न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ।। ४० ।।
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ।। ४० ।।
भावरत्नकोशः
गीताक्षरार्थस्तु- सर्वजीवानामपि गुणतस्त्रैविध्यमुच्यते– न तदिति ।। यत्सत्त्वं जीवजातं एभिः प्रकृतैः प्रकृतिजैः प्रकृतिकार्यैः त्रिभिर्गुणैः सत्त्वादिभिः मुक्तं परित्यक्तं स्यात् तत्सत्त्वं पृथिव्यां मनुष्यादिषु दिवि देवेषु वा पुनर्नास्ति । ‘पुनः’ इत्यन्तरिक्ष इति समुच्चीयत इति एके । ननु ‘गुणातीतं सत्त्वं नास्ति’ इत्येतावता पूर्णत्वात् ‘पृथिव्यां दिवि इति विशेषोक्तिः किमर्था इति चेदुच्यते– मुक्तानां गुणबद्धत्वाभावात् ‘गुणातीतं सत्त्वं नास्ति’ इत्युक्ते तेषामपि तत्प्रसक्तेः, तद्व्यावृत्त्यर्थं ‘पृथिव्याम् ’ इत्यादिविशेषोक्तिरर्थवती इत्याद्युत्तर-प्रस्थाने स्फुटम् । अनेन जीवाः सात्त्विका राजसाः तामसाश्चेति त्रिविधा इति विभावितं भवति
।। ४० ।।