अभ्यासयोगयुक्तेन चेतसाऽनन्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।। ८ ।।

अभ्यासयोगयुक्तेन चेतसाऽनन्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।। ८ ।।

भाष्यम्

सदा तद्भावभावितत्वं स्पष्टयति– अभ्यासेति ।। अभ्यास एव योगो अभ्यासयोगः । दिव्यं पुरुषं पुरि शयं पूर्णं च । ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरि शयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्’ इति श्रुतेः । दिव्यं सृष्ट्यादिक्रीडादियुक्तम् । ‘दिवु क्रीडा’ इति धातोः ।। ८ ।।

भावप्रदीपिका

कथं मनसस्तदन्तर्गमनम् ? किञ्च तेनात्मनो वासितत्वम् ? इत्यत उत्तरश्लोकमवतारयति– सदेति । ‘अभ्यासयोगाभ्याम्’ इति प्रतीतिं वारयति– अभ्यासेति । ‘पुरुषश्चाधिदैवतम्’ इत्युक्तः पुरुषोऽयं न भवति । दिव्यत्वेन विशेषणा-दित्यभिप्रायेण ‘पुरुष’पदं सप्रमाणकं व्याचष्टे– दिव्यमिति । ‘दिव्य’शब्देनान्यव्यावृत्तिः कथम् ? इत्यत आह– दिव्यमिति ।। ८ ।।

प्रमेयदीपिका

कुतोऽयमर्थः ? इत्यत उत्तरत्रैवमेव व्याख्यानादिति भावेनाऽह– सदेति ।। द्वन्द्वादिशङ्काव्युदासार्थमाह– अभ्यास एवेति ।। अभ्यासातिरिक्तस्य योगस्य प्रकृते उपयोगिनोऽभावादिति भावः । पुरुषश्चाधिदैवतमिति प्रकृतो हिरण्यगर्भोऽत्रोच्यत इति प्रतीति निरासार्थमाह– दिव्यमिति ।। दिव्यत्वेन विशेषणादीश्वर एवायमित्यर्थः । ‘पॄ पालनपूरणयोः’ इत्यतो ‘विदिपुरोश्च’ इति कुषन्प्रत्ययविधानात् पूर्णं चेति सिद्ध्यति । ‘सर्वासु पूर्षु वर्तमानः’ इति स्वरूपानुवादेन ‘पुरुषः’ इति विधेयम् । तस्य व्याख्यानम् पुरि शयमित्यादि । आवरणम् अन्तर्व्याप्तिः । संवरणं बहिराच्छादनम् । ननु दिवि भवो दिव्यः । सच सूर्यमण्डलस्थत्वात् हिरण्यगर्भोऽपि भवतीति कश्चित्। अत आह– दिव्यमिति ।। औणादिको यक्प्रत्ययः । ‘परमम्’ इति विशेषणादिति भावः ।। ८ ।।

भावबोधः

।। प्रकृतेे उपयोगिन इति । कर्मकरणादेरन्तकालस्मरणं प्रति साक्षादहेतुत्वादिति । कुषन्प्रत्यय इति । ‘पॄ पालनपूरणयोः’ इत्यतः कुषन्प्रत्यये कित्वाद्गुणाभावे ‘ऋत इद्धातोः’ इति प्राप्ते त्वपवादत्वेन ‘उदोष्ठ्यपूर्वस्य’ इति उत्वे ‘उरण् रपर’ इति रपरत्वे पुरुषशब्दः पूरणार्थक इत्यर्थः ।

भावदीपः

।। द्वन्द्वादीति ।। षष्ठीतत्पुरुषादिरादिपदार्थः । ‘विदिपुरोश्च’ इत्युणादिसूत्रेण कुषन्प्रत्यये कित्वाद् गुणाभावे ‘उदोष्ट्यपूर्वस्य’इति उत्त्वे,‘उरण् रपरः’ इति रपरत्वे पुरुष इति रूपसिद्धेरिति भावः ।। ८ ।।

वाक्यार्थप्रदीपः

विदि पुरोश्चेति कुषन्प्रत्ययविधानादिति ।। पॄ पालन-पूरणयोरित्यस्मात् कुषन्प्रत्यये कित्वात् गुणाभावे ऋत इद्धातोरिति प्राप्ते अपवादकत्वेन उदोष्ट्यपूर्वस्येत्युत्वे उरण्रपर इति रपरत्वे पुरुषशब्दार्थक इत्यर्थः ।। ननु दिव् धातोः इगुपधलक्षणकप्रत्यये दिव् इति भवेत् । पचाद्यचि च लघूपधगुणे देवमिति भवितव्यम् । तत्कथं दिव्यमिति रूपनिष्पत्तिरित्यत आह– औणादिको यक्प्रत्यय इति ।। तथा च उणादयो बहुलमित्यनेन यकि तस्य कित्वाद् गुणाभावे दिव्यमिति रूपनिष्पत्तिरिति भावः ।

भावरत्नकोशः

।। द्वन्द्वादीति । ‘अभ्यासश्च योगश्च’ इति द्वन्द्वः । ‘अभ्यासस्य योगः सम्बन्धः’ इति षष्ठीतत्पुरुषः । ‘अभ्याससहितो योगोऽभ्यासयोगः’ इति समानाधिकरण-समास इति प्रतीतिनिरासार्थमित्यर्थः । तन्निरासम् एवकारतात्पर्योक्त्या विशदयति अभ्यासाति-रिक्तस्येति । ‘दिव्यम्’ इति विशेषणानुवादः साभिप्राय इति भावेन व्याख्याति– दिव्यत्वेनेति । कुषन् प्रत्ययेति । ‘पुरःकुषन्’ इति पूर्वसूत्राद् औणादिकः कुषन्प्रत्ययः ‘विदिपुरोश्च’ इत्यत्राप्यनु-वर्तते । तस्य च कित्त्वाद् गुणाभावे ‘उदोष्ठ्यपूर्वस्य’ इत्युत्वे, रपरत्वे च पुरुषशब्दः ‘पिपर्ति’, ‘पूर्यते वा’ इति कर्तरि निष्पन्नः पूर्णमाहेति भावः । ‘सर्वासु पूर्षु पुरिशयः’ इति श्रौतपदानि नान्वितानि ? इत्यतोऽध्याहरति– वर्तमान इति । न चेदं पुरुषशब्दार्थविवरणपरम्, शरीरे वर्तमानत्वमात्रप्रतीत्या अभिलषितार्थानवभासादित्यत उक्तम्– इति स्वरूपानुवादेनेति । तस्य ‘पुरुषः’ इत्यस्य । पुरि शयमितीति । पुरि शरीरे, ‘अधिकरणे शेतेः’ इति डः, ‘वर्णागमो वर्णविपर्ययश्च’ इत्यादिना साधुरिति भावः । ‘इत्यादि’ इत्यादिपदेन ‘नैनेन किञ्चनानावृत्तम्, नैनेन किञ्चनासंवृतम्’ इति श्रुतिशेषग्रहः । तत्राऽवृतसंवृतपदयोरपौनरुक्त्याय, ‘नानेन किञ्चिदव्याप्तं नानेनाच्छादितं न च’ इति बृहद्भाष्यरीत्या विवक्षितं प्रकृत्यर्थमाह– आवरणमित्यादि । श्रुतिशेषे अन्तर्बहिर्व्याप्तिप्रतीत्या पूर्णत्वं लभ्यत इति भाष्योक्तपूर्णत्वे प्रमाणमिदम् । ‘पॄ पालनपूरणयोः’ इति धातुव्याख्याने ‘पूरणं सर्वत्र व्याप्तिः’ इत्यभिमतमिति भावः । श्रुतौ इदम एतदो वा ‘द्वितीयाटौ-स्स्वेनः’ इत्यन्वादेशे ‘एनेन’ इति रूपम् ।

कश्चिदिति ।। यद्यपि सङ्करः ‘दिवि सूर्यमण्डले भवं पुरुषं यान्ति’ इत्येवात्र श्लोके अभाषत । तथाऽपि ‘स एवादित्यमण्डलान्तर्गतो हिरण्यगर्भ एव पुरुषोऽधिदैवतं च’ इति, ‘पुरुषश्चाधिदैवतम्’ इत्यत्र भाषितवान्, इत्यत एवमुक्तम् । औणादिको यक् प्रत्यय इति । ‘अर्घ्यादयश्च’ इत्यत्र ‘जनेर्यक्’ इत्यतो यक्प्रत्ययानुवृत्तेरर्घ्यादिगणपठिततया तत्रत्यत्वविवक्षया दीव्यतेर्यगुत्पादनीयः, ‘हलि च’ इति दीर्घाभावश्चेति भावः । ‘दिवि भवं दिव्यम्’ इति परोक्तं कुतो न स्यात् ? इत्यत आह– परममितीति । न हि हिरण्यगर्भस्य निरुपचरितं परमत्वं युक्तमिति भावः । ‘सृष्ट्यादि-क्रीडादियुक्तम्’ इति भाष्ये सृष्ट्यादिश्च सा क्रीडा चेति विग्रहः । आद्यादिपदेन स्थित्यादेः सङ्ग्रहः, द्वितीयेन विजिगीषादेः । दीव्यतेः क्रीडादिकमर्थ इति कुतः ? इत्यत उक्तम्– दिवु क्रीडेति धातोरिति । तथा व्याख्यानादित्यर्थ इति व्याख्यानं द्रष्टव्यम् ।। ८ ।।

गीताक्षरार्थस्तु- सदा तद्भावभावितत्वं स्पष्टीक्रियते अभ्यासेति । अभ्यासः आवर्तनमेव योगः उपायः, तद्युक्तेन अनन्यगामिना अनन्यविषयेण । श्रितादिषु गमिगाम्यादेरुपसङ्ख्यानात् समासः । ‘नान्यगामिना’ इति पाठेऽप्ययमेवार्थः । दिव्यं सृष्ट्यादिक्राडादियुक्तम्, पुरि शेते, पिपर्तीति वा पुरुषं प्राणिदेहे नियन्तृत्वेन वर्तमानम्, पूर्णं वा मामिति यावत् ।। ८ ।।

भावदीपिका

‘द्वन्द्वादि’ इत्यत्रादिपदेन षष्ठीविग्रहादिग्रहणम् । आहेति ।। ‘कर्मधारय इति’ आहेत्यर्थः । अभ्यासातिरिक्तस्य ध्यानापरपर्यायसमाधिभिन्नस्य । योगस्य कर्मयोगस्य । प्रकृतेति कर्मकरणादेरन्तकालस्मरणं प्रति साक्षादहेतुत्वादित्यर्थः । विदिपुरोश्चेति ।। कुषन्निति ।। तथा च ‘पॄ’ इत्यस्मात् कुषन्प्रत्यये नलोपे कित्त्वाद्गुणाभावे ऋवर्णस्य ‘उदोष्ठ्य-पूर्वस्य’ इति उत्वे, ‘उरण् रपरः’ इति तस्य रपरत्वे ‘पुरुषः’ इति रूपं द्रष्टव्यम् । अन्त-र्व्याप्तिरित्यादि ।। तथा च एनेन किञ्चनानावृतम् अन्तर्व्याप्तं न भवति, किन्तु सर्वमप्यन्तः अनेन व्याप्तमेव, सर्वान्तर्यामीति यावत् । तथैनेन किञ्चन नासंवृतम् बहिरनाच्छादितं न भवति । किन्तु सर्वमपि बहिरनेनाच्छादितमेव, सर्वाच्छादकत्वात् व्याप्त इत्यर्थः । दिवि भव इति ।। तथा च दिव्यत्वेन विशेषणादीश्वर एव, न हिरण्यगर्भ इति, उक्तमसदिति भावः । यगिति ।। ‘दिव्’ अस्माद् यक्प्रत्यये ‘दिव्यम्’ इति रूपम्, कित्त्वाद् गुणाभावः । अन्यथा ‘देव्यम्’ इति स्यात् । कुत एवं व्याख्येयम् । परोक्त एवार्थः कस्मान्न स्यात् ? इत्यत आह– परममिति ।। सूर्यमण्डलस्थे हिरण्यगर्भे परमत्वासम्भवाद् इत्थं व्याख्येयमिति भावः ।। ८ ।।

भावप्रकाशः

।। द्वन्द्वादीति ।। आदिपदेनाभ्याससहितो योग इति समासो ग्राह्यः । द्वन्द्वादिपक्षे दोषमाह– अभ्यासेति ।। प्रकृतोपययोगिन इति ।। कर्मयोगादेः साक्षादन्त-कालस्मृत्यहेतुत्वादिति भावः । पुरुषशब्दे व्याख्येये यद् दिव्यमनूद्यते तत्पमाह– दिव्यत्वेनेति ।। कुषन्प्रत्ययेति ।। कित्वाद् गुणाभावे उदोष्ट्यपूर्वस्तेत्युत्वे रपरत्वे च पुरुषशब्दसिद्धिरिति भावः

।। ८ ।।