न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ।। ४ ।।
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ।। ४ ।।
भाष्यम्
इतश्च नियोक्ष्यामीत्याह– न कर्मणामिति ।। कर्मणां युद्धादीना-मनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः ।।
भावप्रदीपिका
उत्तरश्लोकमवतारयति– इतश्चेति ।। किं युद्धादेर्ज्ञान-साधनत्वाभावे तत्राप्रवृत्तिः ? किं वा ज्ञानं न मोक्षसाधनम्, किन्तु कर्माकरणमेव, मोक्षस्य नैष्कर्म्यरूपत्वात् ? नाद्यः । युद्धादेरधिकारिभेदेन ज्ञानसाधनत्वस्योक्तत्वात् । द्वितीयं दूषयति– कर्मणामिति ।।
भावप्रकाशिका
कर्माकरणमात्रेण मुक्त्यनुपपत्तेरपि त्वया स्ववर्णाश्रमोचितं नित्यकर्मानुष्ठेयमिति भावेनोत्तरमर्धमवतारयति– इतश्चेति ।।
प्रमेयदीपिका
‘न कर्मणाम्’ इति मोक्षस्य कर्मसाध्यत्वमुच्यते’ इत्यन्यथा-प्रतीतिनिरासायाऽह– इतश्चेति ।। ‘स्ववर्णाश्रमोचिते युद्धादौ’ इति शेषः । प्राक् ‘आधिकारिकत्वात् त्वया कर्म कर्तव्यम्’ इत्युक्तम् । इदानीं कोऽपरो हेतुरुच्यते? इत्यतो व्याचष्टे– कर्मणामिति ।।
अयमभिप्रायः । कर्माणि न कार्याणीति वदन् प्रष्टव्यः । किं ज्ञानं न मोक्षसाधनम्? अपि तु कर्माकरणमेवेति मत्वा कर्माणि त्यज्यन्ते? उत ज्ञानं मोक्षसाधनं भवत्येव? किन्तु ‘कर्मणा बद्ध्यते जन्तुः’ इत्यादेः कर्माणि तत्प्रतिबन्धकानीति मत्वा ? आद्येऽपि किं मोक्षस्य नैष्कर्म्यशब्दवाच्यत्वमात्रमाश्रित्येदमुच्यते? अथवा क्रियाकारकफलरूपस्य संसारस्य कर्मैव बीजम्, अकरणे च बीजाभावात् संसारो न भविष्यतीति युक्तिमाश्रित्य? आद्यस्य इदं दूषणम्– न कर्मणामिति ।। नैष्कर्म्यशब्दस्यान्यथापि व्याख्यानान्नाद्य इत्यर्थः । ततः किम्? इत्यत आह– ज्ञानमेवेति ।।
भावबोधः
।। नैष्कर्म्यशब्दवाच्यत्वमात्रमिति ।। निष्कर्म कर्माभावः । जन्यतया तत्सम्बन्धि नैष्कर्म्यमिति योगेन नैष्कर्म्यशब्दवाच्यत्वान्यथानुपपत्तिरूपप्रमाण-माश्रित्येत्यर्थः ।।
भावरत्नकोशः
किञ्च त्वदभिप्रेतं कर्माकरणं न श्रेयःप्राप्तिहेतुः, विकल्पा-सहत्वादिति युक्त्यन्तरेणापि कर्म कार्यमिति वक्तुं ‘न कर्मणाम्’ इति श्लोक इति भावेन भाष्ये ‘इतश्च’ इत्युक्तम् । तत्र विकल्पासहत्वं स्फुटीकर्तुमाह– अयमभिप्राय इति ।। ‘नैष्कर्म्य-शब्दवाच्यत्वमात्रम्’ इत्यत्र निष्क्रान्तः कर्मभ्यो निष्कर्मा । कर्मपरित्यागीति यावत् । तस्य भावो नैष्कर्म्यम् । ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति भावे ष्यञ् । ‘ये चाभावकर्मणोः’ इति टिलोपः । अनेन च नैष्कर्म्यशब्देन कर्मत्यागप्राप्यो मोक्षो लक्ष्यते । तस्य निष्कर्मता-प्राप्यत्वाद् विवक्षितार्थसिद्धिरिति भावः । ‘बीजाभावात्’ इति वक्ष्यमाणयुक्तिव्यावृत्तये मात्रपदम् । क्रियेति ।। क्रियाः गत्यादयः । कारकाणि इन्द्रियाणि । फलं सुखादीत्यर्थः ।। अन्यथाऽपि व्याख्यानादिति ।। नैष्कर्म्यशब्दान्तर्गतकर्मशब्दस्य काम्यकर्मपरत्वेन व्याख्यान-सम्भवेनान्यथोपपत्तेर्मोक्षस्य नैष्कर्म्यशब्दवाच्यत्वान्यथाऽनुपपत्त्या न कर्मत्यागः शक्यः शङ्कितु-मिति भावः । ततः कर्माकरणस्य मोक्षसाधनत्वनिराकरणात् ।।
भावदीपिका
।। कर्मसाध्यत्वमिति ।। ‘न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते’ इत्युक्त्या कर्मणामारम्भादेव नैष्कर्म्याख्यमोक्षप्राप्तिरिति कर्मसाध्यत्वमुच्यत इत्यर्थः ।। प्रागिति ।। युद्धादीनि कर्माणि न करिष्यामीत्याशयेन कृतस्य ‘तत् किं कर्मणि’ (३-१) इत्यर्जुनप्रश्नस्येति शेषः । इत्युक्तम् इत्युत्तरमुक्तम् । व्याचष्ट इति ।। अकरणे प्रत्यवायः स्यादित्यभिप्रेत्येत्यर्थः । कर्माणि युद्धादिकर्माणि न कार्याणीति वदन् । तत्प्रतिबन्ध-कानि मोक्षप्रतिबन्धकानि इति मत्वा कर्माणि त्यज्यन्त इत्यन्वयः । नैष्कर्म्यशब्दवाच्यत्व-मात्रमिति ।। ‘कर्माभावः निष्कर्म । जन्यतया तत्सम्बन्धि नैष्कर्म्यम्’ इत्येवं मोक्षस्य नैष्कर्म्य-शब्दवाच्यत्वान्यथाऽनुपपत्तिरूपप्रमाणमाश्रित्य कर्माकरणमेव मोक्षसाधनमित्युच्यत इत्यर्थः । ‘बीजाभावात्’ इति वक्ष्यमाणयुक्तिव्यावृत्त्यर्थं ‘मात्रम्’ इत्युक्तम् । क्रिया यागादिरूपा । कारकम् आत्मादि । फलम् स्वर्गादि । अकरणे कर्माकरणे । बीजाभावात् संसारबीजस्य कर्मणोऽभावात् । इति युक्तिमिति ।। मोक्षः कर्माकरणसाध्यः कर्मजन्यसंसाराभावरूपत्वात् । यद् यज्जन्याभावरूपं तत् तदभावसाध्यम् । यथा दुःखाभावः सुखमिति मते सुखं पापजन्य-दुःखाभावरूपमिति पापाभावसाध्यमित्यनुमानमिह द्रष्टव्यमित्याहुः । अन्यथाऽपीति ।। काम्यकर्मपरित्यागेन प्राप्यत इति नैष्कर्म्यशब्दवाच्यत्वस्यान्यथाऽनुपपत्त्याऽर्थापत्तिरुक्तेत्याशयः । भाष्ये ‘काम्यकर्मपरित्यागेन प्राप्यते इति निष्कर्मतां मोक्षम्’ इत्यन्वयो द्रष्टव्यः ।
भावप्रकाशः
नन्वेवमपि ‘कर्म कर्तव्यम्’ इत्यत्र हेत्वलाभ इत्यत आह– अयमभिप्राय इति ।। कर्माकरणे साधकाभाव एव कर्मकर्तव्यत्वे हेतुः, स च ‘न कर्मणाम्’ इत्यारभ्य ‘सह यज्ञाः’ इत्यतः प्राक्तनेनोच्यत इति भावः । नैष्कर्म्यशब्देति ।। कर्माभावो निष्कर्मम् ‘अर्थाभावे यदव्ययम्’ इत्यव्ययीभावः । ‘नपुंसकादन्यतरस्याम्’ इति टच् । तज्जन्यं नैष्कर्म्यम् । ‘विचित्रा तद्धितगतिः’ इति वचनाज्जन्यत्वार्थे ष्यञ् । ततश्च नैष्कर्म्यशब्दा-दुक्तार्थलाभ इति भावः । बीजाभावादिति वक्ष्यमाणयुक्तिव्यावृत्यर्थं मात्रपदम् ।। अन्यथापि-व्याख्यानादिति ।। नैष्कर्म्यशब्दान्तर्गतकर्मपदस्य काम्यकर्मपरत्वे उक्तव्युत्पत्तिबलादेवान्यथा-व्याख्यानलाभः इति भावः ।।