्विशेषणम् अधिकारिविशेषणमित्यर्थः । प्राग्विवक्षितमिति ।। अधिकारिनिरूप-णात् प्राग्वक्तुमिष्टमित्यर्थः । इयम् ‘स्यात्’ इति वर्तते । चस्त्वर्थ इति । न्यासाश्रमेऽग्निस्तु ब्रह्मेत्यर्थः । ननु तर्हि अनग्नित्वादिप्रसिद्धिविरोध इत्यत आह– अनग्नित्वादीति ।। १ ।।

भावप्रकाशः

।। समधियोगमिति ।। यद्यपि ध्यानमत्रोच्यत इति तात्पर्यनिर्णये उक्तम् । ध्यानसमाधी च भिन्नलक्षणौ । यथोक्तम्–

‘खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते । अप्रयत्नात् समाधिश्चे’ति ।

तथाऽप्यनतिभिन्नत्वादविरोधः । ननु ‘योगी युञ्जीत सतत’मित्यादिभिः ‘योगो भवति दुःखहा’ इत्यन्तैः श्लोकैरासनादीनां वक्ष्यमाणत्वात् कथं समाधियोगमाहेत्युक्तमित्यत आह– आसनादीनामङ्गानामिति ।। नन्वत्रासनपदेन चैलादिकम्, आदिपदेन च विविक्तदेश-सेवित्वादिकं विवक्षितमिति मन्तव्यम् । ‘योगी युञ्जीत, आत्मानं रहसि स्थितः’ इत्यादिना युक्तस्वप्नावबोधस्य योगो भवति दुःखहा’ इत्यन्तेन तस्यैव वक्ष्यमाणत्वात् । तथा च तन्त्रसार-विरोधः । तत्र वीराद्यासनस्य यमनियमप्राणायामानां चाङ्गत्वेनोक्तत्वात् । यथोक्तम्–

‘एकं ध्यानं हरेरन्यच्चत्वार्यङ्गानि तस्य च ।

 यमश्चनियमश्चासा प्राणायाम इतीरितः’

‘वीरपद्मे च स्वस्तिकाद्यानि चासनमिति’ । इति च

इति चेदुच्यते । अस्मिन्नेव देशे काले चेत्यादिरूपदेशकालावस्थाव्यवस्थया विना अनुष्ठेययमशब्धाभिधेयं रहसि स्थित इत्याद्युक्तम् । विविक्तदेशसेवित्वादिकं च तथात्वद्यम एव ।

नचैवम् ‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमा’ इति तन्त्रसारीयपरिगणनविरोधः । परिगणनं प्रदशनार्थमिति सुधायामेवोक्तत्वात् । एवं ‘शुचौ देशे’ इत्यादिना चैलाद्यासनस्य वक्ष्यमाणत्वेऽपि न तन्त्रसारविरोधः । ‘वीरपद्मे च स्वस्तिकाद्यानि चासन’मित्याद्यपदेनात्रोक्त-चैलादिसङ्ग्रहात् । अत्र च चैलादिग्रहणस्योपलक्षणत्वात् । एवं ‘प्राणापानौ समौ कृत्वा’ इति पूर्वाध्यायोक्त एव प्राणायामः ‘समं कायशिरोग्रीव’मित्यादिनेत्थम्भावान्तरविधानेन विव्रियत इति प्राणायामोऽप्युक्त एव । एवं ‘युक्ताहारविहारस्य’ इत्यादिना वक्ष्यमाणं नियमाहार-त्वादिकमपि तपोरूपनियम एवेति नियमोऽप्यत्रोक्तः । तस्मात् तन्त्रसारोक्तयमादीनामेवात्र वक्ष्यमाणत्वान्न विरोधगन्धोऽपीति प्रतिभाति । यद्यप्येवं सति यमादीनामिति वक्तव्यम् । प्रथमातिक्रमे कारणाभावात् । तथाऽप्यासनस्य स्फुटप्रतिभासत्वादासनादीनामित्युक्तम् ।

ननु स्पर्शान् कृत्वेत्यादिना समाधेरुक्तत्वात् पुनरुक्तिरित्यत आह– पञ्चमान्तेति ।। विधातुमिति । उद्धरेदात्मनेत्यनेनेति शेषः । परेषां तात्पर्यं दूषयति– यदि हीति ।। बाह्माग्न्याद्यभावेति । आदिपदेन बाह्यकर्माभावग्रहणम् ।। १ ।।