न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ।। २० ।।

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ।। २० ।।

भाष्यम्

सन्न्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण ।। २० ।।

भावप्रदीपिका

अध्यायशेषेण ज्ञानिनः सर्वकर्मप्रहाणमुच्यत इत्यपव्याख्यान-मेवेति ज्ञापयितुमध्यायशेषार्थं दर्शयति– संन्यासेति । संन्यासस्यादौ ग्रहणेन ‘न प्रहृष्येत्’ इति श्लोकसम्बन्धोऽप्युक्तो भवति ।। २० ।।

भावप्रकाशिका

अत्र केनचित् ‘विद्याविनय’ इत्यादिश्लोकयोः स्वोक्त-जातिसङ्करे श्रुतिस्मृतिविरोधमाशङ्क्य तासां कर्मविषयत्वात्, अत्रेतःपरं सर्वकर्मस्मृतिविरोध-संन्यासस्योच्यमानत्वात् न विरोध इत्युक्तम् । तद्वचःशङ्कमानबुद्धीनां श्रीगीतानुयायिनां सुखप्रतिपत्त्यर्थमध्यायशेषमाह– संन्यासेति ।। २० ।।

प्रमेयदीपिका

अत्र कश्चित् ‘आध्यायपरिसमाप्तेर्ज्ञानिनः कर्माभावः प्रतिपाद्यते’ इत्याह । अपरस्तु ‘ज्ञानस्वरूपं तत्सहकारिसाधनं च प्रतिपाद्यते’ इति । तदुभयमसत् । अप्रतीतेरिति भावेनाध्यायशेषप्रतिपाद्यमाह– सन्न्यासेति ।। मिलित्वा मेलयित्वा शङ्कानुसारेणैव, नतु प्रकरणभेदेनेत्यर्थः । पुनरुक्तिपरिहारार्थं प्रपञ्चयति इत्युक्तम् । सन्न्यासस्यादौ ग्रहणेन न प्रहृष्येत् इति सन्न्यासप्रपञ्चनमिति सूचितम् ।। २० ।।

भावबोधः

सन्न्याससोगज्ञानानां संवलनलक्षणमेलनस्याप्यसम्भवादाह–शङ्कानुसारेणैवेति ।।

भावरत्नकोशः

‘इदं तु सर्वकर्मसंन्यासिविषयं प्रस्तुतं ‘सर्वकर्माणि मनसा’ इत्यारभ्य आ अध्यायपरिसमाप्तेः’ इति सङ्करभाषणम् अर्थतोऽनुवदति– अत्र कश्चिदिति । इति ‘आह’ इत्यनुवर्तते । ननु भाष्ये क्त्वाश्रुतिनिर्वाहाय भगवान् मिलित्वा संन्यासयोगज्ञानानि प्रपञ्चयतीति वक्तव्यम् । तत्र केन मिलित्वा संयुज्येत्याकाङ्क्षापूरणाय सन्निहितैः ‘संन्यासादिभिः’ इति वा, योग्यतया ‘पुरुषान्तरेण’ इति वा वाच्ये, तेषां प्रपञ्चनं प्रति कर्तृत्वाभावाद् बाधः इत्यत आह– मिलित्वेति ।। संन्यासयोगज्ञानान्येव मेलने प्रपञ्चने च कर्म इति भाष्ये णिजन्त-र्भावाङ्गीकारान्नोक्तशङ्काऽवकाश इति भावः । संन्यासयोगज्ञानानां संवलनलक्षणमेलनस्याप्यत्रा-दर्शनादाह– शङ्काऽनुसारेणैवेति ।

प्राग् योगाभावे संन्यासवैयर्थ्यमुक्तं तदसत्’ इति, ‘उत्तरश्लोके संन्यासादित्रितयान्तर्गतं न किञ्चिदुच्यते’ इति, ‘ननु योगिनो ब्रह्माधिगतिः प्रागुक्ता, तत्किं पुनरुच्यते’ इति च करिष्यमाणा या शङ्काः तदनुसारेणैव प्रपञ्चनम् । न पुनः संन्यासप्रपञ्चनमादौ, ततो योगप्रपञ्चनम्, ततो ज्ञानप्रपञ्चनमिति प्रकरणभेदेन विस्तृत्य वर्णनमत्र क्रियत इति ‘मेलयित्वा’ इत्यस्य तात्पर्यार्थः । ‘न प्रहृष्येत्’ इति संन्यासप्रपञ्चनं विधाय, ‘बाह्यस्पर्शेषु ’इति योगाधिक्यस्पष्टनम्, पुनः संन्यासार्थम् ‘ये हि संस्पर्शजाः’ इति कामभोगनिन्दनादिना संन्यासनिरूपणम् इत्यादिरूपेण कथनादिति भावः ।

पुनरुक्तीति । ‘ज्ञेयः’ इत्यादिना ‘विशुद्धात्मा’ इत्यादिना च स्पष्टीकृतत्वात्, ‘नैव किञ्चित्करोमि इत्यादिश्लोकद्वयेन संन्यासं स्पष्टयति’ इति भाषणेन पुनः स्पष्टीकृतत्वाद् ‘युक्तः कर्मफलम्’ इत्यादिना योगस्य स्पष्टीकृतत्वात्, ‘तेषामादित्यवद् ज्ञानं प्रकाशयति’ इति ज्ञानस्याप्युक्तत्वात्, पुनरुक्तिरिति शङ्कापरिहाराय प्रपञ्चयति ततोऽपि विस्तृत्य निरूपयतीत्यर्थ इति भाव इति सूचितमिति ।। २० ।।

गीताक्षरार्थस्तु ‘संन्यासः कर्मयोगश्च’ इत्यादिना प्रागुक्तः संन्यासः ‘नैव किञ्चित्करोमि’ इत्यादिना विवृतोऽपि पुनरिह प्रपञ्च्यते– न प्रहृष्येदिति । प्रियं प्राप्य न प्रहृष्येत् प्रहर्षं प्राप्नुयात् । अप्रियं प्राप्य नोद्विजेत् उद्वेगरूपमनोदौर्बल्यं न प्राप्नुयाच्च । तत्रोपायोक्तिः स्थिरबुद्धिः स्थिरा निर्विचिकित्सा बुद्धिर्यस्य स इति । बुद्धिस्थैर्यहेतुकथनम् असम्मूढः स्वात्मैव प्रियाप्रियप्राप्तौ स्वतन्त्र इति मिथ्याऽध्यवसायहीन इति । तदपि कुतः ? ब्रह्मवित् ब्रह्मैव प्रियाप्रियप्रापणे स्वतन्त्र इति विद्वान् । नैतावताऽलम्, किन्तु ब्रह्मणि स्थितः एकान्ततो ब्रह्मणि स्थितिमान् इति । पुनःपुनरुक्तार्थप्रपञ्चनम् अनुक्तविशेषणादिसङ्ग्रहाद्यर्थमिति विवृतिकृतः ।। २० ।।

भावदीपिका

।। कश्चित् सङ्करः । आ अध्यायपरिसमाप्तेः अध्याय-परिसमाप्तिपर्यन्तम् । अपरः भास्करः । ‘स्वयं मिलित्वा’ इत्यन्यथाप्रतीतेराह– मेलयित्वेति ।। संन्यासयोगज्ञानानां प्रतिपादकस्य भिन्नभिन्नप्रकरणस्यादर्शनादाह– शङ्कानुसारेणैवेति ।। आदौ ग्रहणेनेति ।। ‘अल्पाच्तरन्यायमतिक्रम्य’ इति शेषः ।। सूचितमिति ।। योगज्ञानयोरन्यतरस्यादौ ग्रहणे ‘न प्रहृष्येत्’ इत्यत्रान्यतरस्याप्यप्रतिपादनादसङ्गतिः स्यादिति भावः ।। २० ।।

भावप्रकाशः

ननु समानकर्तृकतानिर्वाहार्थं भगवान् मिलित्वा सन्न्यासयोग-ज्ञानानि प्रपञ्चयतीति वक्तव्यम् । तत्र केन मिलित्वेत्याकाङ्क्षायां यदि सन्निहितैः सन्न्यासादिभिरिति वा पुरुषान्तरेणेति वोच्यते तदा तेषां प्रपञ्चनकर्तृत्वाभावाद्बाध इत्यत आह– मेलयित्वेति ।। सन्निधानात् सन्न्यासाद्यन्वय इति भावः । सन्न्यासयोगज्ञानानां संवलनलक्षणमेलनस्याप्यभावादाह– शङ्कानुसारेणैवेति ।। तत्र तत्र प्राप्तशङ्कानुसारेणैवेत्यर्थः । न तु प्रकरणभेदेनेति ।। सन्न्यासः,ततो योगः, ततो ज्ञानमिति प्रकरणशुद्ध्या मेलनं तु नेत्यर्थः । सन्न्यासानन्तरं यत्किञ्चिद्योगः, पुनः सन्न्यास इत्यादिरूपेण प्रतिपादनादिति भावः । सन्न्यासप्रपञ्चनावसरेऽपि ज्ञानस्य ज्ञानप्रपञ्च-नावसरेऽपि सन्न्यासस्येत्यादिरूपेण प्रतिपादनादिति भाव इत्यन्ये ।। २० ।।