इदमद्य मया लब्धमिमं(दं) प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।। १३ ।।

इदमद्य मया लब्धमिमं(दं) प्राप्स्ये मनोरथम् ।

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।। १३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तेषां मनोराज्यं कथ्यते– इदमद्येत्यादिना ।। इदं धनादि अद्य इयता कालेनेति यावत् मया लब्धमिदम् अन्यत् मनोरथं मनोगतं मनस्तुष्टिकरं वस्तु प्राप्स्ये प्राप्स्यामि । ‘इमं प्राप्स्ये मनोरथम् इत्यपि पठन्ति । इदं च अद्य अस्ति इदमपि मे भविष्यति आगामिसंवत्सरे पुनर्धनम् ।। १३ ।।