सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ।। २६ ।।

सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते ।

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ।। २६ ।।

भाष्यम्

सद्भावशब्देन प्रजननं सूचितम् । ॐ इत्युक्त्वा अनभिसन्धाय फलं यज्ञदानतपआदिकृताम् अतिप्रीतेः नामसाम्याद् ब्रह्मैव निष्पादितं भवतीत्या-शयः ।। २६ ।।

भावप्रदीपिका

सद्भावशब्देन सत्तामात्रं नेत्याह– सद्भावेति । ईश्वरार्थत्वात् कर्मणः सच्छब्दवाच्यताऽपीत्यर्थः ।। २६ ।।

।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीभगवद्गीताभाष्यभावदीपिकायां सप्तदशोऽध्यायः ।।

प्रमेयदीपिका

‘सद्भावे सत्तायाम्’ इति प्रतीतिनिरासार्थमाह– सद्भावेति ।। प्रजननं प्रागसतः सत्तापादनम् । यद्यपि सद्भावशब्दः सत्तामात्रवाची । तथाऽप्यत्र ब्रह्मणो जगज्जनकत्वस्य विवक्षितत्वात् सत्ताविशेषप्रजननपर इति ज्ञायत इति प्रतिपादयितुं सूचितम् इत्युक्तम् ।।

नन्वनेन यज्ञादीनां का इतिकर्तव्यता प्रतिपादिता भवति? इत्यत आह– ॐ इति ।। उक्तोङ्कारार्थज्ञानपूर्वकम् अनभिसन्धाय, फलं ब्रह्माभिसन्धाय च ब्रह्मज्ञान-भक्तिपूर्वकं तद्विषयत्वेन निष्ठया वेदोक्तप्रकारेण ब्राह्मणैः सहेत्यपि ग्राह्यम् । आदिपदेन जपादिग्रहणम् । षष्ठी तृतीयार्थे । नामसाम्यात् नामसाम्येनावगतात् तत्प्रतिमात्वात् । घटादीनामपि ब्रह्मप्रतिमात्वसाम्यात् को विशेषो यज्ञादेः? इत्यत उक्तम्– अति-प्रीतेरिति ।। ब्रह्मणः यज्ञादिषु निष्पादितं प्रतिष्ठापितम् । अतः ‘एवं क्रियमाणं यज्ञादिकं सात्विकं अन्यद्राजसं तामसं वा इत्येवमितिकर्तव्यता प्रतिपादिता’ इति वाक्यशेषः ।।

अत्र हि ‘ओं तत् सत्’ इत्यनेन ब्रह्मणो यन्नामत्रयं तद्यज्ञादेरपि वाचकमिति प्रतिपादितम् । तेन यज्ञादेर्ब्रह्मप्रतिमात्वं सूचितम् ।। ब्राह्मणाः इत्यादिना ओङ्कारं ब्रह्मणि यज्ञादौ च व्युत्पाद्य तदुच्चरणाचार उक्तः । तेनार्थस्मरणपूर्वकमोेङ्कारमुच्चार्य वेदोक्तप्रकारेण ब्राह्मणैः सह यज्ञादिकं कार्यमिति सूचितम् । तत् इत्यनेन तच्छब्दो यज्ञादौ ब्रह्मणि च व्युत्पादितः । तेन फलमनभिसन्धाय ब्रह्माभिसन्धाय चेति लब्धम् । सद्भावे इत्यनेन सच्छब्दो ब्रह्मणि व्याख्यातः । तेन ब्रह्मज्ञानपूर्वकमिति लभ्यते

।। २६ ।।

भावबोधः

।। सूचितमित्युक्तमिति ।। प्रजननवाचकत्वे तूक्तमित्येवा-वक्ष्यदिति भावः । ‘ओमित्युक्त्वाऽनभिसन्धाय फलम्’ इत्यादिभाष्ये यावद्गीतोक्तेतिकर्तव्यता-नुक्तेस्तदर्थत्वेनेति तद्भक्त्या तत्स्मणपूर्वकमेव कर्म सदिति तात्पर्यं मनसि निधाय भाष्येऽनुक्तं पूरयति– ब्रह्माभिसन्धाय चेत्यादिना ।। ‘सह’ इति ‘यज्ञदानतपआदिकृताम्’ इति भाष्येण सम्बन्धः ।।

तृतीयार्थ इति ।। ‘निष्पादितम्’ इत्यत्र तपआदिकृतां कर्तृत्वे तपआदिकृद्भिरिति तृतीयार्थ इत्यर्थः । नामसाम्येनेति ।। ब्रह्मवाचक ओम्तत्सदिति नामत्रयवाच्ययज्ञादे-र्ब्रह्मसन्निधानेन ब्रह्मप्रतिमात्वं विना नोपपद्यत इति तदन्यथानुपपत्त्याऽवगततत्प्रतिमात्वा-दित्यर्थः । ओं तत्सदित्यनेनेति प्रतीकग्रहणम् इत्यादिना प्रकारेणेत्यर्थः । एवं च ओम् तदित्यर्धेन यदोमादिनामत्रयं ब्रह्मवाचकत्वेनावगतं, तद्ब्राह्मणास्तेन इत्यर्धेन ‘ओङ्कारः, तदित्य-नभिसन्धाय’ इति श्लोकेन तच्छब्दः, ‘प्रशस्ते कर्मणि’ इत्यनेन सच्छब्द इति नामत्रयं यज्ञा-देर्वाचकमिति प्रतिपादितमित्यर्थः । ब्रह्मणि यज्ञादौ च व्युत्पाद्येति ।। ‘विहिताः’ इत्यनेनैव ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति प्रमाणबलेन विधायकस्य ब्रह्मणः ब्राह्मणादावोतत्वस्य विहितब्राह्मणादीनां विधायकब्रह्मण्योतत्वस्य प्रतिपादनात् परस्परं प्रवेशनकर्तृत्वकर्मत्वाभ्यां ब्रह्मयज्ञाद्योयोरुभयोरपि ओङ्कारं व्युत्पाद्येत्यर्थः । अत एव ओमित्युदाहरिष्यमाणश्रुति-व्याख्यानावसरे ‘यज्ञाद्या वेदाद्योतत्वात्’ इति ब्रह्मसङ्ग्रहायादिपदप्रयोगः । उच्चारणाचार इति ।। ओमित्युदाहृत्येत्यनेनेत्यर्थः । अर्थस्मरणपूर्वकमिति ।। ओङ्कारस्य योगव्युत्पादने-नेत्यर्थः । वेदोक्तप्रकारेणेति ।। ‘विधानोक्ताः’ इत्यनेनेत्यर्थः । ब्राह्मणैः सहेति ।। ब्रह्मवादिनामित्यनेनेत्यर्थः । यज्ञादिकं कार्यमिति ।। ‘यज्ञदानतपःक्रियाः प्रवर्तन्ते’ इत्यनेने-त्यर्थः । ब्रह्मणि चेति ।। मोक्षकाङ्क्षिभिरित्युक्तत्वेन तद्ब्रह्माभिसन्धायेति च लाभे वेदोक्तत्व-रूपपरोक्षत्वनिमित्तेन ब्रह्मणि स्वर्गादौ ब्रह्मोद्धेश्यकत्वस्वर्गाद्यनुद्देश्यकत्वनिमित्तेन च यज्ञादौ तच्छब्दो व्युत्पादित इत्यर्थः । सच्छब्दो ब्रह्मणीति ।। प्रजननहेतुत्वेनेत्यर्थः ।। २६ ।।

भावदीपः

।। सूचितमित्युक्तमिति ।। सद्भावपदस्य प्रजननवाचकत्वे तु ‘उक्तम्’ इत्येव ब्रूयादिति भावः ।। निष्पादितम् इत्यनेन अन्वयमाह– षष्ठी तृतीयार्थ इति ।। ‘कर्तृकरणयोस्तृतीया’ इत्युक्तेरिति भावः ।। नामसाम्येनावगतादिति ।। ओं तत्सदिति नामत्रयं भगवतीव यज्ञादावपि वर्तत इत्यनुपदमग्रे वक्ष्यति । तच्च यज्ञादौ भगवन्नामसाम्यं तत्प्रतिमात्वेनैव नान्यथा । ‘शारीररूपकविन्यस्तगृहीतेः’ इति न्यायादिति भावः ।। प्रतिपादितमिति ।। ओ३म् तत्सदितीत्याद्यर्थवादस्य यज्ञादौ भगवति च नामत्रयप्रतिपादनार्थमेव प्रवृत्तत्वात्, जगति ओतत्वरूपनिमित्तस्य ब्रह्मणीव वेदादावोतत्वरूपत्वस्य यज्ञादावपि सत्वादिति भावः ।। व्युत्पाद्येति ।। तेन ओंनामकेन हरिणा नाम्ना यज्ञादयो विहिता इत्युक्त्या व्युत्पादितमिति भावः ।। यद्वा, हरेर्जगत्प्रवेशनिमित्तेन ओंनामकत्वोक्त्या तत्प्रवेशार्थं यज्ञादीनां विधानोक्त्या ओंनामभगवत्सम्बन्धाद् यज्ञादेः ‘शरीररूपकविन्यस्तगृहीतेः’ इति न्यायाद् ओ३म्नामत्वं यज्ञादेरिति भावः ।। वेदोक्तेति ।। ‘विधानोक्ता’ इत्यनेन लब्धोऽर्थः ब्राह्मणैः सहेति । अन्यथा तत्सृष्टिर्वृथा स्यादिति भावः ।। तदित्यनेनेति ।। ‘तदिति फलमनभिसन्धाय यज्ञादयः क्रियन्त’ इत्युक्त्या यज्ञादौ परोक्षवाचित्वात् परोक्षे ब्रह्मणि च तच्छब्दो व्युत्पादित इत्यर्थः । ‘मोक्षकाङ्क्षिभिः’ इत्युक्त्या लब्धमाह– ब्रह्माभिसन्धाय चेति ।। सद्भाव इत्यनेनेति ।। तस्य प्रजननवाचित्वात् ब्रह्मणश्च तत्कर्तृत्वादिति भावः ।। २६ ।।

भावरत्नकोशः

।। प्रागसतः कार्याकारेण प्रागसतः तदाकारेण सत्तापादनम् । विवक्षितत्वात् ‘ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः’ इत्यनेन । ‘सत्ताविशेषप्रजननपरः’ इति वदन् ‘लक्षणया’ इत्यभिप्रैति । सूचितमित्युक्तमिति ।। भगवदापादितजगन्निष्ठसत्ता-विशेषस्य प्रजननस्य सद्भावशब्दमुख्यार्थत्वे ‘उक्तम्’ इत्येवावक्ष्यदिति भावः । अनेन ‘ओं तत्सदिति निर्देशः’ इत्यर्थवादेन । भाष्यपदमनूद्य तत्र शेषमाह– उक्तोंकारार्थज्ञानपूर्वक-मिति ।। तथा च न्यायदीपिका ‘ओङ्कारोच्चारणं तदर्थज्ञानपूर्वकमेव कार्यम्’ इति, ‘ओङ्कारार्थ-स्मरणपूर्वकं तमुच्चार्यैव । ओमित्युक्त्वत्रनभिसन्धाय इत्यादिभाष्ये गीताभिप्रेतयावदितिकर्तव्यता-मुक्तेः तदर्थत्वेन तद्भक्त्या तत्स्मरपूर्वकमेव कर्म सत्’ इति तात्पर्यनिर्णयानुसारेणाऽह– ब्रह्माभिसन्धाय इत्यादिना ग्राह्यम् इत्यन्तेन । ‘जपादि’ इत्यादिपदेन देवपूजादिग्रहणम् । ‘निष्पादितम्’ इति निष्ठायोगे ‘न लोकाव्ययनिष्ठा..’ इति षष्ठीनिषेधाद् भाष्ये ‘कृताम्’ इति कथं षष्ठी इत्यत आह– षष्ठी तृतीयार्थ इति ।। व्यत्ययशास्त्रादिति हृदयम् । नामसाम्ये-नेति ।। अव्यक्तादिशब्दस्य भगवति परममुख्यवृत्त्या, प्रधानादिषु मुख्यवृत्त्या प्रवृत्तावपि उभयत्र मुख्यवृत्तित्वेन साम्यमिति ‘ओं तत् सत्’ इति नामत्रयस्य भगवति यज्ञादौ च प्रवृत्तस्य साम्यमेव । तच्च शरीररूपकविन्यस्तगृहीतेः इति अव्यक्ताधिकरणन्यायेन नामत्रयवद्भगव-त्सन्निधानेन तत्प्रतिमात्वेनैव ज्ञातव्यमिति भावः । तदिदं वक्ष्यते ‘तच्छब्दानां सन्निधेस्तद्रूप-त्वात् प्रतिमात्वात्’ इति । ‘अतिप्रीतेः’ इत्यत्र इतरवस्तुसाम्यपरिहारायाध्याहरति– ब्रह्मणः यज्ञादिष्विति ।। अनादिब्रह्मणः कथं निष्पादितत्वम् इत्यतो व्याख्याति– प्रतिष्ठापितमिति ।। सन्निधापितमित्यर्थः । नन्वनेन ‘यज्ञादीनां का इतिकर्तव्यता प्रतिपादिता’ इति कृतशङ्काया अनिरास एव इत्यत आह– अत एवं क्रियमाणमिति ।।

भाप्योक्तस्य इत्थम्भावकलापस्य गीतासूचितत्वं दर्शयति– अत्र हीति ।। इत्यनेन गीतावाक्येन । वाचकमिति प्रतिपादितमिति ।। ‘ओं तत्सदिति निर्देशः’ इत्यर्धेन ‘ओंनाम-केन हरिणा यज्ञादयो विहिताः’ इत्युक्त्या ओङ्कारादित्रयमपि यज्ञादेर्वाचकमिति प्रतिपादितम् । ओंनामकाद् जातं यज्ञादिकमपि ओंनामकम्, तन्नामकाद् जातं तन्नामकम्, सन्नामकाद् जातं सन्नामकम् । ‘काकाज्जातः काकः’ ‘श्येनाज्जातः श्येनः’ इति यथा । सति चैवं ‘तेन ओमादिनाम्ना ब्रह्मणा’ इत्युक्तिरर्थवतीति भाव इति केचित् । अन्ये तु ‘ओं तत्सद् इति यो ब्रह्मणो निर्देशः स त्रीणि यज्ञदानतपांसि विधत्ते प्रतिपादयतीति त्रिविधः स्मृतः’ इति व्याख्यानाशयाद् यज्ञादेर्वाचकमित्युक्तम् । विपूर्वाद् दधातेः मूलविभुजादित्वात् कप्रत्यये, आतो लोपे च ‘त्रिविधः’ इति रूपसिद्धेः इत्याहुः ।

तेन वाचकत्वप्रदानेन । सूचितमिति ।। यत्र यत्सन्निधानेन ब्रह्मशब्दयोगः तस्य तत्प्रतिमात्वम् । यथा ‘रथस्थं केशवं दृष्ट्वा ’ इत्यादौ केशवप्रतिमायां केशवशब्दयोगः, यथा च भगवन्नाम्नोऽव्यक्तशब्दस्य प्रधाने प्रयोग इति व्याप्तेः । न चैवं प्रतिमादाविव यज्ञादौ ओमादित्रयममुख्यमापन्नम् इति कथम् ओमादिपदवाच्यत्वमिति शङ्क्यम् । जगत्योतत्व-निमित्तेन ब्रह्मणीव वेदादौ ओतत्वनिमित्तेन यज्ञादौ प्रवृत्तिसम्भवेन तस्य वाच्यत्वोपपत्तेः । अत एव अव्यक्तादिशब्दे ‘शरीररूपकविन्यस्तगृहीतेः’ इति अव्यक्तादेः प्रतिमात्वोक्तौ, तर्हि अव्यक्तादिशब्दस्य प्रधानादौ लक्षणादिप्रसक्तिः इत्याशङ्क्य ‘कल्पनोपदेशाच्च मध्वादिवदविरोधः इति भगवता सूत्रकारेण लोकसिद्धरूढियोगादिवृत्त्यभ्युपगमेन मुख्यवृत्तिरिति स्थापितम् ।

इत्यादिना सार्धश्लोकेन । ब्रह्मणि यज्ञादौ च व्युत्पाद्येति ।। ‘ओतं जगद्यत्र’ इत्यनेन ओतम् प्रविष्टम् आश्रितं यत्र परमेश्वरे, यश्च स्वयं जगदोतः प्रविष्टः पूर्ण इति ओंशब्दस्य निमित्तद्धयेन भगवति व्युत्पत्तिर्दर्शिता । एवमेव ‘विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् । विहिता विष्णुना तेन.....’ इति वचनात् । ‘वेदाद्योतत्वं ब्रह्मनिमित्तत्वं च निमित्तीकृत्य ओंशब्दस्य यज्ञादौ प्रवृत्तिर्दर्शिता’ इत्येवम् ओङ्कारं ब्रह्मणि यज्ञादौ च व्युत्पाद्येत्यर्थः । तदुच्चारणाचारः ओङ्कारोच्चारणाचारः उक्तः ‘तस्मादोम् इत्युदाहृत्येति श्लोकेन । ‘अभक्तोदाहृतं नैव फलदातृ भविष्यति’ इति भक्तिज्ञानादिहीनपुरुषोच्चरितस्य सफलत्वाभावावगमात् ‘स्मृतं सार्थं सर्वकामप्रदं स्यात्’ इति वचनेनार्थस्मरणादिपूर्वकनामोच्चारणस्य सफलत्वावगमाद् ‘ओतं जगद्यत्र’ इति योगवृत्तिप्रदर्शनाच्चाऽह– तेनार्थस्मरणपूर्वकमिति ।। वेदोक्तप्रकारेणेति ।। ‘प्रवर्तन्ते विधानोक्ताः’ इत्युक्तेरिति भावः । ब्राह्मणैः सहेति ।। अन्यथा तत्सृष्टिर्व्यर्था स्यादिति भावः ।

केचित्तु ‘ब्रह्मवादिनाम्’ इत्युक्तत्वाद् ब्राह्मणेषु वेदानाम्, वेदेषु यज्ञानां च ओतत्व-व्युत्पादनाच्चेति भावेन ‘ब्राह्मणैः सह’ इत्युक्तमित्याहुः । ‘यज्ञादिकं कार्यम्’ इति वदन् ‘यज्ञदानतपःक्रियाः प्रवर्तन्ते’ इत्याचार्येण विधिरुन्नीयत इत्यभिसन्धत्ते । सूचितम् सङ्क्षेपे-णोक्तम् । तदित्यनेन ‘तदित्यनभिसन्धाय’ इति श्लोकेन यज्ञादौ ब्रह्मणि चेति ।। ‘तद्वेदोक्तं स्वर्गादिकं फलं मम स्यादित्यनभिसन्धाय’ इति भाष्यरीत्या फलानभिसन्धिपूर्वकत्व-रूप इत्थम्भावो यज्ञादौ प्रतिपादितः । स च तच्छब्दप्रवृत्तिनिमित्तं ‘निष्फलं कर्म तत्स्यात्’ इति श्रुतौ निष्फलशब्देन फलानभिसन्धेरभिप्रेतत्वात् । तथा च प्रवृत्तिनिमित्तप्रतिपादनद्वारा तच्छब्दो यज्ञादौ व्युत्पादितः । एवं च–

........तद् ब्रह्म स्यान्ममास्पदम् ।

इति यत् क्रियते कर्म तन्नामाऽतो जनार्दनः ।

अभिसंहितं हि तत्प्रोक्तं ततं वा स्वगुणैः सदा ।।’

इति तात्पर्यनिर्णयोक्तरीत्या तच्छब्दस्य वेदैकवेद्यस्वरूपत्वम् गुणपूर्णत्वम्, अभिसंहितत्वं चेति प्रवृत्तिनिमित्तत्रयं ब्रह्मणि प्रतिपादितम् । तथा च तच्छब्दो ब्रह्मणि व्युत्पादितो भवतीत्याशयः । तल्लब्धमाह– तेनेति ।।

इत्यनेन ‘सद्भावे साधुभावे च’ इति श्लोकेन । अत्र हि सद्भावशब्देन प्रागसतः सत्तापादनरूपप्रजननतात्पर्यकेण प्रजननहेतुत्वम्, साधुशब्देन शुभगुणवत्त्वं च सच्छब्दप्रवृत्तौ निमित्तमिति कथितं द्वयमपि ब्रह्मणि सुप्रसिद्धम् । अतः प्रवृत्तिनिमित्तद्वयकथनद्वारा सच्छब्दो ब्रह्मणि व्याख्यात इत्यर्थः । लभ्यत इति ।। सच्छब्दो हि जगज्जनकत्वादिगुणनिमित्तको ब्रह्मणि प्रवर्तते । गुणोक्तिश्च ज्ञानाद्यर्था । अतो ‘ब्रह्मज्ञानपूर्वकम्’ इति इतिकर्तव्यता लभ्यत इत्यर्थः ।। २६ ।।

गीताक्षरार्थस्तु– ब्रह्मणि सच्छब्दो व्याख्यायते– सद्भाव इति ।। सद्भावशब्दस्य सत्तामात्रवाचिनोऽप्यत्र प्रागसतः सत्तापादनरूपप्रजननार्थताऽवसेया । ‘ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः’ इति ब्रह्मणो जगज्जनकत्वस्य विवक्षितत्वात् । तथा च जगतः सद्भावे प्रजनने जनयितृत्वे इत्यर्थः सम्पद्यते । साधुभावे साधोर्भावः सर्वशुभधर्मयुतत्वं तस्मिंश्च, सदित्येतत् पदं प्रयुज्यते प्राज्ञैरित्यनेन जगज्जनयितृत्वात् सर्वशुभधर्मयुतत्वाच्च भगवान् सच्छब्दार्थ इत्युक्तं भवति । तेन ब्रह्मज्ञानपूर्वकत्वस्य इतिकर्तव्यता लभ्यते । तथा प्रशस्ते कर्मणि शुभे कर्मणि सच्छब्दः युज्यते प्रयुज्यते ।। २६ ।।

भावदीपिका

।। विवक्षितत्वादिति ।। ‘ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा’ इत्यनेनेत्यर्थः । सूचितमित्युक्तमिति ।। प्रजननवाचकत्वे तु ‘उक्तम्’ इत्येवा-वक्ष्यदिति भावः । ‘ओम् इत्युक्त्वाऽनभिसन्धाय फलम्’ इत्यादिभाष्येण यावद्गीतोक्तेति-कर्तव्यताऽनुक्तेः तदर्थं ‘भक्त्या तत्स्मरणपूर्वकमेव कर्म सत्’ इति तात्पर्यं मनसि निधाय भाष्येऽनुक्तं पूरयति – ब्रह्माभिसन्धाय चेत्यादिना ।। ‘उक्तोङ्कारार्थज्ञानपूर्वकम्’ इत्यादीनां ‘ब्राह्मणैः सह’ इत्यन्तानां तपआदिकृताम्’ इति भाष्येण प्रत्येकं सम्बन्धो द्रष्टव्यः । तृतीयार्थ इति ।। ‘निष्पादितम्’ इत्यत्र तपआदिकृतां ‘कर्तृकरणयोस्तृतीया’ इति कर्तरि तृतीयाविधानात् तपआदिकृद्भिर्ब्रह्मैव निष्पादितं भवतीत्यर्थो द्रष्टव्यः ।

तच्छब्दानां सन्निधेः’, ‘तद्रूपत्वात्’ इत्युत्तरश्रुत्यनुसारेण आह– नामसाम्येनावगतात् तत्प्रतिमात्वादिति ।। ब्रह्मवाचक‘ओम् तत् सत्’ इति नामत्रयवाच्यत्वम् । यज्ञादेर्ब्रह्म-सन्निधानेन ब्रह्मप्रतिमात्वं विना नोपपद्यत इति, तदन्यथाऽनुपपत्त्याऽवगतात् तत्प्रतिमात्वा-दित्यर्थः । नन्वत्र भाष्ये यज्ञादीनाम् ईदृशीतिकर्तव्यता प्रतिपादिता इत्यप्रतीतेराह– अत एवमिति ।। ‘ओमित्युक्त्वा’ इत्यादिकं गीतारूढं करोति– अत्र हीति ।। ओं तत्सदित्य-नेनेति ।। प्रतीकग्रहणमिदम् । इत्यादिना प्रकरणेनेत्यर्थः । एवं च ‘ओम् तत्सत्’ इत्यर्धेन यद् ओमादिनामत्रयं ब्रह्मवाचकत्वेनावगतं तत् ‘ब्राह्मणास्तेन’ इत्यर्धेन ओङ्कारः, ‘तदित्यनभिसन्धाय’ इति श्लोकेन तच्छब्दः, ‘प्रशस्ते कर्मणि’ इत्यनेन सच्छब्द इति नामत्रयं यज्ञादेर्वाचकमिति प्रतिपादितमित्यर्थः । ब्रह्मणि यज्ञादौ च व्युत्पाद्येति ।। ‘विहिताः’ इत्यनेनैव ‘तत्सृष्ट्वा, तदेवानुप्रविशत्’ इति प्रमाणबलेन विधायकस्य ब्रह्मणः ब्राह्मणा-दावोतत्वस्य, विहितब्राह्मणादीनां विधायके ब्रह्मण्योतत्वस्य प्र्रतिपादनात् परस्परं प्रवेशन-कर्तृत्वकर्मत्वाभ्यां ब्रह्मयज्ञाद्योरुभयोरपि ओङ्कारं व्युत्पाद्येत्यर्थः । अत एव ओमित्युदा-हरिष्यमाणश्रुतिव्याख्यानावसरे ‘ओं यज्ञाद्या वेदाद्योतत्वात्’ इति ब्रह्मसङ्ग्रहायादिपदप्रयोग इति मन्तव्यम् । उच्चारणाचार इति ।। ‘ओमित्युदाहृत्य’ इत्यनेनेत्यर्थः ।

अर्थस्मरणपूर्वकमिति ।। ओंकारस्य योगव्युत्पादनेनेत्यर्थः । वेदोक्तप्रकारेणेति ।। ‘विधानोक्ताः’ इत्यनेनेत्यर्थः । ब्राह्मणैः सहेति ।। ‘ब्रह्मवादिनाम्’ इत्यनेनेत्यर्थः । यज्ञादिकं कार्यमिति ।। ‘यज्ञदानतपःक्रियाः प्रवर्तन्ते’ इत्यनेनेत्यर्थः । तच्छब्दः यज्ञादौ ब्रह्मणि चेति । ब्रह्मोद्देश्यकत्वस्वर्गाद्यनुद्देश्यकत्वनिमित्तेन च यज्ञादौ तच्छब्दो व्युत्पादितः तेन ‘फल-मनभिसन्धाय’ इति लब्धम् । वेदोक्तत्वरूपपरोक्षत्वनिमित्तेन ब्रह्मणि तच्छब्दो व्युत्पादितः, तेन ‘ब्रह्माभिसन्धाय’ इति लब्धमिति भावः । सच्छब्दो ब्रह्मणीति ।। प्रजननहेतुनेत्यर्थः ।।२६।।

भावप्रकाशः

 सद्भावशब्दस्य प्रजननार्थत्वमुपपादयितुं प्रजननशब्दार्थमाह– प्रागसत इति ।। कार्याकारेण प्रागसतस्तदाकारेण सत्तापादनमित्यर्थः । उक्तमित्यनुक्तत्वा सूचितमिति यदुक्तं तत्कृत्यं वक्तुमाह– यद्यपीति ।। सत्ताविशेषेति ।। लक्षणयेति शेषः । यथोक्तम् ‘शक्यादन्येन रूपेण ज्ञाते भवति लक्षणे ’इति । ब्राह्मणा इत्यादिनोङ्कारस्य ब्रह्मणि निरुक्तत्वात् तदनुरोधेनाह– ओङ्कारार्थज्ञानपूर्वकमिति ।। भाष्ये गीतालब्धसर्वेतिकर्तव्यतानुक्ते-स्तदर्थत्वेन तद्भक्त्या तत्स्मरणपूर्वकमेव कर्म सदिति तात्पर्यानुसारेणाह– ब्रह्माभिसन्धाय चेत्यादिना जपादीति ।। आदिपदेन पूजादिग्रहणम् ।

ननु निष्ठाप्रत्यययोगे न लोकेति षष्ठीनिषेधात् कथं तपआदिकृतां निष्पादितमित्युक्तमित्यत आह– षष्ठी तृतीयार्थ इति ।। व्यत्ययेनेति शेषः । तथा च कर्तृकर्मणोः कृतीत्युक्तषष्ठ्या एव न लोकेति निषेधो न व्यत्ययप्राप्तायाः, येन नाप्राप्तिन्यायादिति भावः । यद्वा ननु यदि शेषे षष्ठी तदा कर्तृत्वबोधो न स्यादित्यत आह– तृतीयार्थ इति ।। कर्तृत्व इत्यर्थः । न लोकेति निषेधस्यानित्यत्वादिति भावः । कर्तृकरणयोरित्युक्ततृतीयां बाधित्वेयं षष्ठीति ज्ञापयितुं कर्तरीत्यनुक्त्वा तृतीयार्थ इत्युक्तम् ।

ननु यदि ब्रह्मणि यज्ञादौ च नामसाम्याद्यज्ञादिकृतां ब्रह्मनिष्पादकत्वं तदा लवणकृतामश्वनिष्पादकत्वं स्यात् सैन्धवनामसाम्यादित्यत आह– नामसाम्येनेति ।। असाधारणनामसाम्येनेत्यर्थः । तेन लवणादेरश्वादिप्रतिमात्वं स्यान्नामसाम्यादिति निरस्तम् । न च साधारण्यं साम्यं चेति व्याहतम् । परममुख्यवृत्त्याऽसाधारण्यम् । मुख्यवृत्त्या साम्य-मित्यङ्गीकारात् । तथा च यज्ञादेरोमादिब्रह्मनामादिसाम्यम् । ब्रह्मसन्निधानेन ब्रह्मप्रतिमात्वं विनाऽनुपपन्नं तदवगमयतीति भावः ।

ननु ब्रह्मणोऽनादित्वात् कथं निष्पादितत्वमित्यत आह– प्रतिष्ठापितमिति ।। नन्वेवं सति यज्ञादीनां केतिकर्तव्यता प्रतिपादितेति शङ्काया अनिरास एवेत्यत आह– अक्रिय-माणमिति ।। उक्तस्य सर्वस्यापि सात्त्विकत्वप्रयोजकस्य गीतासूचितत्वं दर्शयति– अत्र हीति ।। इत्यनेनेति ।। वाक्येनेति शेषः । प्रतिपादितमिति ।। ॐ तत्सदिति यो ब्रह्मणो निर्देशः । स त्रीणि यज्ञदानतपांसि विधत्ते प्रतिपादयतीति । त्रिविधः स्मृत इति व्याख्या-नादिति भावः । विपूर्वाद्दधातेः मूलविभुजादित्वात् कप्रत्यये अकारलोपे च त्रिविध इति रूपं बोध्यम् ।

सूचितमिति ।। यत्र सन्निधानेन ब्रह्मनामप्रयोगस्तस्य तत्प्रतिमात्वं यथा व्यास-प्रतिमादाविति व्याप्तेरिति भावः । न चैवमोमादिशब्दानां यज्ञादिष्वमुख्यत्वापत्तिरिति वाच्यम् । उक्तरीत्योमादिशब्दप्रवृत्तिनिमित्तस्यापि सत्त्वेन वाचकत्वसम्भवात् । अत एव प्राग्वाचक-मित्युक्तम् । इत्यादिनेति ।। सार्धश्लोकग्रहणायादिपदम् । ब्रह्मणि यज्ञादौ च व्युत्पाद्येति ।।

विप्रा यज्ञाश्च वेदाश्च यस्मादोताः परस्परम् ।

 विहिता विष्णुना तेन विष्णुरोमिति कार्तितः ।

 ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति’

इति तात्पर्यनिर्णयानुसारेण ब्राह्मणा इति वाक्ये विष्णौ परस्परं चौता इति पूरणीयम् । ततश्च ब्रह्मणि ब्राह्मणाद्याश्रयत्वतन्निर्मातृत्वरूपमोङ्कारप्रवृत्तिनिमित्तं प्रतिपादितं तेन अवति प्रविशति ब्राह्मणादिकं सर्वमस्मिन्निति वा अवति करोति ब्राह्मणादीनिति वौङ्कारो ब्रह्मणि व्युत्पादितः । एवं वेदाद्योतत्वं ब्रह्मनिर्मितत्वं चोङ्कारप्रवृत्तिनिमित्तं यज्ञादौ प्रतिपादितं तेनावति प्रविशतीति वा अव्यते क्रियते एतदिति वा यज्ञदावोङ्कारो व्युत्पादित इति भावः । तदुच्चारणाचार इति ।। तस्मादित्यादिश्लोकेनेति शेषः ।

अर्थस्मरणपूर्वकमिति ।। ‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा’ इति स्मृतेः गुणोक्तेः ज्ञानाद्यर्थत्वादिति भावः । उच्चार्येति ।। ॐ मित्युदाहृत्येत्युक्तत्वादिति भावः । वेदोक्त-प्रकारेणेति ।। ‘विधानोक्ता’ इत्युक्तत्वात् । वेदेषु यज्ञाद्योततत्वरूपोङ्कारप्रवृत्तिनिमित्त-व्युत्पादनाच्चेति भावः । ब्राह्मणैः सहेति ।। ब्रह्मवादिनामित्युक्तत्वाद्ब्रह्मणे यज्ञाद्योतत्व-रूपोङ्कारप्रवृत्तिनिमित्तव्युत्पादनाच्चेति भावः । यज्ञादिकं कार्यमिति ।। यज्ञदानतपःक्रियाः प्रवर्तन्त इति आचारोक्त्या विध्यनुमानादिति भावः । सूचितमिति ।। अर्थाद् ज्ञापितमित्यर्थः ।

यज्ञादौ ब्रह्मणि चेति ।। तद्वेदोक्तं स्वर्गादिकं फलं मे स्यादित्यनभिसन्धायेत्यादियोजनायां फलानभिसन्धिपूर्वकत्वरूपं निष्फलत्वं यज्ञादौ प्रतिपादितं तच्च तच्छब्दप्रवृत्तिनिमित्तं निष्फलं कर्म तत् स्यादिति श्रुतेः । तथा च प्रवृत्तिनिमित्तप्रतिपादनद्वारा तच्छब्दो यज्ञादौ व्युत्पादितः । एवं–

तत् ब्रह्म स्यात् ममास्पदम् । इति यत्क्रियते कर्म तन्नामातो जनार्दनः ।

 अभिसंहितं हि तत् प्रोक्तं ततं वा स्वागुणैः सदा’

 इति तात्पर्यानुसारेण तद्वेदोक्तरूपं गुणपूर्णं च ब्रह्म ममास्पदं स्यादित्यभिसन्धायेत्यादि योजनायां वेदोक्तरूपत्वं गुणपूर्णत्वम् अभिसंहितत्वं चेति तच्छब्दप्रवृत्तिनिमित्तत्रयं ब्रह्मणि प्रतिपादितं तेन तच्छब्दो ब्रह्मणि व्युत्पादित इत्यर्थः । सद्भाव इत्यनेनेति ।। श्लोकेनेति शेषः । अत्र श्लोके प्रजननहेतुत्वं साधुगुणः अक्लिष्टकारित्वं चेति सच्छब्दप्रवृत्तिनिमित्तत्रय-मुक्तम् । तच्च ब्रह्मणि प्रसिद्धम् । अतः प्रवृत्तिनिमित्तकथनद्वारा सच्छब्दो ब्रह्मणि व्याख्यात इत्यर्थः । लभ्यत इति ।। ओंतत्सदित्यादिप्रकरणस्य यज्ञादीनां सात्विकत्वादिप्रयोजक-साधारणधर्मप्रतिपादने तात्पर्यं वाच्यम् । अन्यथा प्रकरणविरोधात् । श्लोके च जगज्जनकत्वादि-रूपसच्छब्दप्रवृत्तिनिमित्तं ब्रह्मणि व्युत्पाद्यते । ततो ब्रह्मज्ञानपूर्वकत्वरूपं प्रयोजकं प्रतिपाद्यत इति लभ्यत इत्यर्थः ।। २६ ।।