ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते।। ६२ ।। क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् विनश्यति।। ६३ ।।

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।

सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते।। ६२ ।।

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् विनश्यति।। ६३ ।।

भाष्यम्

रागादिदोषकारणमाह– परिहाराय श्लोेकद्वयेन । सम्मोहः अकार्येच्छा । तथाहि सम्मोहशब्दार्थ उक्त उपगीतासु

‘....सम्मोहसज्ज्ञितम् ।।

 अधर्मलक्षणं चैव नियतं पापकर्मसु’ (म.भा.आश्व.३६.८) इति ।।

तथाचान्यत्र ‘सम्मोहोऽधर्मकामिता’ इति ।। स्मृतिविभ्रमः प्रतिषेधादि-स्मृतिनाशः । बुद्धिनाशः सर्वात्मना दोषबुद्धिनाशः । विनश्यति नरकाद्यनर्थं प्राप्नोति । तथा ह्युक्तम्–

अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा ।

 दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते’ इति ।। ६२,६३ ।।

भावप्रदीपिका

रागाद्यभावो ज्ञानकारणमित्युक्तम् । स च कथं स्यात् ? इत्याकाङ्क्षानिवृत्त्यर्थमुत्तरश्लोकद्वयमवतार्य व्याचष्टे– रागादीति ।। ननु कामकारणसम्मोहस्य कथं क्रोधसाध्यत्वमित्यत आह– सम्मोह इति ।। ‘सम्मोह’शब्दस्यान्यथाज्ञाने रूढत्वात् कथमेतदित्यत आह– तथा हीति ।। पापकर्मसु कारणतयाऽभिमतम्, स्वयं वाऽधर्मसाधनं सम्मोहसञ्ज्ञितमित्यर्थः । विशेषवचनं चात्राह– तथा चेति ।। श्रुतिविभ्रमेनै-वैकार्थ्यादिदोषबुद्धिनाशस्याप्तेः– सर्वात्मनेति ।। उक्तहेतुहेतुमद्भावे प्रमाणमाह– तथा हीति

।। ६२-६३ ।।

भावप्रकाशिका

भगवतः सर्वोत्कृष्टत्वात् तत्रैव मनोयुक्तः, तज्ज्ञानं मुक्ति-साधनं लभत इत्युक्तम् । अधुना विषयमनःसंयोगपरिहाराय यदि विषयान् ध्यायेत् तर्हि तेषु स्नेहेन रागादिदोषाः स्युर्नरकाद्यनर्थहेतव इति व्याचष्टे  उत्तरश्लोकद्वयमवतार्य– रागे-त्यादिना ।। ननु ‘मुह वैचित्र्ये’ इति धातोर्मिथ्याज्ञानाग्रहः सम्मोहः स्यात् । उक्तं हि ‘मोहश्चैव विपर्ययः । तदाग्रहो महामोहः’ । तत्कथमकार्येच्छा सम्मोहः ? इत्याशङ्क्य, अधर्मोऽपि मोहनामेत्येतत् तावदाह– तथा हीति ।। न केवलं मिथ्याज्ञानं मोहसञ्ज्ञकम्, किन्त्वधर्मोऽपीत्यर्थः । अधर्मेच्छाया अप्यधर्मत्वात् मोहशब्दार्थतोक्ता । इदानीमधर्मेच्छा-मपि सम्मोहशब्द एव वक्तीत्याह– तथा चेति ।। एवंविधसम्मोहादिप्रणाशान्तानां हेतुहेतुमद्भाव प्रमाणमाह– तथा ह्युक्तमिति ।। ६२,६३ ।।

प्रमेयदीपिका

‘ध्यायतः’ इत्यादिना प्रकृतानुपयुक्तं किमेतदुच्यते? इत्यत आह– रागादीति ।। रागादिदोषस्य कारणं रागादिदोषकारणम् । तथा रागादिदोषः कारणं यस्य तद् रागादिदोषकारणम् । परिहाराय रागादिदोषस्य । इदमुक्तं भवति । ‘मत्परो युक्त आसीत’ इतीन्द्रियजयस्य परमसाधनमुक्तम् । रागादिदोषपरिहारोऽप्यपरं साधनमिति वक्ष्यति । तत्र स एव कथं स्यात् ? इत्याकाङ्क्षायामुपोद्घातप्रक्रिययेदमुच्यत इति । सम्मोहो मूर्च्छाऽत्र न सङ्गच्छत इत्यतोऽन्यथा व्याचष्टे– सम्मोह इति ।। अकार्येच्छा अधर्मेच्छा । कुतः? इत्यत आह– तथा हीति ।। संशब्दस्तु तस्यैव विशेषक इति भावः । अदृष्टरूपा-धर्मविषयम् । तद्धेतुषु पापकर्मसु च नियतं कामनं मोहसञ्ज्ञितमित्यर्थः ।।

स्पष्टं चात्र प्रमाणमाह– तथा चेति ।। यत्किञ्चिद्विषयस्य स्मृतिविभ्रमस्य प्रकृतानुपयोगात् सम्यग्व्याचष्टे– स्मृतिविभ्रम इति ।। विभ्रमः अनवस्थानम् । नाश इति यावत् । चेतनस्य कथं बुद्धिनाशः? इत्यत आह– बुद्धीति ।। स्मृतिविभ्रम एवायमित्यतः ‘सर्वात्मना’ इत्युक्तम् । ‘नित्य आत्मा’ इत्युक्तम् । तत्कथं विनश्यति? इत्यत आह– विनश्यतीति ।।

उक्तेऽर्थे प्रमाणमाह– तथाहीति ।। ‘तदा’ दोषादृष्टेः । एतदुक्तं भवति । रागद्वेषयोः परम्परया नरकाद्यनर्थप्राप्तिः कार्यमिति ज्ञानेन तत्परिजिहीर्षायां विषयध्यानं परम्परया तत्कारणमिति ज्ञानेन तदकरणात् तयोरनुत्पादो भवतीति ।। ६२-६३ ।।

भावबोधः

।। उपोद्घातेति ।। रागादिदोषपरिहरकारणतत्फलयोः परिहारस्य हेतुत्वात् साध्यं वक्तुम् उपोद्घातप्रक्रियया आदौ तद्धेतुमाहेत्यर्थः । न सङ्गच्छत इति ।। रागाद्य-फलत्वादिति भावः । अकार्यशब्दस्य कारणानर्हत्वार्थकत्वप्रतीतिनिरासार्थमाह– अधर्मेति ।। तद्धेतुभूतपापकर्मेत्यर्थः । संशब्द इति ।। तथा च गीतायाः प्रमाणसमानार्थत्वमिति भावः

।। ६२, ६३ ।।

भावदीपः

गीतायां द्वयोरप्युक्तेः भाष्येऽप्यर्थद्वयमाह– रागादीति ।। वक्ष्यतीति ।। ‘रागद्वेष’ (२.६४) इत्यादाविति भावः ।। ६३ ।।

भावरत्नकोशः

‘ध्यायत’ इत्यादौ विषयध्यानादिरूपस्य रागादिदोषकारणस्य, रागादिदोषफलस्य सम्मोहादेश्चोक्तेस्तदनुरोधेन भाष्यं द्वेधा व्याचष्टे– रागादिदोषस्येत्यादि ।। यस्य सम्मोहादेः । प्रकृतानुपयुक्तं किमेतदुच्यत इति कृतचोद्यं कथमनेन परिहृतमित्यतो भाष्यभावमाह– इदमुक्तमिति ।। परमसाधनं सर्वोत्कृष्ट इति ज्ञात्वा तस्मिन्नेव निरन्तरं मनसो योजनम् । वक्ष्यति ‘रागद्वेषवियुक्तैः’ इत्यादाविति शेषः । स एव रागादिदोषपरिहार एव । उपोद्घातेति ।। रागादिदोषपरिहारे कारणफलपरिज्ञानस्य हेतुत्वात् तत्साध्यं वक्तुमादौ तत्साधनमाहेत्यर्थः । न सङ्गच्छत इति ।। ‘क्रोधाद् भवति सम्मोहः’ इत्युक्तकार्यकारण-भावस्याननुभवादिति भावः ।।

ननु कर्तुमशक्यमकार्यं चन्द्रमण्डलाहरणादि । अनादि वा गगनाद्यकार्यम् । तदिच्छा च न क्रोधजन्या अननुभवादित्यत आह– अधर्मेति ।। वेदप्रणिहितो हि कार्यस्तद्विरुद्धश्चाकार्यः । स चाधर्म एव । तथा च वक्ष्यति ‘सम्मोहोऽधर्मकामिता’ इति भावः । सम्मोहशब्दार्थे प्रमाणे वक्तव्ये मोहशब्दार्थे तदुक्तिरसङ्गतेत्याशङ्क्याह– संशब्दस्त्विति ।। तस्यैव यः प्रमापयितव्यो मोहस्तस्यैव । तथा च नासङ्गतिरिति भावः । अधर्मपापशब्दयोः पर्यायत्वेऽप्यत्र कार्यकारणे एव गृह्येते इति भावेन व्याचष्टे– अदृष्टेत्यादि ।। सम्यगिति ।। स्मृतेर्विषयप्रदर्शनेन, विभ्रमशब्दार्थ-कथनेनेत्यर्थः । ‘नाशः’ इति भाष्यघटनायाह– विभ्रमोऽनवस्थानमिति ।। ‘भ्रमु अनवस्थाने’ इति धातोरिति भावः । कथमिति ।। चेतनस्य बुद्धिमत्पदार्थत्वेन तत्र भाविनाशवचनमयुक्तमिति भावः । उक्तेऽर्थे ‘क्रोधाद् भवति सम्मोहः’ इत्यादौ नरकाद्यनर्थं प्राप्नोतीत्यर्थे । ‘यदा’ इति श्रवणादध्याहारः तदा इति । उपोद्घातप्रक्रियया इदमुच्यत इत्युक्तं विशदयति – एतदुक्तं भवतीति ।। कार्यं फलम् । तत्परिजिहीर्षायां नरकाद्यनर्थप्राप्तिपरिहारेच्छायाम् ।

गीताक्षरार्थस्तु– ‘मत्परो युक्त आसीत’ इति हरिसर्वोत्तमत्वज्ञानपूर्वकं तस्मिन्नेव मनोयोजनमिन्द्रियजयस्य परमं साधनमुक्तम् । रागादिपरिहारोऽप्यपरं साधनमिति ‘रागद्वेष-वियुक्तैः’ इत्यत्र वक्ष्यते । तत्र रागादेर्यत्कारणं यच्च फलं तदुभयज्ञाने सत्येव तत्परित्यागो भवतीत्यतस्तदुपोद्घातप्रक्रिययेदमुच्यते– ध्यायत इति श्लोकद्वयेन ।। विषयान् शब्दादीन् शोभनत्वबुद्ध्या ध्यायतः पुंसः तेषु तत्सदृशेषु च सङ्गः स्नेहः सङ्गाच्च कामः इच्छा सञ्जायते अधिका भवति । कामाच्च केनचित् प्रतिहतात् क्रोधोऽभिजायते । क्रोधाच्च सम्मोहः विशेषेणा-धर्मेच्छा, सम्मोहात् स्मृतिविभ्रमः, स्मृतेः परवित्तापहरणादेरधर्मत्वाभिधायकशास्त्रार्थस्मरणस्य विभ्रमः अनवस्थानम् । नाश इति यावत् । ‘रागद्वेष’ इत्यादिस्मृतिभ्रंशाच्च बुद्धिनाशः सर्वात्मना दोषबुद्धिनाशः पूर्वं निर्णीतदोषबुद्धेः सर्वथा नाश इत्यर्थः । बुद्धिनाशात् प्रणश्यति नरकाद्यनर्थं प्राप्नोति । एतदुक्तं भवति । रागद्वेषयोः परम्परया नरकाद्यनर्थप्राप्तिः कार्यमिति ज्ञानेन तत्परिजिहीर्षायां विषयध्यानं परम्परया कारणमिति ज्ञानेन तदकरणात् तयोरनुत्पादो भवतीति

।। ६२-६३ ।।

भावदीपिका

गीतायां विषयध्यानसङ्गरूपस्य रागादिदोषकारणस्य सम्मोहादिरूपरागादिफलस्य च निरूपणात् तदनुसारेण भाष्यं द्वेधा व्याचष्टे – रागादीत्या-दिना ।। कारणं विषयध्यानादि । यस्य क्रोधस्य । परमसाधनं तस्मिन्नेव मनोयोजनरूपम् । वक्ष्यति ‘रागद्वेषविहीनैस्तु’ इत्यनेनेति शेषः । सः रागद्वेषपरिहारः ।। उपोद्घातेति ।। रागादिदोषपरिहारे तत्कारणतत्फलयोः परिहारस्य हेतुत्वात् साध्यं वक्तुमुपोद्घातप्रक्रियया तद्धेतुमादावाहेत्यर्थः । इदं ‘ध्यायतः’ इत्यादिना रागादिदोषकारणम् ।। न सङ्गच्छत इति ।। क्रोधेन मूर्च्छाया अजननादिति भावः । अकार्यस्य गगनादेरिच्छा इत्यन्यथाप्रतीतिवारणायाऽह– अधर्मेति ।। अधर्मशब्देनादृष्टं ग्राह्यम् । तथाच तद्धेतुभूतब्रह्म-हननादिरूपपापकर्मेच्छेत्यर्थः । अधर्मस्य कर्तुमयोग्यत्वेनाकार्यत्वादिति भावः ।।

ननूपगीतायां मोहशब्दार्थकथनेऽपि सम्मोहशब्दार्थाकथनादाह– संशब्दस्त्विति ।। उपसर्गाणां धात्वर्थव्यञ्जकत्वादिति भावः । यथोक्तं मीमांसकैः

धातावेव विलीनार्थ उपसर्गेण काश्यते ।

 प्रहाराहारसंहारविहारपरिहारवत् ।।’ इति ।

तद्धेतुषु अदृष्टहेतुषु । प्रमाणेऽधर्मेच्छाया मोहत्वालाभाद् वक्ष्यमाणप्रमाणानुसारेण च नियतमित्यनन्तरमध्याहार्यमाह– कामनमिति ।। अनवस्थानमिति ।। ‘भ्रमु सञ्चलने’ इति धातोरिति भावः ।। कथमिति ।। बुद्धिनाशे ज्ञानाधारत्वरूपं चेतनत्वमेव न स्यादिति भावः ।। सर्वात्मनेति ।। स्मृतिविभ्रमे तु सर्वात्मना प्रतिषेधादिस्मृतिनाशो न विवक्षित इति भावः । विस्मृते पूर्वं दोषदर्शनसद्भावाद् दोषादृष्टेरिति कथमित्यत आह– तदेति ।। विस्मृत्यवस्थाया-मित्यर्थः । ‘यदा’ इत्युक्तत्वात् ‘तदा’ इत्यस्य लाभः । कार्यं फलम् । तत्परिजिहीर्षायां सत्याम् । तत्कारणं तयो रागद्वेषयोः कारणम् । तदकरणात् विषयध्यानाकरणात् । तयोः रागद्वेषयोः ।। ६२-६३ ।।

भावप्रकाशः

 ‘ध्यायतः’ इत्यादिना रागादिदोषहेतोः तत्फलस्य चोक्तेस्तदनु-रोधेन भाष्यं द्वेधा व्याचष्टे– रागादिदोषस्येत्यादिना ।। वक्ष्यतीति ।। ‘रागद्वेषवियुक्तैस्तु’ इत्यत्रेति शेषः । न सङ्गच्छत इति ।। क्रोधाजन्यत्वादिति भावः । ननु कर्तुमशक्यमकार्यम् । यद्वा अकार्यमनादितदिच्छा न क्रोधजन्या अननुभवादित्यत आह– अधर्मेच्छेति ।। ननु ‘सम्मोहोऽकार्येच्छा’ इत्यत्र कथमिदं मानम् । अत्र मोहशब्दार्थस्यैवोक्तेरित्यत आह– संशब्द इति ।। नन्वधर्मलक्षणमित्यनेन यदि मोहस्याधर्मरूपत्वमुच्यते तदा विरोधः । यद्यधर्मविषयत्वम् तदा ‘नियतं पापकर्मसु’ इत्यनेन पुनरुक्तिः । अधर्मपापशब्दयोः पर्यायत्वादित्याशङ्क्य अधर्मपापशब्दाभ्यां कार्यकारणग्रहणान्न पौनरुक्त्यमिति भावेनाह– अदृष्टरूपेत्यादिना ।। यत्किञ्चिद्विषयस्य स्मृतिविभ्रमस्येति ।।

अत्र द्वावाक्षेपौ- स्मृतिविभ्रमपदेन स्मृतिरूपभ्रम एव ग्राह्यः । स्मृतेः विभ्रमो भ्रान्तिरित्य-स्यार्थस्य साक्षिवेद्ये भ्रान्त्यभावेन बाधितत्वात् । तथा च प्रकृतानुपयोग इत्येक आक्षेपः । यत्किञ्चिद्विषयस्येति द्वितीयः । अत एव भाष्ये विषयोक्तिः षष्ठीसमासमुपेत्य विभ्रमपदार्थोक्ति-श्चेति ध्येयम् । ननु विभ्रमशब्दस्य कथं नाशार्थत्वमित्यत आह– विभ्रमोऽनवस्थानमिति ।। ‘भ्रमु अनवस्थाने’ इति धातुव्याख्यानादिति भावः । प्रकृतमाह– नाश इति यावदिति ।। उक्तमिति ।। ‘नत्वेवाहम्’ इत्यादाविति शेषः ।। ६२-६३ ।।