योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ।। ४१ ।।

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ।। ४१ ।।

भावरत्नकोशः

ज्ञानसाधनानुवादपूर्वं ज्ञानफलमुच्यते– योगेति ।। योगेन भगवानेव सर्वाणि कर्माणि करोतीति तत्पूजैवेति तस्मिन् संन्यस्तानि कर्माणि येन तं तथा ज्ञानेन तत्त्वावधारणेन संच्छिन्नः संशयः तत्त्वविषयकः येन तथा, आत्मवन्तं स्वामितया परमात्मवन्तं परमात्मभक्तम् । अनेन ‘आत्मा जीवश्चेत् स्वसम्बन्धोक्तिरयुक्ता अनुपयुक्ता च । परमात्मा चेत् सर्वेषामपि तद्वत्त्वसाम्यात् को विशेषो ज्ञानिनः?’ इति शङ्का निरस्ता । एवंविधं हे धनञ्जय कर्माणि न निबध्नन्ति ।। ४१ ।।