अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ।। ११ ।।

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ।। ११ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अथ सात्त्विकादिजीवस्वरूपज्ञापकं यज्ञ-त्रैविध्यमुच्यते– अफलाकाङ्क्षिभिरिति त्रिभिः । अफलाकाङ्क्षिभिः फलाभिलाषरहितैः पुम्भिः विधिदृष्टः शास्त्रचोदनया कर्तव्यतयाऽवगतः यो यज्ञः यष्टव्यमेव यज्ञानुष्ठानं कर्तव्यमेव । भगवत्प्रीत्युद्देशेन नान्यत् फलं साधनीयम् इति एवं मनः समाधाय एकाग्रं कृत्वा इज्यते यजिरत्र करणार्थः, क्रियते । विष्णौ मनः समाधाय सर्वयज्ञभोक्तृत्वेन इज्यमानदेवतान्तर्यामित्वेन विष्णुम् अनुसन्धायेति वा । सः यज्ञः सात्त्विकः सात्त्विकजीवस्वरूपज्ञापक उच्यते ।। ११ ।।