प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। ४१ ।।

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। ४१ ।।

भावरत्नकोशः

किं तर्हि तस्य भवति ? पुण्यकृताम् अश्वमेधादियाजिनाम्, । ‘पुण्यकृतान्’ इत्यपि पठन्ति । लोकान् प्राप्य तत्र लोकेषु शाश्वतीः नित्याः, बह्वीः, समाः संवत्सरान्, ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया, बहुषु संवत्सरेषु उषित्वा वसनमनुभूय शुचीनां यथोक्तकारिणां श्रीमतां भूतिमतां गेहे योगभ्रष्टोऽभिजायते ।। ४१ ।।