प्रथमाध्याये गीताक्षरार्थ:

श्रीमद्भगवद्गीतायां प्रथमोऽध्यायः

धृतराष्ट्र उवाच–

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।। १ ।।

भावरत्नकोशः

अक्षरार्थस्तु– धृतराष्ट्रः स्वपुत्राणां विजयविविदिषया सञ्जयमपृच्छदित्युच्यते– धृतराष्ट्र उवाचेति ।। किमिति? उच्यते– धर्मक्षेत्र इति ।। धर्मस्य स्थानभूते यस्यकस्याप्यनुष्ठितस्य धर्मस्य बहुश्रेयःसम्पादके कुरुक्षेत्रे धार्तराष्ट्राणां पाण्डवानां च स्वकूटस्थनामोपलक्षितत्वेन बहुमानविषये युयुत्सवो योद्धुमिच्छवः समवेताः मिथः प्रत्यनीकभावेन व्यूढाः । समस्तभूमण्डल-वर्तिनां राज्ञां तत्र समवायेऽपि वर्गद्वयमेव तदाऽभूदित्येवकारः । अकुर्वतेत्यात्मनेपदेन कर्त्रभि-प्रायक्रियाफलविषयेण स्वार्थता विभाव्यते ।। १ ।।

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।। २ ।।

भावरत्नकोशः

अक्षरार्थस्तु– एतत्प्रश्नोत्तरं वक्ष्यताऽऽदौ समस्तवृत्तान्त उच्यत उपोद्घातत्वेन– सञ्जय उवाच इति ।। दुर्योधनो राजा पाण्डवानीकं व्यूढं दृष्ट्वा । दर्शननिमित्तधैर्यभ्रंशरूपावस्था-विशेषद्योतकः तुशब्दः । आचार्यं– द्रोणम् उपसङ्गम्य– सविनयमुपसाद्य ।। २ ।।

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।। ३ ।।

भावरत्नकोशः

अक्षरार्थस्तु– तदेव वचनं पश्यैताम् इत्यादि नवश्लोक्यात्मकम् । आचार्येति सम्बुद्धिः । महतीं वितताम् । द्रुपदपुत्रेण धृष्टद्युम्नेन । व्यूढां व्यूहरचनयाऽधिष्ठिताम्, चमूं सेनाम् ।। ३ ।।

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।

युयुधानो विराटश्च द्रुपदश्च महारथः।। ४ ।।

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।

पुरुजित् कुन्तभोजश्च शैब्यश्च नरपुङ्गवः।। ५ ।।

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।। ६ ।।

भावरत्नकोशः

अक्षरार्थस्तु – अत्र एतस्यां परसेनायाम् । स्वयमभीरवः शूराः । महेष्वासाः महाधनुषः । युधि युद्धे । भीमार्जुनसमाः तत्समानपराक्रमा इति स्तुतावधिकोक्तिः । के ते? युयुधानः सात्यकिः । महारथः एको दशसहस्राणां योधयेद् यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते इत्युक्तलक्षण इति विशेषणम् । विक्रान्तः गत्यर्थाकर्मक इत्यादिना कर्तरि क्तः । पराक्रमयुक्तः । उत्तमौजाः तन्नामा द्रुपदपुत्रो राजा । सौभद्रः अभिमन्युः । द्रौपदेया द्रौपदीपुत्राः प्रतिविन्ध्यश्रुतसोमश्रुतकर्तिशतानीक- श्रुतकर्मनामानः पञ्च ।। ४–६ ।।

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ।। ७ ।।

भावरत्नकोशः

अक्षरार्थस्तु अस्माकं तु सम्बन्धनो ये विशिष्टाः बलवन्तो मम सैन्यस्य नायकाः तान् निबोध निश्चयेन बुध्यस्व । सञ्ज्ञार्थं सम्यग्ज्ञानार्थम्, तान् नायकान्, ब्रवीमि ।। ७ ।।

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।। ८ ।।

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।। ९ ।।

भावरत्नकोशः

अक्षरार्थस्तु त उच्यन्ते भवान् इत्यादि द्वाभ्याम् । समितिं सङ्ग्रामं जयतीति तथोक्तः । सर्वविशेषणं चैतत् । सौमदत्तिः भूरिश्रवाः । मदर्थे मन्निमित्तम् । त्यक्तजीविताः जीवनमपि त्यक्तुमध्यवसिताः । एष्यतोऽपि जीवितत्यागस्य निश्चितत्वाशयादियमुक्तिः । नानाविधानि शस्त्राणि प्रहरणान्यायुधानि च येषां ते तथोक्ताः । युद्धविशारदाः युद्धे निपुणाः ।। ८-९ ।।

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।। १० ।।

भावरत्नकोशः

अक्षरार्थस्तु तथाऽपि भीष्माभिरक्षितमस्माकं बलम् अपर्याप्तं परविजये न समर्थम् । इदमेतेषां पाण्डवानां बलं भीमाभिरक्षितमिति पर्याप्तम् अस्मद्विजयसमर्थम् ।। १० ।।

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ।। ११ ।।

अक्षरार्थस्तु एवं प्राबल्येऽपि सन्धिमरोचयमानेन स्वबलविजये प्रयतमानेन च द्रोणादीनां तद्रक्षणेन तदानुगुण्यभजनं प्रार्थ्यते– अयनेषु चेति ।। सर्व एव भवन्तः सर्वेष्वयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तं स्वंस्वं युद्धप्रदेशमनतिक्रम्यावस्थिताः सन्तो भीष्ममेवाभिरक्षन्त्वित्युक्त्वा राजा विषसाद ।। ११ ।।

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।। १२ ।।

भावरत्नकोशः

अक्षरार्थस्तु एवं विषीदद्राजवाक्यं श्रुत्वा भीष्मः किं कृतवानित्यत उक्तम् – तस्येति ।। पितामहो भीष्मः हर्षं सञ्जनयन् जनयितुम्, उच्चैः महान्तम्, सिंहनादं विनद्येत्येतत् ओदनपाकं पचति इतिवद् व्याख्येयम् । दध्मौ शब्दितवान् ।। १२ ।।

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।। १३ ।।

भावरत्नकोशः

अक्षरार्थस्तु एवं भीष्मोन्नाहमाकलय्य सर्वयोद्धृषु युद्धोत्सवः प्रवृद्ध इत्युच्यते तत इति ।। सहसा तत्क्षणमेव । अभ्यहन्यन्त– अताड्यन्त । तुमुलः रणसङ्कुलः । महान् सर्वत्र परिपूर्ण इत्यर्थः ।। १३ ।।

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।। १४ ।।

भावरत्नकोशः

अक्षरार्थस्तु ततः अनन्तरम् । महति अप्रधृष्ये । स्यन्दने रथे । स्थितावेवेत्यकम्पन-द्योतनायैवशब्दः । दिव्यौ अलौकिकौ । प्रदध्मतुः नादितवन्तौ ।। १४ ।।

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।। १५ ।।

भावरत्नकोशः

अक्षरार्थस्तु हृषीकेशः हृषीकेशशब्दार्थो भाष्य एकादशाध्याये इन्द्रियाणाम् इत्यादिना वक्ष्यते । पाञ्चजन्यं तन्नामानम् । देवदत्तं तन्नामानं शङ्खम् । भीमानि भयङ्कराणि कर्माणि यस्य स तथा । वृकोदरो भीमः ।। १५ ।।

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।। १६ ।।

भावरत्नकोशः

अक्षरार्थस्तु अनन्तविजयं तन्नामानम् । सुघोषमणिपुष्पकौ सुघोषनामानं मणिपुष्पनामानं च शङ्खं दध्मौ ।। १६ ।।

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।। १७ ।।

भावरत्नकोशः

अक्षरार्थस्तु परम इष्वासो धनुर्यस्य स तथा । महारथशब्दार्थ उक्तः । शिखण्डी च

।। १७ ।।

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खं दध्मुः पृथक् पृथक्।। १८ ।।

भावरत्नकोशः

अक्षरार्थस्तु सर्वशः सर्वत्र । पृथिवीपत इति धृतराष्ट्रसम्बुद्धिः ।। १८ ।।

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।। १९ ।।

भावरत्नकोशः

अक्षरार्थस्तु सः सर्वत्र प्रसृतः । व्यनुनादयन् प्रतिध्वनिभिरापूरयन् ।। १९ ।।

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः।। २० ।।

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।। २१ ।।

यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान् ।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे।। २२ ।।

योत्स्यमानावेक्षेऽहं य एतेऽत्र समागताः ।

धार्तराष्ट्रस्य दुर्बुद्धेर्यद्धे प्रियचिकार्षवः।। २३ ।।

भावरत्नकोशः

अक्षरार्थस्तु एवं समरसन्नाहसमये श्रीकृष्णमर्जुनो विज्ञापयामासेति वक्तुमुच्यते अथ इत्यादि चतुःश्लोक्या । व्यवस्थितान् युद्धाय कृतनिश्चयान् । कपिः ध्वजे यस्य स तथा, अर्जुनः । प्रवृत्ते प्रवर्तयितव्ये । प्रियचिकार्षव इत्यत्र अन्नबुभुक्षुः इति भाष्यप्रयोग इव गम्यादिभावेन समासः

।। २०–२३ ।।

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।। २४ ।।

भावरत्नकोशः

अक्षरार्थस्तु गुडाकेशेन अर्जुनेन । जितनिद्रेणेत्यवयवार्थ इत्याहुः ।।

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति।। २५ ।।

भावरत्नकोशः

अक्षरार्थस्तु महीक्षितां राज्ञाम् । प्रमुखतः सम्मुखे ।

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा।। २६ ।।

भावरत्नकोशः

अक्षरार्थस्तु सखीन् मित्राणि ।।

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।। २७ ।।

भावरत्नकोशः

अक्षरार्थस्तु सुहृदः अनिमित्तोपकारिणः । अवस्थितान् प्रतिस्थितान् ।। २७ ।।

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ।

भावरत्नकोशः

अक्षरार्थस्तु विषीदन् विषादं मोहनिमित्तकाच्छोकान्मनोदौर्बल्यं यस्मिन् सति सर्वव्यापारोपरमो भवति तं कुर्वन् । तदेव वचनमुच्यते अर्जुन उवाच इत्यादिना तन्मे क्षेमतरं भवेत् इत्यन्तेन ।।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।। २८ ।।

भावरत्नकोशः

अक्षरार्थस्तु नियमनादिना सकललोककर्षणात् कृष्ण इति कृष्णशब्दार्थं भाष्ये वक्ष्यति । हे सर्वलोककर्षक भगवन् । युयुत्सुं योद्धुमिच्छुम् । दृष्ट्वा स्थितस्येति शेषः । तेन क्त्वा-प्रत्ययोपपत्तिः ।।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते।। २९ ।।

भावरत्नकोशः

अक्षरार्थस्तु गात्राणि शरीरवाचकस्यापि गात्रशब्दस्य तदेकदेशकरचरणाद्यर्थत्वम् । सीदन्ते व्यथन्ते । वेपथुः कम्पः ।।

गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।। ३० ।।

भावरत्नकोशः

अक्षरार्थस्तु स्रंसते– गलति । परिदह्यते– सर्वतः सन्तप्यते । अपि च । अवस्थातुमपि न शक्नोमि । भ्रमतीव– नावतिष्ठत्येव ।

निमित्तानि च पश्यामि विपरीतानि केशव ।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।। ३१ ।।

भावरत्नकोशः

अक्षरार्थस्तु विपरीतानि अनिष्टसूचकानि । केशव, कं ब्रह्माणम् ईशं रुद्रं सृष्ट्यादिना वर्तयतीति केशवः । तत्सम्बुद्धिः । ब्रह्मरुद्रनियामक । किञ्च । आहवे युद्धे । स्वजनं हत्वा श्रेयो नानुपश्यामि ।। २८–३१ ।।

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।। ३२ ।।

भावरत्नकोशः

अक्षरार्थस्तु विजयादिफलमेव श्रेयोऽस्तीत्यत उच्यते– न काङ्क्षे विजयमिति ।। तदेवोच्यते– किं नो राज्येन इति सार्धद्वाभ्याम् ।। गोविन्द वेदप्रतिपाद्य ।।

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।। ३३ ।।

भावरत्नकोशः

अक्षरार्थस्तु त इमे बान्धवाः । त्यागस्य प्रत्यासन्नत्वात् प्राणांस्त्यक्त्वेत्युक्तम् ।

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।। ३४ ।।

भावरत्नकोशः

अक्षरार्थस्तु श्यालाः भार्यासहोदराः ।

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।। ३५ ।।

भावरत्नकोशः

अक्षरार्थस्तु घ्नतोऽपि हन्तॄनपि । त्रैलोक्यराज्यस्यापि कृते इति बुद्ध्या विविक्तस्य सम्बन्धः । त्रैलोक्यराज्यस्य हेतोरपि त्रैलोक्यराज्यार्थमपीति वा । महीकृते कृते इत्यव्ययं तादर्थ्ये । महीमात्रार्थम् ।। ३२–३५ ।।

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः।। ३६ ।।

भावरत्नकोशः

अक्षरार्थस्तु शत्रूणां निग्रहे प्रीतिर्भवतीत्यत उच्यते– निहत्येति ।। निहत्य स्थितानाम् । जनार्दन– न जायत इति जनः, अर्दयति संसारमित्यर्दनः, जनश्चासावर्दनश्च जनार्दनः, तत्सम्बुद्धिः । किञ्च धार्तराष्ट्रान् निहत्य स्थितानामस्माकं का प्रीतिः किं सुखं स्यात्? प्रत्युत पारत्रिकसुखविरोधिपापमेवास्मानाश्रयेत् ।। ३६ ।।

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।। ३७ ।।

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।। ३८ ।।

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।। ३९ ।।

भावरत्नकोशः

अक्षरार्थस्तु यथा धार्तराष्ट्राः स्वजनवधे प्रवर्तन्ते तथा भवानपि प्रवर्तताम् । किमनेन विषादेनेत्यत उच्यते– यद्यपीति ।। एते दुर्योधनादयः । कुलक्षयकृतं दोषं मित्रदोहे च पातकं राज्यलोभोपहतचेतस्त्वाद् यद्यपि न पश्यन्ति । तथाऽप्यस्माभिः कुलक्षये मित्रद्रोहे च पातकं प्रपश्यद्भिः धर्मशास्त्रेण पापं निश्चितवद्भिः, अस्माद् उक्तलक्षणात् पापात्, निवर्तितुं कथं न ज्ञेयम्? तन्निवृत्तावेव बुद्धिः कार्येत्यर्थः ।। ३८–३९ ।।

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।। ४० ।।

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।। ४१ ।।

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।। ४२ ।।

भावरत्नकोशः

अक्षरार्थस्तु स एव दोष उच्यते– कुलक्षय इति ।। सनातनाः– परम्परागताः । उत– प्रत्युत । अभिभवति– व्याप्नोति । ततश्च अधर्मातिशयवशात् कृष्ण । प्रदुष्यन्ति दूषिता भवन्ति कुलस्त्रियः ।। ४०–४२ ।।

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।। ४३ ।।

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।

नरके नियतं वासो भवतीत्यनुशुश्रुम।। ४४ ।।

भावरत्नकोशः

अक्षरार्थस्तु उक्त एव दोष उपसंह्रियते दोषैरेतैः इत्यादिद्वाभ्याम् ।। वर्णसङ्करस्य कारकैरिति शेषषष्ठ्या समासः । उत्साद्यन्ते लुप्यन्ते । चकारादाश्रमधर्माश्च ग्राह्याः । अनुशुश्रुम श्रुतवन्तः ।। ४३–४४ ।।

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।

यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।। ४५ ।।

भावरत्नकोशः

अक्षरार्थस्तु एवं बन्धुवधाध्यवसायेन सन्तप्यमानेनोच्यते– अहो इति ।। स्वजनं हन्तुमुद्यता इति यत् एतन्महत् पापं कर्तुं व्यवसिताः । कर्तरि क्तः । अध्यवसायं कृतवन्तो वयम् । अहो बत अतिकष्टमित्यर्थः ।। ४५ ।।

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।। ४६ ।।

भावरत्नकोशः

अक्षरार्थस्तु एवं युद्धादुपरमे त्वामेव ते किमिति न हन्युरित्यत इदमुच्यते– यदीति ।। अप्रतीकारम् अकृतप्रतीपम् । अशस्त्रं न्यस्तशस्त्रम् । तूष्णीं स्थतं मां यदि धार्तराष्ट्रा हन्युः तर्हि तद् हननम्, मे मम, क्षेमतरम् अत्यन्तं हितं भवेत् । स्वयं पापानिष्पत्तेरिति भावः ।। ४६ ।।

सञ्जय उवाच

एवमुक्त्वाऽर्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।

विसृज्य सशरं चापं शोकसंविग्नमानसः।। ४७ ।।

भावरत्नकोशः

अक्षरार्थस्तु ततः किं जातमित्यत्र सञ्जयवचनं सञ्जय उवाचेति ।। सङ्ख्ये युद्धे । सशरं चापं सज्यबाणं गाण्डीवम्, विसृज्य, शोकेन संविग्नं कम्पतं मानसं यस्य स तथा, रथोपस्थे रथमध्ये, उपाविशदिति ।। ४७ ।।

।। इति गीताक्षरार्थे प्रथमोऽध्यायः ।।