ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ।। २२ ।।
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ।। २२ ।।
भाष्यम्
सन्न्यासार्थं कामभोगं निन्दयति– ये हीति ।।
भावप्रदीपिका
यद्यपि योगधर्मः संन्यासः । तथाऽप्यावश्यक एवेत्यभिप्राये-णोत्तरश्लोकमवतारयति– संन्यासार्थमिति ।। २२ ।।
भावप्रकाशिका
ध्यानं समाधिश्च मानसं कर्म । अतः कर्मयोग एव वरः संन्यासादित्युक्तं भवति । तथाऽपि महाफलसाधनज्ञानाङ्गत्वेनावश्यकर्तव्यः सन्यास इति भावेन तत्प्रतिकूलं निन्दयतीत्याह– संन्यासार्थमिति ।। २२ ।।
प्रमेयदीपिका
ननूत्तरश्लोके सन्न्यासादित्रितयान्तर्गतं न किञ्चिदुच्यत इत्यत आह– सन्न्यासार्थमिति ।। निन्दयति इति स्वार्थे णिच् । सन्न्यासार्थिनेति वा ।। २२ ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। निन्दयतीति स्वार्थे णिजिति ।। बहुलमेतन्निदर्शनमिति वचनादिति शेषः ।।
भावदीपः
।। त्रितयेति ।। सन्न्यासयोगब्रह्मध्यानरूपत्रितयान्तर्गतमित्यर्थः । प्रयोजककर्तर्येवायं णिजिति मध्ये कर्त्रन्तरमाह– सन्न्यासार्थिनेति ।। कामादित्यागार्थिना पुरुषेणेत्यर्थः ।। २२ ।।
भावरत्नकोशः
‘संन्यासादि’ इत्यत्रादिशब्देन योगज्ञाने ग्राह्ये । ‘णिदि कुत्सायाम्’ इत्यस्य कर्तरि ‘निन्दति’ इति रूपम् । तत्कथं निन्दयतीत्युक्तमित्यत आह– निन्द-यतीति ।। स्वार्थ इति ।। ‘बहुलमेतन्निदर्शनम्’ इत्युक्तेरिति भावः । प्रयोजकव्यापारे णिजुत्पाद-नेऽपि न दोष इति भावेनाह– संन्यासार्थिनेति वेति ।। संन्यासार्थी कामभोगं निन्दति, तं प्रेरयति संन्यासार्थिना क्रियमाणां निन्दां स्वयमनुवदतीत्यर्थ इति भावः ।। २२ ।।
गीताश्लोकद्वयाक्षरार्थस्तु संन्यासार्थं कामभोगो निन्द्यते– ये हीति ।। ये संस्पर्शजाः विषयसम्बन्धसम्भवाः भोगाः सन्ति ते दुःखयोनयः दुःखहेतवः दुःखोदर्का एव । कुतः । हि यतः आद्यन्तवन्त उत्पत्तिविनाशवन्तः बुद्बुदा इव अतिफल्गव इति यावत् । अतो बुधः ज्ञानी तेषु कामभोगेषु न रमते सक्तिं न करोति ।। २२ ।।
भावदीपिका
।। आहेति ।। तदुपयोगिकथनेन संन्यासकथनपरत्वमेवेत्याशयेना-हेत्यर्थः ।। २२ ।।
भावप्रकाशः
।। स्वार्थे णिजिति ।। बहुलमेतन्निदर्शनमित्युक्तेरिति भावः । प्रयोजकव्यापारे णिच्पक्षेऽपि नानुपपत्तिरिति भावेनाह– सन्न्यासार्थिनेति वेति ।। यथा भागवतादौ सूताद्युक्तं शुकादिरनुवदति तथा सन्न्यासार्थिकृतां निन्दां गीताचार्योऽनुवदति । ततश्च भगवान् सन्न्यासार्थिनां कामभोगं निन्दयतीत्युपपन्नमिति भावः ।। २२ ।।