नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।। १६ ।।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।। १६ ।।
भाष्यम्
‘नित्य आत्मा’ इत्युक्तम् । किमात्मैव नित्य आहोस्विदन्यदपि? अन्यदपि । तत्किमिति? आह– नासत इति ।। असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते ।। ‘प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम’ इति वचनात् श्रीविष्णुपुराणे । पृथक् ‘विद्यते’ इत्यादरार्थः ।।
भावप्रदीपिका
चोदयति नित्य इति ।। जीवस्यैव नित्यत्वे सृष्ट्यनुपपत्तेरन्यदपि नित्यमिति वाच्यम् । तत् किम्? इति प्रश्नार्थः । एतत्परिहारायोत्तरं श्लोकमवतार्य व्याचष्टे– असत इति ।। कारणं प्रधानम् । प्रकृतिपुरुषनित्यत्वे, ‘अपि’ शब्दसमुच्चितप्रमाणमाह– प्रकृतिरिति ।। द्विवारं ‘विद्यते’ इत्यस्य कृत्यमाह– पृथगिति ।। ‘शब्दः’ इति शेषः ।।
भावप्रकाशिका
चोदयति नित्य इत्यादिना ।। अयं भावः– किमात्मैव नित्यः? अन्यदपि वा? नाद्यः । कारणाभावेन जगदुत्पत्त्याद्यभावप्रसङ्गात् । न च जीवात्मैव कारणम्, परतन्त्रत्वात् । अतोऽन्यदपीति वक्तव्यम् । तत् किं चेतनम्? अचेतनं वा? साचेतनचेतनं वा? नाद्यः । तस्यापरिणामित्वात् । न मध्यमः । सुतरां परतन्त्रत्वात् । नान्त्यः । उपादानत्वेनाचेतना-काङ्क्षायां परतन्त्रत्वेन कुलालादिवदसर्वकर्तृत्वापत्तेरिति ।।
द्रव्यं कर्म च’ इत्यादिना प्रकृतिसत्ताप्रवृत्त्यादीनां भगवदधीनत्वावगमात् तामुपादाय कर्तृत्वेऽपि न भगवतः सर्वकर्तृत्वहानिरिति भावेनोत्तरश्लोकमवतार्य परिहरति– आहेति ।। तद्व्याचष्टे– असत इत्यादिना ।। कारणस्य इत्यपादानत्वविवक्षया । प्रकृतिपुरुषयोरभावो न विद्यत इति प्रतिज्ञातार्थम् ‘उभयोरपि’ इत्यनेन साधयता, भगवता ‘अपि’ शब्देन तत्प्रति-ज्ञातार्थस्य युक्त्यादिप्रसिद्धत्वं सूचितम् । तत्र तावत् जगदुत्पत्त्यन्यथानुपपत्तियुक्तिसिद्धत्वं किमात्मैव नित्यः इत्याद्याशङ्का भाष्येणैवार्थादुक्तम् । अधुनैतत्प्रतिज्ञातार्थमागमसिद्धोऽ-पीत्याह– प्रकृतिः पुरुषश्चैवेति ।। तथा ह्युत्तरार्धस्य योजनां सूचयति सम्प्रदायतश्चेत्युत्तर-
भाष्येण । न केवलं युक्त्यागमसिद्धोऽनयोरुभयोर्निर्णयः । किन्तु तत्त्वदर्शिभिरपि दृष्ट इति भावः ।।
प्रमेयदीपिका
‘नत्वेवाहम्’ (२.१२) इत्यत्र भगवान् कृष्णोऽपि यं प्रति पक्षे निक्षिप्तः स आक्षेप्तुं प्रसक्तिं दर्शयति– नित्य इति ।। ‘उक्तम्’ अनादित्वेन हेतुनानुमितम् । ततः किम्? इत्यत आह– किमिति ।। ‘अनादिश्च’ इत्यपि ग्राह्यम् । आद्ये दृष्टान्ताभावेन व्याप्तिग्रहासम्भवः। द्वितीयस्त्वप्रामाणिकत्वादशक्योपन्यास इति पूर्वपक्ष्यभिप्रायः ।।
विदिताभिप्रायः सिद्धान्ती किमृजावन्वये सम्भवति वक्रेण व्यतिरेकेण? इति मन्यमानो द्वितीयं पक्षमुपादत्ते– अन्यदपीति ।। उक्ताभिप्रायेण पृच्छति– तदिति ।। इति शङ्कायाम् इति शेषः । दुर्गमार्थत्वात् पूर्वार्धं व्याचष्टे– असत इति ।। कारणस्य प्रकृतेः ।। अभावः प्रागभावः प्रध्वंसश्च । कुत एतत्? इत्यतो भाष्यकारस्तावत् प्रमाणमाह– प्रकृतिरिति ।। पुरुषः परमात्मा ब्रह्मशब्दोक्तः । अनादित्वेऽप्येवमागमो ज्ञेयः ।।
ननु ‘असतः सतश्चाभावो न विद्यते’ इत्येकेनैव वाक्येन द्वयोरभावप्रतिषेधे कर्तुं शक्ये किमेवं पृथक् प्रतिषेधेन? इत्यत आह– पृथगिति ।। ‘विद्यते’ इति वाक्यद्वयग्रहणम् । ‘असतोऽभावो न विद्यते’, ‘सतश्चाभावो न विद्यते’ इति द्वयोः पृथगभावप्रतिषेध आदरार्थ इति योज्यम् । आदरश्चानुमानव्याप्तिसद्भावे । अत एवानेकदृष्टान्तप्रदर्शनम् ।।
भावबोधः
अप्रामाणिकत्वादिति ।। अन्यथोभयोरपि दृष्टोऽन्त इति प्रमाणोपन्यासासङ्गतेरिति भावः । नन्वात्मैव नित्य इत्याद्यपक्षाङ्गीकारेऽपि न दृष्टान्ताभावदोषः । जीवो नित्यः, अनादित्वात्, व्यतिरेकेण घटवदिति व्यतिरेकित्वोपपत्तेरित्याशङ्कापरिहारार्थमाह– किमिति ।। सिद्धान्ते व्यतिरेकव्याप्तेः साक्षादनुमानाङ्गत्वाभावात् वक्रेणेत्युक्तम् । व्यतिरेकेण किमिति सम्बन्धः ।। उक्ताभिप्रायेणेति ।। अप्रामाणिकत्वाभिप्रायेणेत्यर्थः । जीवव्यावृत्त्यर्थमाह– परमात्मेति ।। भाष्यपुराणयोरेकार्थत्वादाह– ब्रह्मशब्दोक्त इति ।।
भावदीपः
यं प्रतीति ।। ‘पक्षे निक्षिप्तः’ इति विभागेन योज्यम् । यस्य पुरुषस्य कृष्णेऽपि नित्यत्व-सन्देह इत्यर्थः ।। उत्तरार्धव्यावृत्त्योक्तिः– द्वितीयस्त्विति ।। ननु कृष्णादिसर्वचेतनं नित्य-मनादित्वात् इत्यत्रान्वयव्याप्तौ दृष्टान्ताभावेऽपि व्यतिरेकव्याप्तौ दृष्टान्तो घटादिरस्त्येवेति दृष्टान्तसिद्ध्यर्थं प्रकृत्यादेर्नित्यत्वोक्तिर्गीतायामयुक्तेति हृद्याशङ्क्य गीताभिप्रायमाह– सिद्धान्तीति ।। गीताकार इत्यर्थः ।। उक्तेति ।। अप्रामाणिकत्वाभिप्रायेणेत्यर्थः ।। ब्रह्मेति ।। भाष्यस्थब्रह्मशब्दोक्तमित्यर्थः ।। अनादित्वेऽपीति ।। ‘सदेव सौम्येदमग्रे’(छां.उ.६.२.१), ‘ब्रह्मा वा इदमग्र आसीत्’ (बृ.उ.३.५.४) इत्यादिरागम इत्यर्थः ।। एवं प्रकृतेरनादित्वेऽपि ‘अजामेकां लोहितशुक्लकृष्णाम्’ (तै.आ.१०.१०.१), ‘गौरनाद्यन्तवती, भूतभावना सितासिता च रक्ता च’ इत्यादिरागम इत्यर्थः ।। अनेकदृष्टान्तेति ।। गीतायां प्रकृत्याद्यनेकेत्यर्थः ।।
भावरत्नकोशः
यं प्रति पक्षे निक्षिप्त इति ।। ‘ये भगवतः कृष्णस्येश्वरत्वं नित्यत्वं च न जानन्ति तान् प्रति यथाश्रुतैव योजना’ इति पूर्वमेतद्व्याख्यानावसर एव टीकायामुक्तम् । यस्य तु पुरुषस्य कृष्णेऽपि नित्यत्वसन्देह इत्यर्थः । अनुमानदोषस्योच्यमानत्वात् पूर्वत्रानुमानस्यैव प्रस्तुतत्वात् ‘उक्तम्’ इत्येतदनूद्यार्थमाह– उक्तम् अनादित्वेनानुमितमिति ।। अहं त्वमेते जनाधिपाश्च नित्याः, चेतनत्वे भावत्वे वा सत्यनादित्वात् इत्यनुमानेनावगतमित्यर्थः । नित्यत्वं विनाशा-भावः । स च ध्वंसेऽस्ति । तथा च सपक्षे सति तत्रावर्तमानः पक्षमात्रवृत्तिश्चेतनत्वे सत्यनादित्वहेतुरिति न तेनानुमानं युक्तमिति तु प्रागेव परिहृतम् । ‘न त्वेवाहं जातु नाऽसम्’ इत्यनादित्वस्याप्यात्मनि तत्राभिप्रेतत्वादाह– अनादिश्चेत्यपीति ।। आद्ये आत्मैवानादिनित्यो नान्य इति पक्षे । द्वितीयः अन्यदप्यस्त्यनादिनित्यमिति पक्षः ।।
ननु प्रकृतानुमाने निश्चितसाध्यस्यान्वयव्याप्तिग्रहणस्थलस्याभावेऽपि साध्याभावरूपस्य साधनाभावेन सम्बन्धरूपव्यतिरेकव्याप्तौ घटादिरेव दृष्टान्त इति न व्याप्तिग्रहासम्भवः । एवं च दृष्टान्तसम्पत्तये प्रकृत्यादेर्नित्यत्वोक्तिर्गीतायामयुक्तेत्याशङ्क्य गीताभावमाह– सिद्धान्तीति ।। नात्र गीताचार्यस्य घटादौ गृहीता व्यतिरेकव्याप्तिरभिप्रेता । साक्षादनुमित्यनङ्गत्वेन तस्या वक्रत्वात् । किन्तु दृष्टान्तस्यान्यस्य भावेन साक्षादनुमित्यङ्गभूतान्वयव्याप्तिरेवेत्यभिप्रेत्याह– किमृजावित्यादि ।। उक्ताभिप्रायेण अप्रामाणिकत्वाभिप्रायेण ।।
‘इति’ इति भाष्यपदमनूद्य ततः पूरणीयमाह– शङ्कायामिति ।। असच्छब्दस्यात्यन्ता-भावप्रतियोगिपरत्वे शून्यस्य भावः सत्ता नास्तीति प्रकृतानुपयोगः । अभाव इति छेदे व्याघातः । सतो विद्यमानस्याभावो नास्तीति प्रमाणविरोधश्च । घटादेरभावोपलब्धेः । अतः सदसच्छब्दा-वन्यार्थौ व्याख्येयौ । तौ चार्थौ न सुगमाविति भावेन ‘दुर्गमार्थत्वात्’ इत्युक्तम् । कारणतया प्रसिद्धस्य दण्डादेरनादिनित्यत्वाभावाद् वक्ष्यमाणप्रमाणमनुरुध्य प्रकृतार्थमाह– प्रकृतेरिति ।। अभावशब्देनान्योन्याभावग्रहणे स प्रकृतेर्नास्तीति प्रमाणबाधितम् । पुरुषस्यैव तदन्योन्याभाव-प्रतियोगित्वात् । अत्यन्ताभावपरिग्रहे दृष्टान्ते साध्यसाधनोपदर्शनालाभ इत्यत आह– अभावः प्रागभावः प्रध्वंसश्चेति ।।
अनेन दृष्टान्ते साधनमनादित्वं साध्यं नित्यत्वं चोपदर्शितं भवति । ‘उभयोरपि दृष्टोऽन्तः’ इति गीताकारः प्रमाणं वक्ष्यतीति तावच्छब्दः । ‘सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः’ इति तृतीयभाष्ये ‘पुरिशयनात् पुरुषो जीवः’ इत्यष्टमे भाष्ये च वक्ष्यमाणत्वात् प्रसिद्ध्या नरार्थत्वाच्च जीवप्रतीतिव्युदासायाह– पुरुषः परमात्मेति ।। सच्छब्देन ब्रह्माभिहितं भाष्ये । पुराणे तु परमात्मा नित्य उच्यत इति शङ्कानिवर्तनायोक्तम्– ब्रह्मशब्दोक्त इति ।। तथा च भाष्यपुराणयोर्न विसंवाद इति भावः ।।
अनेन दृष्टान्ते साध्यानुगतिसिद्धावपि न साधनानुगतिसिद्धिरित्यत आह– अनादित्वेऽ-पीति ।। ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ इत्यादिरागमः प्रकृत्यादेरनादित्वे द्रष्टव्य इत्यर्थः । ‘आदरार्थः’ इति पुंलिङ्गं घटयन्नाह– अभावप्रतिषेध इति ।। प्रागभावप्रध्वंसप्रतिषेध इत्यर्थः । अनुमानेति ।। अनादित्वानुमानस्य नित्यत्वेन व्याप्तिरस्तीत्यत्र पृथक् प्रतिषेधस्तात्पर्यं ज्ञापयतीत्यर्थः । अत्रोपष्टम्भकमाह– अत एवेति ।। प्रकृतिब्रह्मरूपानेकेत्यर्थः ।
भावदीपिका
।। पक्षे निक्षिप्त इति ।। तस्य भगवदनादिनित्यताया असम्मतेरिति भावः । एतदकथने दृष्टान्तसम्भवेन वक्ष्यमाणाक्षेपायोगादिति ज्ञेयम् ।। आक्षेप्तुमिति ।। किमात्मैवेत्यत्र दृष्टान्ता-भावेन व्याप्तिग्रहासम्भवेनानुमानाप्रवृत्तिरित्याक्षेप्तुमित्यर्थः । ननु पूर्वमात्मनो नित्यत्वं ‘न त्वेवाहम्’ इत्यनादित्वहेतुनाऽनुमितमेव । नाऽगमेन साधितमत उक्तमित्यनुवादः कथमित्यत आह– उक्तमिति ।। परार्थानुमानस्य वचनात्मकत्वादुक्तमित्युक्तमिति भावः । अनुवादे न्यूनतां परिहरति अनादिश्चेत्यपीति ।। आद्य इति ।। जीवो नित्योऽनादित्वादित्यनुमान इति शेषः । विदिताभिप्रायः एवं विदितपूर्वपक्षाभिप्रायः । ननु द्वितीयपक्षोपादानं किमर्थम्? आद्य-पक्षमङ्गीकृत्य तत्र च घटादेर्व्यतिरेकदृष्टान्तस्य सम्भवेन व्याप्तिग्रहसम्भवादत उक्तम् ऋजा-विति ।। ऋजुमार्गेण सिद्ध्यतोऽर्थस्य वक्रेण च साधनायोगादिति भावः ।। उक्ताभिप्राये-णेति ।। अप्रामाणिकत्वादात्मव्यतिरिक्तम् अनादिनित्यमशक्योपन्यासमित्युक्ताभिप्रायेणेत्यर्थः ।।
दुर्गमार्थत्वादिति ।। यथा असतः शशविषाणादेरभावस्य सतो घटादेश्चाभावस्य सत्त्वेन निषेधायोगेन वाक्यार्थस्य दुर्गमत्वादित्यर्थः । कारणस्य ब्रह्मणो वाऽन्योन्याभावस्य सत्त्वेन निषेधायोगाद् व्याचष्टे– अभाव इति ।। असत सतश्चाभाव प्रागभावो न विद्यत इत्यनेनाऽ-नादित्वमुक्तम् । असतः सतश्चाभावः प्रध्वंसो न विद्यत इत्यनेन नित्यत्वमुक्तमिति ज्ञेयम् । ‘उभयोरपि दृष्टोऽन्त’ इति गीतायां भगवता प्रमाणस्योच्यमानत्वाद् भाष्यकारस्तावदित्युक्तम् । ननु कारणस्य प्रकृत्यादेरभावो नास्ति इत्यत्रेदं प्रमाणं भवतु । ब्रह्मणोऽभावो नास्तीत्यत्र तदप्रमाणम् । अत्र पुरुषशब्दस्यानेकार्थत्वादित्यत आह– पुरुष इति ।। ब्रह्मणश्चेत्यस्माभि-र्ब्रह्मशब्दोक्त एव परमात्मा प्रमाणे पुरुषशब्देनोक्त इत्यर्थः । न्यूनतापरिहारायाऽह– अनादि-त्वेऽपीति ।। प्रकृतिपुरुषयोरनादित्वेऽपि ‘गौरनाद्यन्तवती’, ‘अनादिः परमेश्वर’ इत्यागमो द्रष्टव्यः । ननु पृथग् विद्यत इति कथं प्रतीकग्रहणम्? गीतायामेतत्पदाभावादित्यत आह– विद्यत इति ।। ‘नासतो विद्यतेऽभाव’ इत्येकं वाक्यं, ‘नाभावो विद्यतेऽसत’ इत्यपरमिति वाक्यद्वयम्, पृथगित्यनूद्याभावप्रतिषेधेनेति व्याख्यानम् ।। अत एवेति ।। अनुमानमूलभूत-व्याप्तावादरस्य सूचनीयत्वादेवेत्यर्थः ।। अनेकेति ।। प्रकृतिपुरुषरूपानेकेत्यर्थः । अत्र पुरुषशब्दो मूलरूपपरः ।।
भावप्रकाशः
अनुमानद्वस्योत्तरत्र वक्ष्यमाणत्वात् पूर्वत्र चानुमानस्यैव प्रकृतत्वात् तदनुसारेणाह– अनुमितमिति ।। वक्रेण व्यतिरकेणेति ।। घटादौ गृहीतया व्यतिरेकव्याप्त्येत्यर्थः । सिद्धान्ते व्यतिरेकव्याप्तेः साक्षादनुमित्यनङ्गत्वाद् वक्रेणेत्युक्तम् । उक्ताभिप्रेयेणेति ।। अप्रामाणि-कत्वाभिप्रायेणेत्यर्थः । दण्डादिकारणस्यानादिनित्यत्वाभावादाह– प्रकृतेरिति ।। अभावशब्दे-नान्योन्याभावादिग्रहे दृष्टान्ते साध्यसाधनप्रदर्शनालाभ इत्यत आह– अभाव इति ।। जीवव्यावर्त्यमाह– परमात्मेति ।। भाष्यपुराणयोरेकार्थत्वायाह– ब्रह्मशब्दोक्त इति ।। पुराणे पूर्वब्रह्मशब्देन परमात्मनः प्रकृतत्वात् पुरुषशब्देन तद्ग्रहणं युक्तमिति भावेनोक्तं ब्रह्मशब्दोक्त इतीत्यप्याहुः । दृष्टान्ते साधनवैकल्यपरिहारायाह– अनादित्वेपीति ।। अजामेकाम् अजायमानो बहुधेत्यादिरर्थः ।।