ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ।। ३१ ।।

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः  ।। ३१ ।।

गीताक्षरार्थस्तु– किं विद्वांस एवं कुर्वन्तीत्येतावता मया कार्यम् ? इत्याशङ्क्य स्वोक्त-करणाकरणयोः फलमुच्यते –‘ये मे मतम्’ इति श्लोकद्वयेन । ये मानवाः इदं पूर्वोक्तं कर्म आवश्यकमिति मे मतं सिद्धान्तं श्रद्धावन्तः अनेन मम प्रयोजनमस्तीति बुद्धिमन्तः अनसूयन्तः कष्टे कर्मणि किमिति प्रवर्तयतीति दोषदृष्टिमकुर्वन्तः सन्तः अनुतिष्ठन्ति अनुवर्तन्ते तेऽपि कर्मभिः स्वयमनुष्ठितैर्वर्णाश्रमधर्मैर्ज्ञानद्वारा मुच्यन्ते । किम्वपरोक्षज्ञानिन इति कैमुत्यं द्योतयितु-मपिशब्दः ।। ३१ ।।