नच मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ।। ९ ।।
नच मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ।। ९ ।।
भाष्यम्
उदासीनवत् न तूदासीनः । तदर्थमाह– असक्तमिति ।। ‘अवाक्यनादरः’ इति श्रुतिः । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ इति भागवते । यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः । ‘न कर्मणा वर्धते नो कनीयान्’ इति हि श्रुतिः । यः कर्माणि नियामयति कथं च तं कर्म बध्नाति ।। ९ ।।
भावप्रदीपिका
किं तत्सादृश्यम् ? इत्यतश्चतुर्थपादं सप्रमाणक-मवतारयति– तदिति ।। साक्षादौदासीन्यमेवार्थः किं न स्यात् ? इत्यत आह– द्रव्यमिति ।। अत्र यद्यकर्तृत्वं नाभिप्रायः, तर्हि कथं पूर्वोक्तकर्मालेपेनास्य सङ्गतिः इत्यत आह– यस्येति ।। भगवतोऽपि रामकृष्णादिरूपेण बन्धदर्शनात् कथं तस्य न कर्मबन्धः ? इत्येतत् श्रुत्युपपत्तिभ्यां दूषयति– नेति ।।
प्रमेयदीपिका
स्वतः कर्तृत्वे कथमुदासीनत्वमुच्यते? इति चेन्न । वतिना तस्य निषिद्धत्वादिति भावेनाऽह– उदासीनवदिति ।। अनुदासीनत्वेऽपि वतिर्व्यर्थः स्यात् । अन्यस्य तदर्थस्याभावादित्यत आह– तदर्थमिति ।। वत्यर्थं सादृश्यं स्वयमेव विवृणोतीत्यर्थः । परमेश्वरस्य कर्मसु सक्त्यभावे प्रमाणमाह– अवाक्येति ।। सर्वथोदासीन एवं किं न स्यात्? इति चेन्न । तथासति प्रकृत्यादी-नामसत्त्वप्रसङ्गादिति भावेनाऽह– द्रव्यमिति ।।
यदीश्वरस्य स्वतः कर्तृत्वं स्यात् तदा ‘उदासीनम्’ इत्येतत् ‘नच मां तानि कर्माणि निबध्नन्ति’ इत्यत्र कथं हेतुः स्यात्? इत्यत आह– यस्येति ।। असक्त्या अनादरेण । अनायासेनेति यावत् । भगवतोऽपि कर्मबन्धोऽस्ति इति केषाञ्चित् प्रलापो यथा ‘विष्णुर्येन’ इत्यादि । तन्निरासाय श्रुत्युपपत्ती प्राह– न कर्मणेति ।। नियामयति नियच्छति ।। ९ ।।
भावबोधः
।। विष्णुर्येनेति ।। ‘ब्रह्मा येन कुलालवन्नियमितो ब्रह्मण्ड-भाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे’ इति तद्वचनम् । नियच्छतीति स्वार्थिको णिजिति भावः ।। ९ ।।
भावदीपः
।। अवाक्येतीति ।। तदर्थस्तु सप्तमाध्याय उक्त इति भावः ।। यथा विष्णुर्येनेत्यादिरिति ।। ‘ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे’ इत्याह इत्यर्थः । स्वार्थे णिजिति भावेनाऽह– नियच्छतीति ।। ९ ।।
भावरत्नकोशः
।। स्वतः मायां विना । वतिना वतिप्रत्ययेन । तस्य उदासीनत्वस्य । ‘न तूदासीनः’ इति भाष्यभावोक्तिः– निषिद्धत्वादिति ।। अनुदासीनत्वेऽ-पीति ।। यथा स्वतो निष्क्रियत्वावेदनाय उदासीनशब्द इति पक्षे वतिर्व्यर्थ इत्यभिसंहितम्, तथा ‘अनुदासीनत्वमेवेश्वरस्येति सिद्धान्तेऽपि’ इत्यपेरर्थः । अन्यस्य प्रकृत्यर्थोदासीनत्वव्यति-रिक्तस्य । ‘तदर्हम्’ इत्यर्हार्थेऽपि वतिस्मरणात्, तस्य च ‘असक्तम्’ इत्यनेनाप्रतिपादनात् कथमेतत्् ? इत्यत उक्तम्– सादृश्यमिति ।। सादृश्यस्य वतिप्रत्ययार्थत्वाद् ‘असक्तम्’ इत्यनेन सादृश्योक्तौ पुनरुक्तिः इत्यत उक्तम्– विवृणोतीति ।। न विद्यते वाक्यमनुग्रहमन्तरेण यस्यासौ अवाक्यः । न विद्यत आदर आसक्तिर्यस्यासौ नादरः । अवाक्यश्चासौ नादरश्चेत्यवाक्यनादर इति भाष्ये श्रुत्यर्थः । ‘द्रव्यम्’ इति वचने द्रव्यं प्रकृत्यादि, स्वभावः प्रकृत्यादेः परिणामादिरित्यर्थः । कथं हेतुरिति ।। उदासीनवदासीनत्वं नाम कर्मस्वसक्तत्वमिति विवृतम् । कर्तृत्वस्य च स्वाभाविकत्वे सर्जनपालनादिकर्मण्यसक्तिशब्दितम् अकर्तृत्वं कथमेष्टव्यम् ? तथा चोदासीनत्वस्यासिद्ध्यापात इति भावः । कार्यकर्तृभावसम्बन्धस्यावर्जनीयत्वात् कथमसक्ति ? इत्यत उक्तम्– असक्त्याऽनादरेणेति ।।
ननु अनादरः तिरस्कारः, कर्मसु त्वरणाभावो वा । पक्षद्वयेऽपि भृत्यानुग्रहकातरत्वम् ‘जगद्रक्षाकेवलोद्योगिन’ इत्यादिशास्त्रावेदितं सकलजगत्सर्जनादिकर्मणि व्यापृतिमतस्तव देवदत्त-स्येव कर्मलेपः प्रसज्येत ? इत्यत उच्यते– न चेति ।। तानि कर्माणि जगत्सर्जनोप-संहरणादीनि न निबध्नन्ति । अत्र हेतुः– उदासीनवदासीनमिति ।। वस्तुतोऽनुदासीनोऽप्यहम् उदासीनसदृश आसे, तमित्यर्थः । किन्नामोदासीनसादृश्यं वतिना बोध्यं तव ? इत्यत उक्तम्– असक्तमिति ।। उदासीनस्य कर्मसु यथा सक्तिः आदर आयासो नास्ति तथा मम सर्वकर्म कुर्वतोऽपि तत्र सक्तिशब्दतात्पर्यगोचरायासो नास्ति । यस्य असक्त्यैव सर्वकर्मशक्तिः, कुतस्तस्य सर्वकर्मबन्ध इति भावः ।।
परमेश्वरस्य सर्जनपालनादिव्यापारशालित्वममञ्जुलं स्यात् इत्यत आह– अनायासेनेति यावदिति ।। आयासमन्तरा सर्जनपालनादिकर्मसमर्थत्वस्य ‘उदासीनवदासीनम्’ इत्यनेन बोध्यस्य हेतुत्वेन विवक्षितत्वान्नोक्तचोद्यावकाश इति ‘यस्य’ इति भाष्यहृदयमिति भावः । विष्णुर्येनेति ।।
‘ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ।।’
इति भर्तृहरिश्लोके प्रकृतोपयुक्तप्रतीकग्रहणमिदम् । ‘कनीयान् ‘भवति’ इति श्रुतौ शेषः । हेतुमण्यन्तत्वेन अस्य नियमनकर्तुरभावेन तन्निबन्धनकारयितृत्वायोग इत्यतः स्वार्थिकोऽत्र णिजिति भावेनाह– नियच्छतीति ।। ‘द्रव्यं कर्म च कालश्च’ इति शास्त्रादिति भावः । तं कर्मनियन्तारमिति भाष्येऽर्थः । न कर्म भगवतो बन्धकं तन्नियम्यत्वात् । यत्् स्वसत्ताप्रवृत्त्यादौ अन्याधीनं न तद्बन्धकम्, यथा भृत्यो राजाधीनो न राजबन्धक इत्युपपत्तिर्भाष्योक्तेति भावेन ‘श्रुत्युपपत्ती प्राह’ इति प्रागुक्तम् ।। ९ ।।
भावदीपिका
।। अन्यस्येति ।। अनुदासीनत्वातिरिक्तस्य वत्यर्थस्या-भावात् । तथा च कर्मसु सक्तेरेव प्राप्त्या ‘असक्तम्’ इत्येतद् विरुद्धं स्यादित्यर्थः । सादृश्य-मिति ।। नानुदासीनत्वं वत्यर्थः, किं तु सादृश्यमित्यर्थः ।।
भाष्ये न विद्यतेऽनुग्रहमन्तरेण यस्य वाक्यमित्यवाक्यः, न विद्यते आदरः आग्रहः आसक्तिर्यस्येति नादरः, अवाक्यश्चासौ नादरश्चेति अवाक्यनादर इत्यर्थः । ‘विशेषणं विशेष्येण बहुलम्’ इति बहुलग्रहणाद् विशेषणयोरेवात्र समास इति ज्ञातव्यम् । यद्यपि ‘न विद्यते आदर आश्चर्यबुद्धिर्यस्य इति नादरः’ इति तत्त्वप्रकाशिकायां व्याख्यातम् । तथाऽपि तस्यार्थस्य प्रकृतानुपयोगात् परित्याग इति ध्येयम् । कथं हेतुःस्यादिति ।। स्वतः कर्तृत्वाभावे हेतुत्वं स्पष्टमेवेति भावः । केषाञ्चित् मीमांसकानाम् । विष्णुर्येनेत्यादि ।।
‘ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ।।’
इति तद्वचनादित्यर्थः । स्वार्थे णिजिति भावेनाह– नियच्छतीति ।। ९ ।।
भावप्रकाशः
तदर्हमित्यर्हार्थेऽपि वतिस्मरणात् तस्य चासक्तमित्यनेन प्रतिपादनादाह– सादृश्यमिति ।। सादृश्यस्य वतिनोक्तत्वात् पुनरुक्तिरित्यत आह– विवृणो-तीत्यर्थ इति ।। कथं हेतुः स्यादिति ।। उदासीनवदासीनत्वं नाम कर्मासक्तत्वमिति व्याख्यातम् । कर्तृत्वे च जन्यजनकभावसम्बन्धप्राप्त्या सक्त्ययोगादसिद्धिप्राप्तेरिति भावः । यस्येत्यादि भाष्येऽसक्तेः हेतुविशेषणत्वाङ्गीकारान्नासिद्धिरिति बोध्यम् । ननु जन्यजनक-भावसम्बन्धसत्त्वात् कथमसक्त्येत्युक्तमित्यत आह– अनादरेणेति ।।
ननु ‘अनादरः परिभवः’ इत्यमरोक्तेरनादरस्तिरस्कारो वा आदराभावो वा उभयत्राप्य-सिद्धिः । ब्रह्मादिमोक्षार्थं सृष्ट्यादिकरणेन सृष्ट्यादिशक्तेः तिरस्कारपूर्वकत्वाभावात् । आदर-पूर्वकत्वाच्चेत्यत आह– अनायासेनेति यावदिति ।। यद्यप्यसक्त्येत्यस्यैवानायासेनेति व्याख्यानं कर्तंु शक्यम् । तथाप्यसक्तत्वे प्रागुदाहृतश्रुत्यनुसारायानादरेणेति व्याख्याय तत्फलितमिदमुक्तम् । विष्णुर्येनेत्यादीति ।। ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मण इतीत्यर्थः । ननु नियामयतीत्यस्य हेतुमण्ण्यन्तत्वे नियमनकारयितृत्वं लब्धं तन्न युक्तम् । अन्यस्य नियमनकर्तुरभावेन तत्प्रयुक्तकारयितृत्वायोगादित्यत आह– नियच्छतीति ।। स्वार्थिको णिजिति भावः ।। ९ ।।