श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ।। ५३ ।।

श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ।। ५३ ।।

भाष्यम्

तदेव स्पष्टयति– श्रुतिविप्रतिपन्नेति ।। पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति । ततश्च समाधावचला, ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्न-त्वात् । तदा योगमवाप्स्यसि उपायसिद्धो भवसीत्यर्थः ।। ५३ ।।

भावप्रदीपिका

उत्तरश्लोकमवतार्य व्याचष्टे– तदेवेति ।।

भावप्रकाशिका

 नहि वेदविरुद्धबुद्धिर्मुक्तिसाधनम् । ‘वेद एव द्विजातीनां निःश्रेयसकरः परः’ इत्यादिविरोधात्, ‘रचनानुपत्तेः’ इत्यादिसमयान्तरनिरासवैय्यर्थ्याच्च । एतदेव मनसि निधायाह– पूर्वमित्यादि ।। ५३ ।।

प्रमेयदीपिका

ननूत्तरश्लोेकेऽपि योगानुष्ठानावधिरेवोच्यते । अतः पुनरुक्ति-दोषः इत्यत आह– तदेवेति ।। किं तन्मोहकलिलम्? कीदृशं च तदतितरणम्? इत्या-शङ्कायां पुंसामधममध्यमोत्तमावस्थादिप्रदर्शनेन पूर्वश्लोकोक्तमेव योगानुष्ठानावधिमनेन स्पष्टं करोतीत्यर्थः ।। नन्वत्र ‘श्रुतिविप्रतिपन्ना’ इति श्रवणादितो वैराग्यमुच्यते । यथाह भास्करः ‘वस्त्वन्तरश्रवणाद्विरक्तः’ इति । ततः पूर्वत्रापि वैराग्यमर्थस्स्यात् । ‘निश्चला’, ‘अचला’ इति पुनरुक्तिश्च । योगावाप्तेरुत्तरा चेयमवस्था । तत्कथमुच्यते ‘तदा योगमवाप्स्यसि इति’? इति शङ्कायां शोेकं व्याचष्टे– पूर्वमिति ।। पूर्वावस्थात उत्तरावस्थायाः सामर्थ्यलब्धं वैलक्षण्यं दर्शयितुमुक्तम्– वेदार्थेति ।। चलनप्रसक्तिं दर्शयति– विपरीतवाग्भिरिति ।। असच्छास्त्रै-रित्यर्थः । अनेन परोक्षज्ञानकाष्ठा दर्शिता । परोक्षतत्वनिश्चयानुवृत्तिव्युदासायोक्तम्– ब्रह्मेति ।। अत्रापि चलनप्रसक्तिमाह– भेरीति ।। तत्कथम्? इत्यत आह– परमेति ।। एतेनापरोक्षज्ञानकाष्ठा दर्शिता । उपायेन सिद्धः प्राप्तफलः । योगशब्देन तत्फलमुपलक्ष्यत इति भावः । श्लोकद्वयेऽप्येतदवस्थाप्राप्तिः योगानुष्ठानावधिरिति तात्पर्यम् ।। ५३ ।।

भावबोधः

परोक्षेति ।। योगावधिप्रतिपादकसमाधिशब्दार्थतयेत्यर्थः ।। ५३ ।।

भावदीपः

योगेति ।। ज्ञानोपायेत्यर्थः । पुनरुक्तिरिति ।। पूर्वश्लोकेनेति भावः ।। श्लोकद्वयेऽपीति ।। ‘यदा’ (२.५२) इति ‘श्रुति’(२.५३) इति श्लोकद्वयेऽपीत्यर्थः ।। एतदवस्थेति ।। दुःशास्त्रैरचाल्यमानपरोक्षतत्त्वनिश्चयवत्त्वावस्थाप्राप्तिः । भेरीताडनादिनाप्यचल- समाध्यवस्थाप्राप्तिः ज्ञानोपायरूपनिवृत्तकर्मलक्षणयोगानुष्ठानावधिरित्यर्थः ।। ५३ ।।

भावरत्नकोशः

यदा तदेति श्रवणादाह–  योगानुष्ठानावधिरेवेति ।। तदति-तरणं मोहकलिलातितरणम् ।। अधममध्यमोत्तमावस्थेति ।। बुद्धेः श्रुतिविप्रतिपन्नत्वावस्था–  अधमा । परोक्षतत्त्वनिश्चयरूपतावस्था–  मध्यमा । अपरोक्षज्ञानत्वावस्था–  उत्तमेत्यर्थः । आदिपदेन तत्कारणग्रहः । असम्प्रज्ञातसमाधित्वावस्थाग्रह इति केचित् ।। पूर्वश्लोकोक्तमेवेति ।। अनेन भाष्ये ‘तदेव’ पूर्वोक्तप्रमेयमेवेत्यभिप्रेत्य तद्विवृतं ‘योगानुष्ठानावधिम्’ इतीति ज्ञेयम् । स्पष्टयतीत्यत्र स्पष्टशब्दात् ‘तत्करोति’ इति णिजिति भावेनोक्तम्–  स्पष्टं करोतीति ।। ‘श्रवणादितः’ इति वदतास्मिन् मते श्रुतिशब्दः श्रवणाद्युपलक्षक इत्युक्तं भवति । पूर्वत्र ‘यदा ते मोह’ इति श्लोके । इयमवस्था अचलत्वावस्था । वेदाथ•नुकूलेन वेदार्थविमर्शजनितेनेति भाष्यार्थः । अनेन असच्छास्त्रश्रवणेऽप्यचलनकथनेन । परोक्षज्ञानकाष्ठा परोक्षज्ञानसीमा । तत् कथं भेरीताडनादावप्यचलनं कथम् ? एतेन भेरीताडनादावप्यचलत्वकथनेन । योगशब्द-स्योपायार्थत्वाद् भाष्ये ‘उपायसिद्धः’ इत्युक्तम् । तद्विग्रहं दर्शयन्नर्थमाह–  उपायेनेति ।। तर्हि ‘योगमवाप्स्यसि’ इति कथमित्यतो भाष्यतात्पर्यमाह–  योगेति ।। अनेन योगावाप्तेरुत्तरा चेयमवस्थेति कृतचोद्यं परिहृतं भवति । कियत्पर्यन्तं योगानुष्ठानमिति चोद्यस्य परिहारमाह–  श्लोकद्वयेऽपीति ।। एतदवस्था परमानन्दमग्नत्वानुकूलासम्प्रज्ञातसमाधित्वावस्था ।

गीताक्षरार्थस्तु– किं तन्मोहकलिलम् ? कीदृशञ्च तदतितरणम् ? इत्याकाङ्क्षायां पुंसा-मधममध्यमोत्तमावस्थादिप्रर्शनेन पूर्वश्लोकोक्तयोगानुष्ठानावधिरेव स्पष्टीक्रियते–  श्रुतिविप्रति-पन्नेति ।। परोक्षतत्त्वनिश्चयात् पूर्वं श्रुतिभिः वेदैः विप्रतिपन्ना विरुद्धा सती ते बुद्धिः यदा वेदार्थानुकूलेन तत्त्वनिश्चयेनासच्छास्त्रैरपि निश्चला ‘इदमदो वा’ इति संशयानास्कन्दिता स्थास्यति । अनेन परोक्षज्ञानकाष्ठा दर्शिता । ततश्च समाधिर्भवति । भवति च तस्मिन् ब्रह्मप्रत्यक्षदर्शनेन परमानन्दमग्नतया भेरीताडनादावप्यचला चलनहीना बुद्धिर्यदा स्थास्यति अनेनापरोक्षज्ञानकाष्ठा दर्शिता तदा योगं योगफलं ज्ञानोपायानुष्ठानस्य फलम्, अवाप्स्यसि प्राप्तवान् भविष्यति । एतेन बुद्धेः मनसः मोहकलिलं श्रुतिविरुद्धत्वरूपो दोषः । तत्तरणं च वेदार्थानुकूलेन परोक्षभगवत्तत्त्वनिश्चयेनाचलतयाऽवस्थानम् । तदा निर्वेदं गन्ताऽसीत्यस्य विवरणं ‘समाधावचला बुद्धिः’ इतीत्युक्तं भवति । श्लोकद्वयेऽप्येतदवस्थावाप्तिर्योगानु-ष्ठानावधिरिति तात्पर्यम् ।। ५३ ।।

भावदीपिका

।। अधममध्यमोत्तमावस्थादीति ।। बुद्धेः श्रुतिविप्रति-पन्नत्वावस्थाऽधमा । परोक्षतत्त्वनिश्चयावस्था मध्यमा । अपरोक्षज्ञानावस्थोत्तमेत्यर्थः । आदिपदेनासम्प्रज्ञातसमाध्यवस्थाग्रहणम् । कथमुच्यत इत्यत ‘श्रुतिर्वस्त्वन्तरश्रवणं, तस्माद् विप्रतिपन्ना विरक्ता’ इति भास्करेण व्याख्यातत्वादित्याह– यथाऽऽहेति ।। पूर्वत्रापीति ।। ‘तदा गन्ताऽसि निर्वेदम्’ इत्यत्रापीत्यर्थः । इयमवस्था ‘समाधावचला’ इत्युक्ताऽवस्था ।। सामर्थ्येति ।। पूर्वावस्थायां बुद्धेः श्रुतिविप्रतिपन्नत्वे उत्तरावस्थायां श्रुत्यानुकूल्यमर्था-ल्लब्धमित्यर्थः ।। काष्ठेति ।। विपरीतवाग्भिरपि निश्चलत्वावस्थाप्राप्तिः परोक्षज्ञानस्यावधिः फलमित्यर्थः । ‘समाधावचला’ इत्युक्ते तत्र कारणापेक्षायां भाष्ये ततश्चेत्युक्तम् । तेन च पूर्वं परोक्षतत्त्वनिश्चयस्य प्रकृतत्वात् तस्यैव कारणत्वेनानुवृत्तिः प्रतीयतेऽत आह– परोक्षेति ।। एवं च ततश्च परोक्षतत्त्वनिश्चयानन्तरं जातेन ब्रह्मप्रत्यक्षदर्शनेन बुद्धिः समाधावचला भवतीति भाष्यं योज्यम् ।। एतदिति ।। भेरीताडनादावप्यचलत्वमित्यर्थः ।। काष्ठेति ।। भेरीताडनादावपि निश्चलत्वरूपासम्प्रज्ञातसमाध्यवस्थाप्राप्तिरपरोक्षज्ञानस्यावधिः फलमित्यर्थः । नन्वत्र ‘योगमवाप्स्यसि’ इति योगावाप्तिरेवोच्यते । नतु योगफलावाप्तिः । तत् कथमिदं व्याख्यान-मित्यत आह– योगशब्देनेति ।। ननु योगस्य कीदृशाङ्गत्वमिति शङ्कितस्य श्लोकद्वयेन किमुत्तरं जातमित्यत आह– श्लोकद्वयेऽपीति ।। एतदवस्थेति ।। असम्प्रज्ञातसमाध्यवस्थेत्यर्थः । तथाचैतदवस्थाप्राप्तिपर्यन्तं योगस्य वारं वारमनुष्ठेयत्वादवहननादिवत् स्वरूपोपकारकाङ्गत्व-मित्युक्तं भवतीति भावः ।। ५३ ।।

भावप्रकाशः

 उत्तमावस्थादीति ।। आदिपदेनावस्थाकारणसङ्ग्रहः । अनेनेति ।। असच्छास्त्रश्रवणेऽपि निश्चलत्वकथनेनेत्यर्थः । एतेनेति ।। भेरीताडनेप्यचलत्व-कथनेनेत्यर्थः ।। ५३ ।।