चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।। ३४ ।।

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।। ३४ ।।

भावरत्नकोशः

तदेव कुत इत्यत उक्तं– चञ्चलं हीति । सकलप्रमाणानुभव-सिद्धं तस्य चाञ्चल्यमिति द्योतयितुं हिशब्दः । प्रमाथि प्रमथनशीलं बलवत् विवेकेनाप्यजेयं दृढं विषयवासनाऽनुविद्धतया दुर्भेदम्, तस्य मनसो निग्रहं वायोरिव सुदुष्करं मन्ये इत्यर्जुनप्रश्नं स्वयमङ्गीकृत्य मनोनिग्रहोपायो भगवतोपदिश्यत इत्युच्यते भगवानुवाच– असंशयमिति । महाबाहो मनो दुर्निग्रहं स्वतः चलम् इत्यत्र असंशयम्, अर्थाभावेऽव्ययीभावः संशयाभावः । तथाऽपि अभ्यासेन विषयवैराग्येण च गृह्यते निगृह्यते । तुरेवार्थः ।। ३४ ।।