प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ।। ४५ ।।

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ।। ४५ ।।

भाष्यम्

नैकजन्मनीत्याह– प्रयत्नादिति।। जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेक-जन्मभिः संसिद्धोऽपरोक्षज्ञानी भूत्वा परां गतिं याति । आह च–

अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः ।

ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान् ।

विशेन्नारायणं देवं नान्यथा तु कथञ्चन’ इति नारदीये ।। ४५ ।।

भावप्रदीपिका

योगजिज्ञासूनामेव मोक्षश्चेत् किं योगेन ? तत्साध्यज्ञानेन च ? इत्याशङ्कोत्तरतयोत्तरश्लोकमवतार्य सप्रमाणकं व्याचष्टे– नैकेति ।। ४५ ।।

भावप्रकाशिका

न च योगजिज्ञासोरुक्तक्रमेण परब्रह्मावाप्तिः, तस्मिन्नेव जन्मनि ब्रह्मानवाप्त्या तदभावः शङ्कनीय इति भावेनोत्तरं श्लोकमवतार्य व्याचष्टे– नैकेति । ‘संसिद्ध’पदव्याख्या अपरोक्षज्ञानी भूत्वा इति । योगजिज्ञासोरुक्तक्रमेण परब्रह्मावाप्तिं पुराण-वाक्येन स्थापयति । अत आह– चेति ।। ४५ ।।

प्रमेयदीपिका

योगजिज्ञासामात्रेण परब्रह्मप्राप्तिश्चेद् योगानुष्ठानवैयर्थ्यं स्या-दित्यत एतदेवाशङ्क्य भगवतैवोत्तरं दत्तमित्याह– नैकेति ।। न योगजिज्ञासामात्रेणेत्यभिप्रायः । अत्र योगजिज्ञासोः अपरामर्शात् कथं तद्विषयमेतत्? इत्यतोऽध्याहारेण व्याचष्टे– जिज्ञासु-रिति ।। ज्ञात्वा ‘योगम्’ इति शेषः । ‘यातनानन्तरमनेकजन्मसंसिद्धः’ इत्यन्यथाप्रतीतिनिरसाय आह– एवमिति ।। योगे सम्पूर्णे संसिद्धेर्विलम्बे कारणाभावादिति भावः ।। व्याख्यातार्थे पुराणसम्मतिमाह– आह चेति ।। ४५ ।।

भावरत्नकोशः

‘योगानुष्ठानवैयर्थ्यम्’ इति कृतचोद्यं भाष्यभावोक्त्या परिहरति– न योगेति ।। ‘योगजिज्ञासोः’ इत्यत्रोक्तरीत्या षष्ठीति पक्षे, शेषषष्ठीति पक्षे च ‘षष्ठी’ इति समासः । ‘योगं जिज्ञासुः’ इति द्वितीयान्तत्वे ‘अन्नबुभुक्षुः’ इति भाष्यप्रयोग इव ‘श्रितादिषु गमिगाम्यादीनाम्’ इति वक्तव्यात् द्वितीयासमास इत्यप्याहुः । ‘प्रयतनादधिकं यतमानो योगी अनेकेषु जन्मसु संसिद्धः सन्’ इति सङ्करभाष्यं सङ्क्षेपेणानुवदति– यतनानन्तरमिति । अपव्याख्यां भाष्यभावोक्त्या प्रत्याख्याति– योग इति । संसिद्धेः अपरोक्षज्ञानस्य । व्याख्यातार्थे योग-जिज्ञासोरपि प्रणाडिकया ब्रह्मप्राप्तिरस्तीत्यर्थे ।।

योगजिज्ञासामात्रेण परब्रह्मप्राप्तिश्चेत्, योगानुष्ठानवैयर्थ्यं स्यादित्यत उच्यते– प्रयत्नादिति । योगं जिज्ञासुः ज्ञात्वा प्रयत्नं करोति । ‘प्रयत्नाद्यतमानः’ इत्यस्य ‘अधिकं प्रयत्नं कुर्वन्’ इत्यर्थ इति एके । ततो यत्नाद् योगी ध्यानयोगसम्पन्नः संशुद्धकिल्बिषः निर्धूतपापः अनेकजन्मभिः संसिद्धो अपरोक्षज्ञानी भूत्वा, ततः अपरोक्षज्ञानात् परां गतिं याति । न जिज्ञासामात्रेण, इत्यभिप्रायः

।। ४५ ।।

भावदीपिका

।। नैकजन्मनीति ।। भाष्यस्य ‘शब्दब्रह्मातिवर्तते’ इत्यन्वयः । ननु योगजिज्ञासामात्रेण परब्रह्मप्राप्तिश्चेत्, योगानुष्ठानवैयर्थ्यं स्यात् इत्येतदेवाशङ्क्य भगवता यद्युत्तरं दीयते, तर्हि ‘न योगजिज्ञासामात्रेणेत्याह’ इति भाष्यकारैर्वक्तव्यत्वेन ‘नैकजन्मनीत्याह’ इत्यसङ्गतं कथमुक्तमित्यतस्तदभिप्रायमाह– न योगेति ।। अत्र ‘प्रयत्नात्’ इति वाक्ये । अपरामर्शादिति ।। पूर्वश्लोके कर्तृत्वेनोक्तो योगजिज्ञासुः अत्र श्लोके कर्तृत्वेन न परामृश्यते, तत्परामर्शकशब्दाभावादिति भावः । अध्याहारेणेति ।। ‘प्रयत्नाद्यतमानस्तु’ इत्यनुवादादिति भावः । अत्र प्रयत्नशब्देन श्रवणं मननं ध्यानं चोच्यते । एवमितीति ।। एवमनेकजन्मभिः यज्जन्मनि योगजिज्ञासाप्रयत्नादिकं जातं तज्जनमारभ्यानेकजन्मभिः संसिद्ध इत्यर्थः । यतनानन्तरम् अनेकजन्मभिरित्यर्थः किं न स्यादित्यत आह– योग इति ।। श्रवणमननरूपप्रयत्नेन ध्याने परिपूर्णे सतीत्यर्थः । संसिद्धेः अपरोक्षज्ञानस्य । भाष्योदाहृते प्रमाणे ‘जिज्ञासुः’ इत्यनन्तरं ‘बहुभिर्जन्मभि-र्ज्ञात्वा’ इति योज्यम् । जिज्ञासाजन्मारभ्य बहुभिर्जन्मभिर्ज्ञात्वेत्यर्थः ।। ४५ ।।