शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ।। २५ ।।

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्  ।। २५ ।।

भाष्यम्

बुद्धेः कारणत्वं मनोनिग्रहे, आत्मरमणे च ।। २५ ।।

भावप्रदीपिका

बुद्ध्येन्द्रियग्रामनियमनं कुतो न ? इत्यत आह– बुद्धेरिति । अनेन ‘शनैः शनैरुपरमेत्’ इति व्याख्यातं भवति । ‘उपरमेत्’ विषयेभ्यः, परमात्मन उप समीपे रमेत् इति च ।। २५ ।।

भावप्रकाशिका

ननु बुद्धेरपीन्द्रियग्रामनियमनसम्भवात् कथं ‘मनसैव’ इत्यवधार्यत इत्यत आह– बुद्धेरिति ।। ‘आत्मसंस्थम्’ इत्यादिना मनोनिग्रह उच्यते । ‘शनैः’ इत्यादिनाऽऽत्मरमणं च । ‘उप’ समीप आत्मनो रमेतेति ।। २५ ।।

प्रमेयदीपिका

शनैः शनैरुपरमेद् बुद्ध्या इति बुद्धेरपीन्द्रियग्रामनियमने कारणत्वस्य वक्ष्यमाणत्वात् कथमेतदित्यत आह– बुद्धेरिति ।। अनेन उपरमेत् इत्यस्यार्थ-द्वयमुक्तं भवति ।। २५ ।।

भावदीपः

।। अर्थद्वयमिति ।। विषयेभ्यः व्यावर्तनरूप एकोऽर्थः भगवति रमणरूपोऽन्योऽर्थ इत्यर्थद्वयमित्यर्थः ।। २५ ।।

भावरत्नकोशः

।। अनेन बुद्धेः कारणत्वं मनोनिग्रहे आत्मरमणे चेति भाष्येण । अर्थद्वयमिति । ‘साधको विषयेभ्यो निवर्तेत’ इत्येकः, ‘उप समीपे आत्मनो रमेत’ इत्यन्य इत्यर्थद्वयमित्यर्थः । प्राचीनटीकायां तु ‘आत्मसंस्थं मनः’ इति मनोनिग्रह उच्यते । ‘शनैश्शनैः’ इत्यादिना उप समीपे आत्मनो रमेत इत्यात्मरमणं चेत्युक्तम् । अनेन ‘शनैः’ इत्यत्र बुद्धेर्मनो-निग्रहादिकारणत्वमेवोच्यते, नेन्द्रियग्रामनियमनकरणत्वम्, तत्तु मनस एवेति नोक्तनियमभङ्ग इति विभावितं भवति ।।

धृतिगृहीतया धैर्यवशीकृतया बुद्ध्या शनैः शनैरुपरमेत् उपरतो भवेत् विषयेभ्यो मनो निवर्तयेदिति यावत् । आत्मनः समीपे रमेतेति वा । एवं बुद्ध्या आत्मसंस्थं भगवद्विषयं मनः कृत्वा आत्मनोऽन्यत् किञ्चिदपि न चिन्तयेत् ।। २५ ।।

भावदीपिका

।। एतदिति ।। ‘मनसैव’ इति कथमुक्तमित्यर्थः । अर्थद्वयमिति ।। ‘मनसैवेन्द्रियग्रामं विनियम्य’ इत्युक्तेः तत्र मनोनिग्रह एव कथं स्यादिति शङ्कायामुच्यते– शनैरिति ।। धृतिगृहीतया बुद्ध्या शनैःशनैः उपरमेत् विषयेभ्यो मनस उपरमं कुर्यात्, तदनन्तरम् उप आत्मसमीपं रमेत् रतं कुर्यादित्यर्थद्वयमुक्तं भवतीत्यर्थः ।। २५ ।।