एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति।। ७२ ।।

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति।। ७२ ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

श्रीकृष्णार्जुनसंवादे जीवेश्वरस्वरूपज्ञानो नाम द्वितीयोऽध्यायः ।।

भाष्यम्

उपसंहरति– एषेति ।। ब्राह्मी स्थितिः ब्रह्मविषया स्थितिः लक्षणम् । अन्तकालेऽप्यस्यां स्थित्वैव ब्रह्म गच्छति । अन्यथा जन्मान्तरं प्राप्नोति ।। ‘यं यं वाऽपि’ (८.६) इति वक्ष्यमाणत्वात् ।। ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम् ।। ‘भोगेन त्वितरे’ (ब्र.सू.४.१.१९) इति ह्युक्तम् ।। सन्ति हि बहुशरीरफलानि कर्माणि ।। ‘सप्तजन्मनि विप्रः स्यात्’ इत्यादेः ।।

भावप्रदीपिका

अन्त्यश्लोकमवतार्य व्याचष्टे– उपसंहरतीति ।। ‘ज्ञानिलक्षणम्’ इति शेषः । परोक्षज्ञानिनां कारणाभावाद्देहान्तरं न युक्तमित्यत आह– ज्ञानिनामिति ।। ज्ञानोदयजन्मन्येव प्रारब्धभोगसम्भवात् किं देहान्तरेण ? इत्यत आह– सन्ति चेति ।।

भावप्रकाशिका

‘ब्रह्मणि स्थितिः’ इति शङ्काव्यावर्त्यमाह– ब्रह्म-विषयेति ।। नन्वपरोक्षज्ञानिनां कथं शरीरान्तरम् ? इत्यत आह– ज्ञानिनामिति ।। ननु सत्यपि प्रारब्धकर्मणि ज्ञानोदयानन्तरं तदपि तद्देह एव भुक्त्वा मुक्तिः किं न स्यात् ? इत्यत आह– सन्ति हीति ।।

प्रमेयदीपिका

‘ज्ञानी स्तूयते ‘एषा’ इत्यनेन’ इत्यसत् । प्रथमवाक्ये तददर्शनादिति भावेनाऽह– उपसंहरतीति ।। प्रकरणं समापयतीत्यर्थः । ‘ब्रह्मधर्मभूतः’ इति प्रतीतिनिरासायाह– ब्राह्मीति ।। स्थितिर्नोक्ता । तत्कथमेवमुच्यते? इत्यत आह– लक्षणमिति ।। ब्रह्मविषयज्ञानवतो लक्षणमुक्तमित्यर्थः । ‘किं प्रभाषेत’(२.५४) इत्यादिप्रश्नपरिहारस्य अर्थादुक्तत्वादनुपसंहारः ।।

अन्तकाले चरमे वयस्यपि यः परिव्रज्यास्यां स्थितौ तिष्ठति सोऽपि ब्रह्माप्नोति । किमु ब्रह्मचर्यादेव प्रव्रज्य’ इति व्याख्यानमसत् । अप्रकृतत्वादित्याशयवान् व्याचष्टे– अन्तकालेऽपीति ।। ज्ञानिनो ब्रह्मप्राप्तिरुक्ता । सा किं तद्देहपातानन्तरमेव? उतान्यथा? इत्यपेक्षायामिदमुच्यते । कुतोऽस्यार्थस्य भगवदभिप्रेतत्वम्? इत्यत आह– यं यमिति ।।

ननु ज्ञानमेव मोक्षसाधनम् । कारणपौष्कल्ये च कार्यं भवत्येव । अतः कथं ज्ञानिनः शरीरान्तरप्राप्तिः? इत्यत आह– ज्ञानिनामपीति ।। प्रारब्धकर्म सामग््रयाः प्रतिबन्धकम्। तदेवान्तकाले ब्रह्मानुसन्धानं प्रतिबध्नातीति भावः ।। ननु ज्ञानादेव सर्वं कर्म क्षीणमित्यत आह– भोगेनेति ।। अस्तु प्रारब्धकर्मणां भोगेन क्षयः । स च ज्ञानं यच्छरीरे जातं तत्रैवाभूत् । अतः कथं शरीरान्तरारम्भः? इत्यत आह– सन्ति हीति ।। ‘तानि कथमेकेनैव शरीरेण भुज्येरन्’ इति शेषः । ‘सप्तजन्मनि’ इति द्विगुः ।।

भावबोधः

।। अर्थादिति ।। अन्यपरादपि तल्लाभ इत्युक्तप्रकारणेत्यर्थः । द्विगुरिति ।। तथा ‘द्विगुरेकवचनम्’ इति एकवचनं युक्तमित्यर्थः ।।

भावदीपः

हेतूूक्तिपूर्वकत्वादेरभावादाह– प्रकरणं समापयतीत्यर्थ इति।। ‘प्रजहाति’ इत्यादि प्रकरणमित्यर्थः ।। अर्थादिति ।। ‘या निशा’ इति श्लोके ‘अन्यपरादपि तल्लाभः’ इत्युक्तेरिति भावः ।। सामग््रयाः मोक्षसामग््रयाः प्रारब्धकर्म प्रतिबन्धकमित्यर्थः ।। भोगेनेति ।। इतरे प्रारब्धपुण्यपापे भोगेन क्षपयित्वा विनाश्य अथ पश्चात् सम्पत्स्यते ब्रह्म इति सूत्रार्थः ।। ननु सप्त च तानि जन्मानि चेति विग्रहे ‘सप्तजन्मसु’ इति स्यादित्यत आह– इति द्विगुरिति ।। ‘सङ्ख्यापूर्वो द्विगुः’ (पा.सू.२.१.५२) इति द्विगुसंज्ञायां ‘द्विगुरेकवचनम्’ (पा.सू.२.४.१) इति सूत्रेणैकवचनमित्यर्थः ।।

वाक्यार्थप्रदीपः

ननु सप्त च तानि जन्मानि चेति विशेषणसमासे सप्तजन्म-स्विति भवितव्यम् । ‘सप्तजन्मनि’ इत्येकवचनं तु कथम्? इत्यतोऽस्य सप्त जन्मानि समाहृता-नीत्येवं रूप ‘तद्धितार्थोत्तरपदसमाहारे च’ इत्येतत्सूत्रविहितसमासत्वेन विशेषणसमासत्वा-भावात् तस्य च सङ्ख्यापूर्वतया ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसंज्ञायां ‘द्विगुरेकवचनम्’ इति तदर्थस्य समाहारे एकवद्भावविधानात् ‘सप्तजन्मनि’ इति युक्तमेकवचनमित्याह– सप्तजन्मनीति द्विगुरिति ।।

भावरत्नकोशः

सैषा ज्ञाननिष्ठा स्तूयत इति शङ्करभाष्यमर्थतोऽनुवदति– ज्ञानीति ।। प्रथमवाक्ये तद्दर्शनादिति ।। ‘आपूर्यमाणम्’ इत्यत्र ‘स शान्तिमाप्नोति’ इति ज्ञानिस्तवनस्य दर्शनादित्यर्थः । ‘स शान्तिमाप्नोति’ इति वचनं न ज्ञानिनो मुक्तिप्रतिपाद-नार्थम् । ‘न चाभावयतः’ इति ज्ञानिनो मुक्तेरुक्तत्वात् । किन्तु ‘यं कामाः प्रविशन्ति स शान्तिमाप्नोति’ इति ज्ञानी प्रशस्यत इत्येव वक्तव्यमिति तत्रैव स्तुतिः प्राप्तेति भावः । अध्यायार्थोपसंहारप्रतीतिव्युदासायाह– प्रकरणमिति ।। ‘प्रजहाति’ इत्यादिप्रकरणमित्यर्थः । ब्रह्मधर्मभूतेतीति ।। ब्रह्मण इयं ब्राह्मीत्यत्र षष्ठ्यर्थसम्बन्धो धर्मधर्मिभाव इति प्रतीतिनिरासा-येत्यर्थः ।।

।। एवमुच्यते ब्राह्मी स्थितिरेषेत्येवमुच्यते । ‘स्थितिर्नोक्ता’ इत्युक्तदोषं परिहर्तुमाह– लक्षणमुक्तमिति ।। लक्षणप्रश्नपरिहारोपसंहारेऽपि भाषणादिप्रश्नपरिहारस्यानुपसंहृतत्वान्न्यूनतेति शङ्कां परिहर्तुमाह– किं प्रभाषेतेत्यादि ।। अर्थादिति ।। ‘अन्यपरादपि तल्लाभः’ इत्युक्त-प्रकारेणोक्तत्वात् तदुपसंहाराभावो न दोष इत्यर्थः । ‘स्थित्वाऽस्यां स्थितौ ब्राह्म्यां यथोक्ताया-मन्तकालेऽन्तेऽपि वयसि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षमृच्छति । किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येवावतिष्ठते स ब्रह्मनिर्वाणमृच्छति’ इति शङ्करभाष्यं सार्थं सङ्क्षिप्यानुवदति– अन्तकाले चरमे वयस्यपीत्यादिना ।। अप्रकृतत्वादिति ।। ‘प्रव्रज्य’ इति संयोज्य व्याख्यानं तदा युक्तं यदि संन्यास इतः पूर्वं प्रकृतः स्यात् । न चैवम् । तस्मान्नेदं व्याख्यानमित्यर्थः ।।

।। उक्ता ‘न चाभावयतः शान्तिः’ इत्यादौ । इदं ‘स्थित्वाऽस्यामन्तकालेऽपि’ इति प्रमेयम् । अन्यथा ब्राह्म्यां स्थितावविद्यमानश्चेत् । अन्तकालेऽपि ब्रह्म चेन्नानुसन्दध्यादिति यावत् । न ब्रह्म गच्छतीति भाषणीयेऽपि ‘जन्मान्तरं प्राप्नोति’ इति वचनं न ब्रह्म चेद् गच्छेत् किं कुर्यादिति शङ्कापनोदाय वस्तुस्थितिकथनं भाष्य इति स्फुटत्वान्न व्याख्यातम् । ‘विद्यैव तु निर्धारणात्’ इत्यादौ तथा स्थितेराह – ज्ञानमेवेति ।। सामग््रयाः मोक्षे पुष्कलकारणस्य ज्ञानस्य । ‘भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते’ इति सूत्रस्यायमर्थः । तुः ज्ञानिनः प्रारब्धभोगे ‘उपमर्दं च’ इत्युक्तविशेषसूचकः । अथशब्दो नियमार्थः । इतरे प्रस्तुतानारब्धादन्ये प्रारब्धपुण्यपापे भोगेन क्षपयित्वा, अथ प्रारब्धपुण्यपापक्षपणादन्वेव, न तु ज्ञानोत्पत्त्यनन्तरमिव विलम्बेन ब्रह्म सम्पत्स्यते । एवं ब्रह्मद्विट् तम आप्नोतीति ।। स च क्षयः अभूदित्यन्वयः । जन्मान्तरप्राप्तिपदार्थानुवादः – शरीरान्तरारम्भ इति ।।

सप्त च तानि जन्मानीति विगृह्य ‘विशेषणं विशेष्येण’ इति समासे ‘सप्तजन्मसु’ इति स्यादित्यत आह– सप्तेति ।। तथा च ‘द्विगुरेकवचनम्’ इत्येकवचनं युक्तम् । ‘ऋन्नेभ्यो ङीप्’ इति ङीप् कस्मान्न भवतीति चेन्न । अदन्तत्वाभावेनास्त्रीत्वात् । ‘अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते’ इत्युक्तेः । अत एव ‘द्विगोः’ इति ङीबपि प्रत्यूढः । ‘अनो नलोपश्च वा द्विगुः स्त्रियाम्’ इत्यपि न भवति । अन्प्रत्ययान्तत्वाभावात् । ‘मत्प्रत्ययान्त एवायं जन्मशब्दः’ इति केषाञ्चिद् व्याख्यानममञ्जुलम् । ‘पञ्चकर्म पञ्चकर्मि’ इत्युदाहरणानुपपत्तेः । ‘नलोपश्च वा’ इति नलोपस्य वैकल्पिकत्वव्याख्यानं तु ‘नलोपस्तु नित्यमेव क्रियते’ इति कैयटविरोधा-दनादरणीयम् । अत्र ‘अनो नलोपश्च’ इति तु छान्दसत्वान्नाश्रितमिति भावेन टीकायां ‘सप्तजन्मनि’ इत्यनुवाद इति द्रष्टव्यम् ।।

भावदीपिका

ननु लक्षणप्रश्नपरिहारोपसंहारे विभाषणादिप्रश्नपरिहारस्यानुप-संहृतत्वान्न्यूनतेत्यत आह– किं प्रभाषेतेति ।। अर्थादिति ।। अन्यपरादपि तल्लाभ इत्युक्त-प्रकारेणेत्यर्थः । साक्षात् कण्ठत उक्त एवार्थो ह्युपसंहार्य इति भावः ।। अप्रकृतत्वादिति ।। इदंशब्दस्याव्यवहितपूर्वप्रकृतपरामर्शकत्वात्, पूर्वं च संन्यासो न प्रकृत इति भावः ।। तद्देहेति ।। यस्मिन् देहे ज्ञानमुत्पन्नं तद्देहेत्यर्थः ।। अन्यथेति ।। जन्मान्तराणि प्राप्य वेत्यर्थः । इदमुच्यते ‘स्थित्वाऽस्याम्’ इत्येतदुच्यते । यस्मिन् देहे ज्ञानमुत्पन्नं तद्देहत्यागसमय एव यदि ब्राह्म्यां स्थितौ स्थितो भवति, सम्यग् ब्रह्मज्ञानवान् भवतीति यावत्, तर्हि तद्देहपातानन्तरमेव ब्रह्म प्राप्नोतीत्यर्थः ।।

।। ज्ञानिन इति ।। ज्ञानरूपपुष्कलकारणवत इत्यर्थः । मोक्षं विनेति शेषः । सामग्र्याः ज्ञानरूपायाः ।। क्षीणमिति ।। तथाच ज्ञानप्रतिबन्धकं कर्मैव नास्तीति भावः ।। भोगेनेति ।। इतरे अप्रारब्धादितरे । आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पद्यते । अथेति नियमसूचक इति सूत्रार्थः । तथाच ज्ञानात् सर्वकर्मक्षय इत्याशयः । ननु ‘विशेषणं विशेष्येण बहुलम्’ इति सूत्रेण सप्त च तानि जन्मानि चेति कर्मधारयसमासे ‘सप्तजन्मसु’ इति भवेदित्यत आह– सप्तजन्मनीति ।। तथाच सप्तानां जन्मनां समाहार इति द्विगुसमासे ‘द्विगुरेकवचनम्’ इति एकवचने च सति ‘सप्तजन्मनि’ इति साधुरित्यर्थः ।।

भावप्रकाशः

 अध्यायार्थोपसंहारप्रतीतिनिरासायाह– प्रकरणमिति ।। अर्था-दिति ।। अन्यपरवाक्येन तल्लाभादिति भावः । विशेषणसमासे बहुवचनप्रसङ्गादाह– द्विगु-रिति ।। तथा च द्विगुरेकवचनमित्येकवचनं युक्तम् । न च ऋन्नेभ्य इति ङीप्प्राप्तिः । अदन्तत्वाभावेन स्त्रीत्वाभावात् अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्ट इत्युक्तेरिति भावः ।।

Load More