अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।। ३६ ।।

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।। ३६ ।।

भावरत्नकोशः

किञ्च तवाहिताः शत्रवः अनेकप्रकारान् अवाच्यवादान् अवक्तव्यशब्दान् वदिष्यन्ति । कादृशाः? तव सामर्थ्यं पराक्रमं निन्दन्तः कुत्सयन्तः । ततो निन्दाश्रवणात् दुःखतरं नु किम्? न किमपि अतिशयितं कष्टम् ।। ३६ ।।