मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ।। २ ।।

श्री भगवानुवाच–

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।

श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ।। २ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– एवं सन्दिह्य कृतप्रश्नस्य ‘मदुपासका एवोत्तमाः’ इति परिहार उच्यते– भगवानुवाच– मयीति ।। ये मयि मन आवेश्य समाधाय नित्ययुक्ताः नित्योद्योगशालिनः परया उत्तमया श्रद्धया आस्तिक्यबुद्ध्या उपेताः सन्तो मामुपासते ते मे ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति षष्ठी, मम युक्ततमाः साधकतमाः मताः । अत्रापि ‘इति’ शब्दोऽध्याहार्यः ।। २ ।।