इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ।। ७ ।।

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।

एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ।। ७ ।।

भाष्यम्

इच्छादयो विकाराः ।। ७ ।।

भावप्रदीपिका

महाभूतानि इत्यारभ्य धृत्यन्त्यान्युक्त्वा क्षेत्रं सविकार-मित्युच्यते । तत्र क्षेत्रे के विकाराः किं क्षेत्रम् इत्यत आह– इच्छादय इति । आद्यं क्षेत्रमित्यर्थः ।। ७ ।।

प्रमेयदीपिका

‘महाभूतानि’ इत्यनुक्रम्य ‘एतत् क्षेत्रं समासेन सविकारमुदाहृतम्’ इत्युक्तम् । तत्र न ज्ञायते किं क्षेत्रम्? के च तद्विकाराः? इत्यत आह– इच्छादय इति ।। पूर्वं क्षेत्रमिति भावः ।। ७ ।।

भावरत्नकोशः

‘किं क्षेत्रम्’ इत्यस्याप्युत्तरं भाष्यभावोक्त्याह– पूर्वमिति ।। ‘महाभूतान्यहङ्कारः इति पूर्वश्लोकोक्तमित्यर्थः ।। ७ ।।

 गीताक्षरार्थस्तु इच्छादयः सप्त विकाराः । संघातो देहः । चेतना चित्तव्याप्तिः । धृतिः धैर्यम् । उक्तमुपसंह्रियते– एतदिति ।। समासेन सङ्क्षेपेण उदाहृतं निरूपितम् ।।७।।

भावदीपिका

।। पूर्वमिति ।। ‘इच्छा’ इत्यतः पूर्वग्रन्थेन क्षेत्रनिरूपण-मित्यर्थः ।। ७ ।।

भावप्रकाशः

 ।। पूर्वं क्षेत्रमिति ।। ‘महाभूतानि’ इति श्लोकोक्तमित्यर्थः

।। ७ ।।