सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत ।। ११ ।।

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत ।। ११ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  तत्तद्गुणस्योत्कटत्वं केन लिङ्गेन अनुमातव्यम् इत्यत उच्यते– सर्वद्वारेष्वित्यादिना ।। यदा अस्मिन् भोगायतने प्राकृते वा देहे सर्वद्धारेषु श्रोत्रादीन्द्रियद्वारेषु ज्ञानं ज्ञानलक्षणः प्रकाशः शब्दादिविषयावभास उत सुखमपि उपजायते तदा सत्त्वं विवृद्धमिति विद्यात् जानीयात् । केचित्तु ‘प्रकाशः शब्दादिविषयावभास उत अनन्तरम् उत सुखमपि तदा’ इत्यपि व्याचक्षते । अन्ये तु प्रकृष्टः काशः दीप्तिः यस्मात् स प्रकाशः विषयसन्निकर्षः, उत अनन्तरं ज्ञानमुपजायत इत्यर्थ इत्याहुः ।। ११ ।।