श्रेयान् द्रव्यमयाद्यज्ञाद् ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ।। ३३ ।।
श्रेयान् द्रव्यमयाद्यज्ञाद् ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ।। ३३ ।।
भाष्यम्
अखिलम् उपासनाद्यङ्गयुक्तम् । ज्ञानफलमेवेत्यर्थः ।। ३३ ।।
भावप्रदीपिका
‘सर्व’शब्दागतार्थतया ‘अखिल’शब्दार्थमाह – अखिलमिति ।। ३३ ।।
भावप्रकाशिका
सर्वपदागतार्थत्वेनाखिलपदार्थमाह– अखिलमिति ।। ‘तां ध्यात्वा वषट्करिष्यन्’ इत्यादिवचनादस्ति कर्माङ्गमप्युपासनम् । तदादिभिरङ्गैर्युक्तमखिल-मित्यर्थः । ‘ज्ञाने परिसमाप्यते’ इत्यस्यार्थमाह– ज्ञानफलमेवेति ।। ज्ञानं फलं यस्य तत् ज्ञानफलम् । द्रव्ययज्ञादि सर्वं कर्म स्वस्वाङ्गजातयुक्तं यदि ज्ञानं जनयति तर्ह्येव तत्(परि)पूर्णं नान्यथेत्यर्थः ।। ३३ ।।
प्रमेयदीपिका
‘सर्वं कर्म’ इत्युक्तत्वात् ‘अखिलम्’ इति पुनरुक्तिरित्यत आह– अखिलमिति ।। कर्मसमृद्ध्यर्थान्युपासनानि वेद एवोच्यन्ते । खिलं सशेषं न भवतीत्यखिलमित्यर्थः । ‘ज्ञाने परिसमाप्यते’ इत्यस्य ‘ज्ञाने जाते न कर्म कार्यम्’ इत्यन्यथा-प्रतीतिनिरासाय तात्पर्यमाह– ज्ञानेति ।। परिसमाप्तिः सम्पूर्णता सफलता । सा च ज्ञाने सतीति सन्निधानाज्ज्ञानलक्षणेनैव फलेनेति भावः ।। ३३ ।।
भावबोधः
उपासनायाः कर्मसाध्यत्वात् कथं कर्माङ्गत्वमित्यत आह– कर्मसमृद्ध्यर्थानीति ।। ३३ ।।
।। इति रघूत्तमयतिकृते श्रीमद्गीताभाष्यटीकाभावबोधे चतुर्थोऽध्यायः ।।
भावदीपः
कर्मसाध्यत्वादुपसनाया कथं कर्माङ्गत्वम्? इत्यत आह– कर्म-समृद्धीति ।। ‘उद्गीथमुपासीत’ इत्यादिना वेद एवोच्यन्त इत्यर्थः ।। ३३ ।।
भावरत्नकोशः
ननूपासनायाः कर्मसाध्यत्वात् कथं कर्म प्रत्यङ्गत्वमुच्यत इत्यत आह– कर्मसमृद्ध्यर्थानीति ।। कर्मणां सम्पूर्णफलावाप्त्यर्थान्यपि कानिचिदुपासनानि वेद एव उच्यन्त इति तेषां कर्माङ्गत्वमुपपद्यत इति भाष्ये तथोक्तमिति भावः । तथा च प्राचीनटीकायां ‘ ध्यात्वा वषट्करिष्यन्’ इत्यादिवचनादस्ति कर्माङ्गमुपासनमिति । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्युपासनाविधिप्रकरणे ‘एष एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति’ इत्युद्गीथो-पासनादीनां कर्मसमृद्ध्यर्थत्वस्य छान्दोग्येऽवगमात् कर्मसमृद्ध्यर्थान्युपासनादीनीत्युक्तमित्यपि आहुः । अपौनरुक्त्याय भाष्यार्थमाह– खिलमिति ।। सशेषम् अननुष्ठिताङ्गम् । तात्पर्यं ‘ज्ञाने परिसमाप्यते’ इति पादस्येति पूर्वेणान्वयः । ‘परिसमाप्यते’ इत्यत्र प्रकृत्यर्थः– परिसमाप्तिरिति ।। ‘समाप्तविद्यान् धनुषि श्रेष्ठान् यान् सप्त मन्यसे’ इतिवत् समाप्तिशब्दोऽत्र पूर्तिवाचीति प्रस्थानान्तरं हृदि कृत्वाऽऽह– सम्पूर्णतेति ।। सम्पूर्णता साङ्गता चेद् ‘अखिलम्’ इत्यनेन गतार्थतेत्यतो विवक्षितमर्थमाह– सफलतेति ।। ज्ञानस्य फलत्वस्फोरणाय ‘सति’ इत्युक्तम् । ज्ञानलक्षणेनैव फलेन सा सफलतेति सम्बन्धः । ‘ज्ञानं फलं यस्य तज्ज्ञानफलम् । द्रव्ययज्ञादि सर्वं कर्म स्वस्वाङ्गजातयुक्तं यदि ज्ञानं जनयति तर्ह्येव तत्परिपूर्णं नान्यथेत्यर्थः’ इति प्राचीनटीकायाम् । भाष्यार्थस्य स्फुटत्वादत्र भावमात्रमुक्तम् ।। ३३ ।।
श्रेयानित्यादि त्रिश्लोक्या अयमक्षरार्थः– उक्तेषु यज्ञेषु को यज्ञः श्रेष्ठ इति जिज्ञासायां ज्ञानयज्ञः इति स्तुत्योच्यते– श्रेयानिति ।। द्रव्यमयादिति ।। उक्तसर्वयज्ञोपलक्षणम् । द्रव्यसाधनसाध्याद् उक्तयज्ञसमुदायादिति यावत् । ज्ञानयज्ञः भगवज्ज्ञानसम्पादनरूपो यज्ञः । श्रेयान् प्रशस्ततरः । हे परन्तप इति सम्बोधनम् । श्रेयस्त्वहेतुरुच्यते सर्वमिति । अखिलं ‘समुद्रं मनसा ध्यायीत’, ‘वायुं मनसा ध्यायेत््’ इत्यादि कर्मसमृद्ध्यर्थकोपासनाद्यङ्गयुक्तं सर्वं कर्म ज्ञाने समुत्पन्ने परिसमाप्यते सम्पूर्यते । ज्ञानलक्षणेनैव फलेन फलवद्भवतीत्यर्थः ।। ३३ ।।
भावदीपिका
ननूपासनायाः कर्मसाध्यत्वात् कथं कर्माङ्गत्वम्? इत्यत आह– कर्मसमृद्ध्यर्थानीति ।। उपासनानि उद्गीथाद्युपासनानि ।। वेद एवेति ।। ‘समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते’ (छा. १.१.४) इति छान्दोग्योपनिषदि कथितत्वादिति भावः ।। सशेषमिति ।। अङ्गानुक्तौ सशेषतैवेति भावः ।। ३३ ।।
भावप्रकाशः
ननूपासनायाः कर्मसाध्यत्वात् कथं कर्माङ्गत्वमित्यत आह– कर्मसमृद्ध्यर्थानीति ।। उद्गीथाद्युपासनानीत्यर्थः ।। ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति उपासनाविधिप्रकरणे एष एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एवं विद्वानक्षर-मुद्गीथमुपास्त’ इति श्रवणादिति भावः ।। कथमनेनाङ्गयुक्तत्वलाभ इत्यत आह– खिलमिति ।। ‘खिलं भवेदप्रभूत’ इति विश्वोक्तेः खिलत्वमप्राचुर्यकर्मणांऽप्राचुर्यञ्च कर्मानुष्ठानाय अङ्गाननुष्ठान-मेवेति भावेन सशेषमित्युक्तम् ।। ३३ ।।