तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा ।। १३ ।।

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा ।। १३ ।।

भावरत्नकोशः

गीताश्लोकद्वयार्थस्तु ततः किमासीत् इत्यत उच्यते– तत्रेति ।। तस्मिन्् भगवता प्रदर्शिते देवदेवस्य शरीरे विश्वरूपे अनेकधा चेतनाचेतनभेदेन देवमानवादिभेदेन वा प्रविभक्तं कृत्स्नं जगद् एकस्थम् एकदेशस्थितमेव तदाऽपश्यत् ।। १३ ।।