प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ।। ७ ।।
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ।। ७ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु एवं प्रतिज्ञाता आसुरी सम्पदेव परिवर्जनाय आ अध्यायपरिसमाप्तेः प्रपञ्चेनोच्यते– प्रवृत्तिं च निवृत्तिं चेत्यादिना ।। आसुराः असुरस्वाभावाः जनाः प्रवृत्तिं यस्मिन् पुरुषार्थसाधने ज्ञानकर्मादौ कर्तव्या प्रवृत्तिः तां निवृत्तिं यस्माद् अनर्थहेतोः दम्भादेः निवर्तितव्यं सा निवृत्तिः, ताम्, चशब्दावितरेतरसमुच्चये । न विदुः न जानते । ‘प्रवृत्तिं विहिते, निवृत्तिं निषिद्धे’ इत्यध्याहरन्ति एके । प्रवृत्तिनिवृत्तिशब्दौ विधिनिषेधलक्षकौ । प्रवृत्तिनिवृत्तिधर्मार्थाविति अन्ये । नैतावदेव तेषु किन्तु शौचं बाह्याभ्यन्तरमलक्षालनम्, आचारः कर्माङ्गत्वेन शुद्धिप्रदो व्यापारः सत्यं यथार्थभाषणं च न विद्यते । प्रत्येकं नञोऽनुबन्धः सर्वथा परिवर्जनीयत्वे तात्पर्यद्योतनार्थः ।। ७ ।।