न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममाऽत्मा भूतभावनः ।। ५ ।।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममाऽत्मा भूतभावनः ।। ५ ।।
भाष्यम्
मत्स्थत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह– न चेति ।। ‘न दृश्यश्चक्षुषा चासौ न स्पृश्यः स्पर्शनेन च’ इति हि मोक्षधर्मे । ‘सञ्ज्ञासञ्ज्ञ’ इति च । ममाऽत्मा देह एव भूतभावनः । ‘महाविभूते माहात्म्यशरीर’ इति हि मोक्षधर्मे ।। ५ ।।
भावप्रदीपिका
‘मत्स्थानि सर्वभूतानि’ इत्युक्त्वा, कथं ‘न च मत्स्थानि’ इत्युच्यत इत्यत आह– मदिति ।। भगवतः स्पर्शाद्यभावे प्रमाणमाह– नेति ।। तर्हि तज्ज्ञानं कथमित्यत आह– सञ्ज्ञेति ।। सञ्ज्ञा वेदस्तेन ज्ञानं यस्य तत्सम्बोधनम् । ‘अहं भूतभावनः’ इत्यनुक्त्वा ‘मम’इति कथमुच्यत इत्यत आह ममेति ।। अत्रैव प्रमाणमाह– महाविभूत इति ।।
प्रमेयदीपिका
‘मत्स्थानि सर्वभूतानि’ इत्युक्त्वा पुनः कथं ‘नच मत्स्थानि’ इति व्याहतमुच्यते? इत्यत आह– मत्स्थत्वेऽपीति ।। स्पृष्ट्वेति ।। स्पर्शनेन्द्रियेण तां ज्ञात्वा अन्योन्यधर्मसङ्क्रान्तिमासाद्य चेत्यर्थः । परमेश्वरस्य स्पर्शनाद्य-वेद्यत्वे प्रमाणमाह– नेति ।। सञ्ज्ञया शब्देनैव सञ्ज्ञा सम्यज्ज्ञानं यस्यासौ तथोक्तः । मत्स्थानि इत्यादेरुक्तत्वाद् भूतभृत्त्वादिकं पुनरुक्तमित्यत आह– ममेति ।। प्राग् भूताधारत्वादिकं स्वस्योक्तम् । अत्र पुनः अव्यक्तमूर्तिना इति मूर्तावुक्तायां साऽस्म-दादीनामिव भिन्नेति भ्रान्तिनिरासार्थं स्वलक्षणं स्वदेहस्योच्यत इत्यर्थः । भूतभावन-त्वस्याधिकस्योक्तेश्च न पुनरुक्तिरिति भावेनोक्तम्– भूतेति ।। स्यादिदं व्याख्यानं यदि भगवद्देहस्येदं भवेत् । तदेव कुतः? इत्यत आह– महाविभूते इति ।। माहात्म्यमेव शरीरं यस्यासौ तथोक्तः ।। ५ ।।
भावबोधः
ननु पृथिवी तद्गतभूतानां परस्परसम्बन्धवत् विष्णुतद्गतभूतानामपि सम्बन्धोऽस्त्येवातः कथं व्यतिरेकदृष्टान्तत्वमित्यत आह– स्पर्शनेन्द्रियेणेति ।। धर्मसङ्क्रान्ति-मिति ।। पृथिवीगतगन्धादेर्भूतशरीरे भूतशरीरगतगन्धादेस्तु पृथिव्यां प्रतीतेरिति भावः
।। ४, ५ ।।
भावदीपः
‘यथा आकाश’ इत्यग्रेतनदृष्टान्तानुरोधेनाऽह– अन्योन्येति ।। औष्ण्यशैत्यादिधर्मसम्बन्धमित्यर्थः ।। स्वलक्षणमिति ।। स्वकीयमसाधारणधर्ममित्यर्थः ।।५।।
भावरत्नकोशः
ननु पृथिवीतद्गतभूतानां सम्बन्ध इव भगवत्तद्गतभूतानामपि सम्बन्धोऽवर्जनीय एवेति कथं ‘न तथा मयि’ इत्युक्तिः ? इत्यत आह– स्पर्शनेन्द्रियेणेति ।। तां पृथिवीम् इति योग्यकर्मसंयोजनम्, ‘...ज्ञात्वा’ इत्यन्तं ‘सृष्ट्वा’ इत्यस्य व्याख्यानम् । ‘...आसाद्य’ इत्यन्तं तु तत्तात्पर्यरूपम् । धर्मसङ्क्रान्तिं पृथिवी तद्गतभूतशरीरयोः गन्धादि-धर्मसमाश्लेषम् । नन्वाधाराधेयभावे सति अन्योन्यधर्मसङ्क्रान्तिरवर्जनीयैव । किञ्चास्माकं स्पर्शनेन्द्रियेण तदज्ञानेऽपि केषाञ्चित्स्यात् । तेषामपि तदभावे न प्रमाणम् ? इत्यतो ‘न दृश्यः’ इत्यादिप्रमाणोदाहरणमिति भावेन तदवतारयति– परमेश्वरस्येति ।। ‘न दृश्यश्चक्षुषा’ इति श्रवणादुक्तम्– स्पर्शनाद्यवेद्यत्व इति ।। अदृश्यत्वस्यादित्वेऽपि प्रस्तुतत्वात् स्पर्शनं स्वशब्देनोपात्तम् । अदृश्यत्वं त्वादिपदेनेति ज्ञातव्यम् ।
इन्द्रियादिप्रमाणागोचरस्य कथं प्रमेयत्वं स्यात् ? इत्यत आह – सञ्ज्ञासञ्ज्ञेति इति भावप्रदीपिका
। तद्वाक्यमप्रतीतेर्व्याचष्टे– सञ्ज्ञयेति ।। ‘सञ्ज्ञायत अनेन शब्देन’ इति व्युत्पत्त्या सञ्ज्ञाशब्दो वेदलक्षणशब्दपरः, सावधारणश्च । द्वितीयसञ्ज्ञाशब्दोऽपि सम्पूर्वा-ज्जानातेः ‘आतश्चोपसर्गे’ इत्यङ्प्रत्यये रूपम् । ‘यस्य’ इति कर्मणि षष्ठी । ‘तथोक्तः’ इत्यतः परं ‘तत्सम्बुद्धिः’ इति योज्यम् । तथा च भावप्रदीपिका
‘तत्सम्बोधनम्’ इति । मोक्षधर्मे च ‘नमस्ते देवदेवेश’ इत्युपक्रम्य ‘सप्तमहाभागयाम्य सञ्ज्ञासञ्ज्ञ तुषित महातुषित’ इत्यादिना सम्बोधनरूपं भगवत्कर्मकं नारदस्तवनम् आम्नायते ।
‘इत्यादेः’ इत्यत्रादिपदेन ‘न चाहं तेष्ववस्थितः’ इत्यस्य ग्रहः । ‘इत्यादिकम्’ इत्यत्रादि-शब्देन ‘न च भूतस्थः’ इत्यस्य ग्रहणम् । कृतचोद्यं परिहर्तुं भाष्यतात्पर्यमाह– प्रागिति ।। सा मूर्तिः । स्वलक्षणं स्वस्य भगवतोऽसाधारणो धर्मः, भूताधारत्वादिकं स्वलक्षणम् । मूर्तावुक्तेः स्वाभेदसिद्धेर्न भेदभ्रान्तिर्भवितुमर्हतीति भावः । भूतभावनत्वस्य सर्वभूतोत्पादनस्य । अत्र पक्षे न भगवत्परत्वेऽपि पुनरुक्तिशङ्का । ‘ममात्मा मम स्वरूपमहमिति यावत्’ इत्युक्तं भवतीति आहुः । माहात्म्यं भूताधारत्वादिरूपं भूतभावनत्वादिरूपं च । उक्तमाहात्म्यसम्पन्न-शरीरकत्वस्यात्र विवक्षितत्वात् प्रमाणेन प्रकृतार्थसिद्धिरिति हृदयम् । स्पष्टं चैतद् उत्तरप्रस्थाने । ‘तथोक्तः’ इत्यनन्तरं ‘तत्सम्बुद्धिः’ इति शेषः । ‘महाविभूते माहात्म्यशरीर’ इति मोक्षधर्मे सम्बुद्ध्यन्तस्यैव पाठात् ।। ५ ।।
‘भूतानि मयि स्थितानि’ इत्युक्तौ अर्जुनस्य हृदये काचन शङ्का प्राप्ता ‘यथा पृथिव्यां स्थितानि भूतानि स्पर्शनेन्द्रियेण तां ज्ञात्वा, अन्योन्यधर्मसङ्कान्तिमासाद्य च वर्तन्ते, तथा वर्तन्ते चेत्, अनुपलम्भबाधः’ इति, तामिमां शङ्कां परिहर्तुमुच्यते– न च मत्स्थानीति ।। मयि स्थितत्वेऽप्यन्योन्यधर्मसङ्क्रान्तिमासाद्य न तिष्ठन्ति । मम स्पर्शनाद्यवेद्यत्वादेर्न स्पृश्यः । ‘स्पर्शनेन’ इत्यादिमानसिद्धतयाऽचिन्त्यशक्तेरसङ्गतत्वात्, इति भावेनोक्तम्– ऐश्वरम् ।। ईश्वरस्यायं स्वरूपभूतः ऐश्वरः, तं योगं सामर्थ्यं मम पश्य इति । ‘अव्यक्तमूर्तिना’ इति मूर्तावुक्तायां साऽस्मदादीनामिव भिन्ना, इति भ्रमनिरासार्थं स्वलक्षणं भूताधारत्वादिकं स्वदेहस्याप्युच्यते– भूतभृदिति ।। ममात्मा देहः भूतभावनः भूतानि भावयति उत्पादयतीति व्युत्पत्त्या सर्वभूतानामुत्पादयिता । प्राग्भूताधारत्वादिकं स्वस्योक्तम् । अत्र पुनः, उक्तभेद-भ्रमनिरासार्थं देहस्योच्यत इति न पुनरुक्तिः । किञ्च भगवत उक्तभूताधारत्वानुवादेन भूतो-त्पादकत्वस्याधिकस्यात्र निरूपणं क्रियत इति न पुनरुक्तिः । अयं चार्थो भूतभावनत्व-स्याधिकस्योक्तेश्च न पुनरुक्तिरिति टीकातोऽवगम्यते ।। ५ ।।
भावदीपिका
ननु पृथिव्यास्तद्गतभूतानां च परस्परसम्बन्धवत् विष्णो-स्तद्गतभूतानां च परस्परसम्बन्धोऽस्त्येव, अतः कथं व्यतिरेकदृष्टान्तत्वम् ? इत्यत आह– स्पर्शनेन्द्रियेणेति ।। अन्योन्यधर्मसङ्क्रान्तिमिति ।। पृथ्वीगतगन्धादेर्भूतशरीरे, भूतशरीरगत-गन्धादेस्तु पृथिव्यां प्रतीतेरिति भावः । इदम् भूतभावनत्वम् । माहात्म्यम् भूतभावनत्वरूपम्
।। ५ ।।
भावप्रकाशः
ननु पृथिवीतद्गतभूतवद्विष्णुतद्गतभूतानामपि सम्बन्धसत्त्वात् कथं न तथा मयीत्युक्तमित्यत आह– स्पर्शनेन्द्रियेणेति ।। सङ्क्रातिमिति । पृथिवीतद्गतमूतयो-रन्योन्यं गन्धादिधर्मसङ्क्रमवत् सङ्क्रान्तिमित्यर्थः ।। ५ ।।