अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। २४ ।।
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। २४ ।।
भाष्यम्
ज्योतिः अर्चिः । ‘ते अर्चिषमभिसम्भवन्ति’ इति हि श्रुतिः । तथाच नारदीये ‘अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम्’ इति । अभिमानि-देवताश्चाग्न्यादयः । कथमन्यथा ‘अह्न आपूर्यमाणपक्षम्’ इति युज्यते?
‘दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि’ इति ब्राह्मे ।
भावप्रदीपिका
‘ज्योतिः’ शब्दार्थं सप्रमाणकमाह– ज्योतिरिति । अहःप्राप्तेः पूर्वमर्चिःप्राप्तिनियमादत्राहरधस्तादुक्तज्योतिरर्चिरेवेत्यर्थः । नन्वस्त्वग्न्यादिश्रवणादादिपदम् । देवतापदं व्यर्थम् । अत्राश्रवणादित्येतत्सप्रमाणकं परिहरति– अभिमानीति ।
प्रमेयदीपिका
ज्योतिश्शब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह– ज्योति-रिति ।। अभिसम्भवन्ति प्राप्नुवन्ति । श्रुतिपुराणयोरह्नः प्रागर्चिषः प्राप्तेरुक्तेः तत्समाख्या-नादित्यर्थः । प्रातीतिक एवार्थः किं न स्यात्? कुतोऽभिमानिदेवताग्रहणम्? इत्यत आह– अभिमानीति ।। आदिशब्दसमर्थनेन सह समुच्चयार्थश्चशब्दः । अन्यथा मरणकाल-परिग्रहे । इति ‘श्रुतिः’ । उपलक्षणमेतत् । ‘अहः शुक्लः’ इति गीताऽपि । अहोरात्र-व्यतिरिक्तपक्षाभावाद् इति भावः । समाख्यानाच्चैवमित्याह– दिवादीति ।।
भावदीपः
चशब्दसमुच्चयाप्रतीतेराह– आदिशब्देति ।। ‘अग्न्यादेः’ इति भाष्ये आदिपदोपात्तज्योतिःशब्दस्य अर्चिरर्थकत्वं यच्छ्रुतिपुराणाभ्यां समर्थनं कृतं तेनेत्यर्थः । यद्वा ‘अग्न्यादेः’ इत्यादिपदेन अह्नः प्राक् अर्चिषः प्राप्तेः श्रुतिपुराणाभ्यां समर्थनेनेत्यर्थः ।। अन्यथा इत्यनुवादः, मरणकालपरिग्रहे इति व्याख्या । इतिपदानुवादपूर्वं शेषमाह– इति श्रुतिरिति ।। एतदिति ।। भाष्यमित्यर्थः । गीताऽपीति ।। ‘कथं युज्यते’ इत्यनुषङ्ग इति भावः ।।
भावरत्नकोशः
।। अनेकार्थत्वादिति ।।
‘ज्योतिरात्मनि सूर्येऽग्नौ हविर्होमार्चिदीप्तिषु ।
ग्रहनक्षत्रतारासु नक्षत्रे च विशेषतः ।।
विलोचने धने पुत्रे सामभेदेषु केषुचित् ।
ज्योेतिष्टोमाख्ययज्ञे च क्लीबं दीप्तौ तु वा स्त्रियाम् ।।
पुंनपुंसकलिङ्गस्तु ज्योतिष्टोमे मतो मम ।।’
इति केशवाभिधानादिति भावः । ‘अर्चिषम्’ इति श्रुतिपदं ‘ज्वालाभासोर्नपुंस्यर्चिः’ इत्यत्र ‘पुंसि न’ इति निषेधात्, स्त्रियां नपुंसके च वर्तत इति व्याख्यानात्, स्त्रीलिङ्गमपीति स्फुटत्वाद-व्याख्याय, ‘अभिसम्भवन्ति’ इति पदमनूद्य व्याचष्टे– अभिसम्भवन्तीति । प्राप्त्यर्थस्यापि भवतेरात्मनेपदाभावः छन्दस्त्वादिति भावः । तत्समाख्यानात् ‘अत्रापि ज्योतिःशब्दः अर्चिरर्थकः’ इति शेषः । आदिशब्दसमर्थनेन ‘काल इत्युपलक्षणम्’ इत्यादिरूपेण । भाष्ये अग्न्यादयः ‘ग्राह्याः’ इति शेषः । भाष्ये ‘इति’ इत्यतः परं शेषमाह– इति श्रुतिरिति । ‘आपूर्यमाणपक्षम्’ इति श्रौतपदस्य ‘शुक्लपक्षम्’ इत्यर्थः ।
एतत् श्रुतिग्रहणम् । गीताऽपि ‘कथं युज्यते’ इत्यन्वेति । ‘दिवादि’ इति वचने देवता-पदप्रयोगाद् अग्न्यादयोऽभिमानिदेवता ग्राह्या इति भावः । ‘अर्चिरादिना तत्प्रथितेः’ इति सूत्रभाष्यादौ अर्चिःप्राप्तेः प्रथमत्वावगमाद्, अत्राग्निप्राप्तिः कथं प्रथमोच्यते ? इति शङ्का,
‘उत्क्रान्तस्तु शरीरात् स्वाद् गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽऽतिवाहिकः ।।
ततोऽहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा ।
तटितं वरुणं चैव प्रजापं सूर्यमेव च ।।
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ।।’
इति भाष्योदाहृतवचने अग्नेः सोमादनन्तरप्राप्यत्वावेदनात् कथं प्रथमप्राप्यत्वोक्तिः ? इति शङ्का च,
‘अग्निर्ज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः ।
अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ।।’ इति,
‘एकस्मिंस्तु पुरे संस्थो द्विरूपोऽग्नेः सुतो महान्’
इति भाष्योदाहृतवचनेन , ‘अग्निं प्राप्य ततश्चार्चिः ततश्चाप्याहरादिकम्’ इति, अत्र वचनेन च, अर्चिष एवाग्निर्ज्योतिर्नामकरूपद्वयमङ्गीकृत्य, अग्निशब्दस्य प्रधानाग्निपुत्रवाचकत्वमभ्युपगम्य च परिहृता । स्पष्टं चैतत् तत्त्वप्रकाशिकायाम् ।।
भावदीपिका
।। श्रुतीति ।। ‘तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः’ इति श्रुतिशेषेऽभिहितत्वादिति भावः । प्रातीतिक एवेति ।। कालप्रतिपादनरूप इत्यर्थः । नन्वग्न्यादिशब्दानाम् अर्थान्तरस्यानुक्तत्वात् कथं चशब्दः ? इत्यत आह– आदिशब्देति ।। ‘यत्कालाद्यभिमानिदेवताः’ इत्यत्रत्यादिशब्दसमर्थनम्, ‘काल इत्यपलक्षणम्’ इत्यादिना कृतम् । इदानीं त्वग्न्यादिशब्दानाम् अभिमानिदेवतापरत्वसमर्थनं क्रियत इति आदिशब्दसमर्थनेन सहास्य समुच्चयार्थश्चशब्द इत्यर्थः ।।
भावप्रकाशः
।। अनेकार्थत्वादिति ।। ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्था-ध्वरात्मसु इति कोशादिति भावः ।। नन्वग्न्यादिशब्दानामर्थान्तरस्यानुक्तेः कथं देवताश्चेति चशब्द इत्यत आह– आदिशब्देति ।। यत्कालाद्यभिमानिदेवतेति भाष्ये आदित्याभिमानि-देवतेति चोक्तम्। तत्रादिशब्दसमर्थनं काल इत्युपलक्षणमित्यादि भाष्येण कृतम् ।अधुना अभिमानिदेवतेत्येतत् समर्थ्यते ।अतस्तत्समुच्चयार्थः चशब्द इत्यर्थः ।। गीतापीति ।। कथं युज्यत इति योज्यम् ।।