आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ।। ३९ ।।

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ।। ३९ ।।

भाष्यम्

शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेन आवृतं ज्ञानिनोऽपि । किम्वल्पज्ञानिनः?

भावप्रदीपिका

ज्ञानप्रतिबन्धकश्चेत् कामः, तर्ह्युत्पन्नापरोक्षज्ञानानां च तेन बाध इत्याशङ्क्य, उत्तरश्लोकं व्याचष्टे– शास्त्रत इति ।। ज्ञानिन एव न तु मूर्खस्येति यद्व्याख्यानं तत्प्रतीतिविरुद्ध-मित्यभिप्रायेण ‘ज्ञानि’पदकृत्यमाह– ज्ञानिनोऽपीति ।। अल्पज्ञानी लोकप्रवादोत्पन्नज्ञानः ।

भावप्रकाशिका

अतो न केवलं ज्ञानोत्पत्तिप्रतिबन्धकृत् कामः, किन्तूत्पन्नज्ञान-तिरस्कृदपीति भावेनोत्तरश्लोकं व्याचष्टे– शास्त्रत इति ।। ज्ञानपदं किमर्थमिति चेत्, कैमुत्यनयप्रदर्शनार्थमिति ब्र्रूमः । कामनिरोधे हि द्विधा ज्ञानमुत्पद्यते । कस्यचिन्महालोकप्रवादात्, अस्ति विष्णुः सर्वेश इति श्रद्धासहितः । अन्यस्य तदपि शास्त्राद् विपुलीकृतम् । स एव ज्ञानीत्युच्यते लोके, नेतरः । तत्र कामावृतत्वे ‘ज्ञानी’ इत्युक्तस्य शास्त्रविपुलीकृतज्ञानमपि न हर्यपरोक्षापादकं किम्वितरस्याल्पज्ञानिनः ? लोकप्रवादमात्रजनितं ज्ञानमल्पज्ञानम् । तद्वतः ।

अत्र कैमुत्यन्यायप्रदर्शनेन ‘ज्ञानिन एव नित्यवैरिणा न मूर्खस्य’ इति यदन्यथावर्णनं तदपि कैमुत्यन्यायपराहतमिति सूचयति । यः कामः कामं तिरस्कृत्य मुच्यमानस्य ज्ञानिनोऽपि नित्यवैरी इत्युच्यते, किमुतासौ स्वभावमग्नस्य मूर्खस्य नित्यवैरीति । न चायं मम वैरीति मूर्खेणादावविदिते न तस्य नित्यवैरी कामः । न हि रोगिणां ममायं वैरी इत्यविदितः चित्तस्य तात्कालिकेष्टापथ्यदो नावैरी इत्युच्यते ।।

प्रमेयदीपिका

एवं ज्ञेयज्ञानकारणज्ञातृप्रतिबन्धकत्वोक्त्या ज्ञानप्रतिबन्ध-कत्वमुक्तम् । ‘आवृतं ज्ञानम्’ इत्यनेन पुनः किमुच्यते? इत्यत आह– शास्त्रत इति ।। पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वमुक्तम् । इदानीं तु कथञ्चिज्जातमपि ज्ञानं न स्वकार्याय प्रभव-तीत्युच्यते । अतो न पुनरुक्तिदोष इति भावः ।।

कामकारेण चैके’ (ब्र.सू.३.४.१५) इति वचनादपरोक्षज्ञानस्य मोक्षसाधने न केनापि प्रतिबन्धः? इत्यत उक्तम्– शास्त्रत इति ।।‘परमात्मापरोक्ष्याय’ इति च ।। न प्रकाशते न प्रभवति । ‘ज्ञानिनः’ इति व्यर्थम् । ज्ञानस्य ज्ञानिसम्बन्धाव्यभिचारादित्यत आह– ज्ञानिनोऽपीति ।। शास्त्रजनितज्ञानवतोऽपि । अल्पज्ञानिनः गुरूपदेशमात्र-जनितज्ञानवतः ।।

भावरत्नकोशः

उत्तरश्लोकं सङ्गमयितुं वृत्तमनुवदति– एवमिति ।। ज्ञेयं च ज्ञानकारणं च ज्ञाता चेति विग्रहः । ज्ञेयं भगवत्स्वरूपं, ज्ञानकारणम् अन्तःकरणं ज्ञाता जीव इति विवेकः । पूर्वं ‘धूमेन’ इति श्लोके । अतः विषयभेदात् । इति वचनादिति ।। न अस-त्प्रवृत्त्या कुण्ठितत्वेन ज्ञानस्य मोक्षसाधनत्वाभावः प्रसज्यते । यतो यथेष्टाचारेणापि ज्ञानिनो मोक्षमेके शाखिनः पठन्तीति सूत्रवचनाद् अपरोक्षज्ञानस्य मोक्षनिष्पादनेऽसत्प्रवृत्त्यादिना केनापि प्रतिबन्धो नास्तीत्यावेदनेन अत्र कथं कामेन प्रतिहतस्य स्वकार्याक्षमत्वमुच्यते? इति शङ्कार्थः । इति चेति ।। उत्पन्नमपि ज्ञानं स्वकार्याक्षममित्युक्ते ज्ञानशब्देन शास्त्रजनिता-परोक्षज्ञानमेवाभिप्रेतम् । ‘स्वकार्य’ इत्यत्रापि कार्यशब्देन अपरोक्षज्ञानमेव विवक्षितमिति नोक्तसूत्रविरोध इति भावः ।

प्रकाशरूपं ज्ञानं प्रकाशत इत्ययुक्तमित्यतो व्याचष्टे– न प्रभवतीति ।। न समर्थं भवतीत्यर्थः । व्यर्थमिति । ‘सम्भवव्यभिचाराभ्यां स्याद् विशेषणमर्थवत्’ इति वचनादिति भावः । ‘ज्ञानिनः’ इति ‘अल्पज्ञानिनः’ इति च को विवक्षित इति न ज्ञायते । अतः पदद्वय-विवक्षितार्थं दर्शयति –शास्त्रेति । शास्त्रश्रवणमननावृत्तिजनितज्ञानसम्पन्नस्येत्यर्थः । गुरूपदेश-मात्रेति ।। श्रवणमात्रजनितज्ञानवत इत्यर्थः । श्रवणादिरूपः ‘विष्णुः सर्वेश्वर इति योऽयं सद्गुरूपदेशः’ स उच्यते । गुरूपदेशमात्रमिति केचित् । ‘लोकप्रवादमात्रजनितं ज्ञानमल्पज्ञानम् । तद्वत’ इति तु प्राचीनटीका । ‘अल्पज्ञानी लोकप्रवादोत्पन्नज्ञानः’ इति भावप्रदीपिका

 च ।

भावदीपिका

ज्ञेयः परमात्मा । ज्ञानकरणम् अन्तःकरणम् । ज्ञाता जीवः । ज्ञानेति ।। उत्पत्स्यमानेत्यर्थः । उक्तमिति ।। अर्थादित्यर्थः । ज्ञेयादिसापेक्षत्वाद् ज्ञानस्य तत्प्रतिबन्धे तत्प्रतिबन्धस्यापि लाभादिति भावः । कामकारेण चैक इति ।। ‘कामचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमतिसृज्याथ परात् परमीयुरनारम्भणम्’ इति सूत्रार्थः । तथा च जातमपि विज्ञानं कामेनाऽवृतं सत् स्वकार्याय न प्रकाशते न प्रभवतीत्येताव-त्येवोक्तेऽपरोक्षज्ञानस्यापि मोक्षरूपकार्यजनने प्रतिबद्धत्वप्राप्त्या सूत्रविरोधः स्यादिति भावः । शास्त्रत इति ।। तथा च ज्ञानपदेन परोक्षज्ञानम्, स्वकार्यपदेन चापरोक्षज्ञानं विवक्षितमिति न तद्विरोध इति भावः ।। न प्रभवतीति ।। न समर्थं भवतीत्यर्थः ।

भावप्रकाशः

कामकारेणेति ।। नासत्प्रवृत्या कुण्ठितत्वेन ज्ञानस्य मोक्ष-साधनत्वाभावः प्रसज्यते । यतो यथेष्टाचारेणापि ज्ञानिनो मोक्षमेके शाखिनः पठन्तीति सूत्रार्थः । गुरूपदेशमात्रजनितेति ।।

आचार्यात्पादमादत्ते पादं शिष्यः स्वबुद्धितः ।

पादं सब्रह्मचारिभ्यः पादं व्याख्यानकौशलात् ।।

इत्युक्तेश्चतुर्भिः प्रकारैः शास्त्राज्ज्ञानं जायते । तत्र द्वितीयादिप्रकारव्यावृत्त्यै मात्रेत्युक्तम् । अनेन प्रकारचतुष्टयेनापि शास्त्रजन्यं ज्ञानं प्रागभिप्रेतिमति सूचयति । यद्वा शास्त्राभ्यास-जनितज्ञानं प्रागभिप्रेतम् । शास्त्राभ्यासश्च श्रवणमननरूपः । अत्र च श्रवणमात्रजनितं ज्ञानं विवक्षितमिति मन्तव्यम् ।

Load More