यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर ।। ९ ।।
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर ।। ९ ।।
भाष्यम्
‘कर्मणा बद्ध्यते जन्तुः’ (म.भा.१२.२४१.७) इति कर्म बन्धकं स्मृत-मित्यत आह– यज्ञार्थादिति ।। कर्मबन्धनं यस्य लोकस्य स कर्मबन्धनः ।।
भावप्रदीपिका
‘कर्मणा बध्यते जन्तुः’ इति साक्षात् कर्मणो बन्धकत्वं श्रूयते । अतः कथं तत्र नियोजयसि ? इत्याशङ्क्य, उत्तरश्लोकमवतार्य व्याचष्टे– कर्मणेति ।।
भावप्रकाशिका
ननु विद्यैव विधीयते, कर्म निषिध्यत एव । तयोरिष्टा-निष्टहेतुत्वोक्तेः । ‘कर्मणा बद्ध्यते’ इत्यादिना कर्मवाक्यान्यपि तेषां बन्धकत्वमेव ज्ञापयन्ति । अतो न विहिताकरणदोषः कर्माकरणेऽपि । अवशत्वेन शरीरयात्रायैव किञ्चित्कर्मकरणेऽपि न निषिद्धकर्मकरणदोषोऽशक्यत्वादिति भावेनाशङ्क्य तदुत्तर-त्वेनोत्तरश्लोकमवतार्य व्याचष्टे– कर्मणेति ।।
प्रमेयदीपिका
इदानीं तृतीयपक्षमाशङ्क्य तत्परिहाराय श्लोेकमवतारयति– कर्मणेति ।। बन्धकं मोक्षस्य प्रतिबन्धकम् । ‘अतो न करोमि’ इति शेषः । तत्पुरुषत्व-भ्रान्तिनिरासायाह– कर्मेति ।। तत्पुरुषत्वेऽसङ्गतिः स्यादिति भावः ।।
भावबोधः
।। तत्पुरुषत्वेति ।। बन्धनशब्दस्य नपुंसकत्वाद् भ्रान्तीत्युक्तम् ।
भावदीपः
।। तृतीयपक्षमिति ।। ‘कर्म बन्धकम्’ इति प्राग्विकल्पितं तृतीय-पक्षमित्यर्थः ।।
भावरत्नकोशः
‘कर्मणा बध्यते जन्तुः’ इति स्मृतिमाश्रित्य यस्तृतीयः पक्षः तमाशङ्क्य ‘यज्ञार्थात्’ इति स्मृतेरर्थसङ्कोचं वक्ष्यतीत्युक्तम् । तदाह– इदानीमिति ।। कर्मणो बन्धकत्वाभिधानं प्रकृतासङ्गतमित्यतो बन्धकशब्दस्य विवक्षितमर्थमाह– मोक्षस्य प्रतिबन्धक-मिति ।। न करोमि कर्माणि ।। तत्पुरुषत्वेति ।। ‘कर्मणो बन्धनः कर्मबन्धनः’ इति तत्पुरुषत्वभ्रान्तीत्यर्थः । यद्यपि ‘बन्धनः’ इति शब्दस्य पुल्लिङ्गतया तत्पुरुषत्वभ्रमः सम्भवति । तथाऽपि ‘कोऽसावनुमानो नाम’ इत्यादिप्रयोगादत्रापि तथा स्यादिति युक्त्याभासेन सम्भवत्येव भ्रान्तिरिति हृदयम् । असङ्गतिरिति ।। लोकोऽयं कर्मणो बन्धन इति विग्रहे तत्पुरुषसमासपक्षे कर्मणो मोक्षप्रतिबन्धकत्वपक्षे उत्तरानभिधानाद्, अनुपयुक्ताभिधानाच्चासङ्गतिः स्यादित्यर्थः ।।
भावदीपिका
।। तत्पुरुषत्वेति ।। ‘कर्मणो बन्धनः’ इति षष्ठीतत्पुरुषत्वेत्यर्थः । बन्धनशब्दस्य नपंुसकत्वेन बहुव्रीहीतरसमासकरणे पुंलिङ्गायोगाद् भ्रान्तीत्युक्तम् ।।
भावप्रकाशः
कर्माकरणमेव मोक्षहेतुरित्याद्यपक्षे यो द्वितीयकल्पस्तेन गतार्थत्वनिरासायाह– मोक्षस्य प्रतिबन्धकमिति ।। असङ्गतीति ।। यज्ञार्थं कर्म कर्वित्यत्र यज्ञार्थान्यकर्मणो बन्धकत्वस्य हेतुत्वेन प्राप्तासङ्गतीत्यर्थः ।