सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ।। १४ ।।

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- इतिकर्तव्यताविशेषोक्त्या भजनमेवोच्यते– सततमिति ।। यतन्तः भगवज्ज्ञानाय प्रयतमानाः व्रतं नियमः । नित्ययुक्ताः सदा मय्येव मनोयोगसम्पन्नाः सन्तो मामुपासते ।। १४ ।।