नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः । अज्ञानेनाऽवृतं ज्ञानं तेन मुह्यन्ति जन्तवः।। १५ ।।

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।

अज्ञानेनाऽवृतं ज्ञानं तेन मुह्यन्ति जन्तवः।। १५ ।।

भावरत्नकोशः

एवं ध्यायन् कर्तृत्वेन कारयितृत्वेन वा स्वविहितकर्मयोगे प्रवर्तमानः मानवः कस्यापि पुण्यं पापं वा नादत्ते । ‘ननु यद्यात्मनः परः स्वतन्त्रोऽन्यः कर्ता अस्ति, तत्कर्तृके कर्मणि ‘अहं करोमि’ इत्यभिमन्यते जीवः, तर्हि कथं तं न पश्यति ? इत्यत उक्तम् अज्ञानेनेति’ इति प्राचीनटीकायां ‘नादत्ते’ इति गीताक्षराणि व्याख्यातानि । जडापेक्षया विभुः समर्थो जीव इति पूर्वभाष्यादेव व्याख्यातप्रायं विभुपदम् । विवृतं च जडापेक्षया विशिष्ट-भवनत्वाद्विभुर्जीव इति । तत्रैव भावप्रदीपिकायां ‘प्रभुविभुशब्दौ विधिनिषेधशास्त्रपरिवृतत्वेन जीवे प्रयुक्तौ’ इति तत्पदप्रयोजनमुक्तम् ।। १५ ।।