भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।। ४४ ।।

भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।। ४४ ।।

भाष्यम्

तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिः समाधौ समाध्यर्थे न विधीयते । सम्यङि्नर्णीतार्थानां हीश्वरे मनस्समाधानं सम्यग्भवति । तद्धि मोक्षसाधनम् । उक्तं चैतदन्यत्र ।।

न तस्य तत्त्वग्रहणाय साक्षाद्

वरीयसीरपि वाचः समासन् ।।

स्वप्ने निरुक्त्या गृहमेधसौख्यं

न यस्य हेयानुमितं स्वयं स्यात्’ (भाग.५.११.३) इति ।। ४४ ।।

भावप्रदीपिका

व्यवसायात्मिका’ इति योजयति तेषामिति ।। सम्यग्युक्तिनिर्णयात्मिकाऽपि न भवति । तत एव न समाध्यर्थे विधीयते । सम्यग्युक्तिनिर्णयाभावे कुतो न समाधिः? इत्याशङ्कां ‘समाधि’पदार्थं वदन्नेव परिहरति सम्यगिति । माऽस्त्वीश्वरे मनःसमाधानं, किं तेन? इत्यत आह– तद्धीति ।। सम्यग्युक्तिनिर्णयाभावे न समाधिरित्यत्र प्रमाणमाह– उक्तं चेति ।। ४४ ।।

भावप्रकाशिका

एवमवैदिकत्वात् तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिर्भगवता न क्रियत इत्याह– तेषा-मिति ।। सम्यङ्निर्णयस्य समाधानकारणत्वं प्रसिद्धमित्याह– सम्यङ्निर्णीतार्थानां हीति ।। भगवत्प्रसाद एव सर्वपुरुषार्थदः, अन्यत् सर्वं तदर्थमिति निर्णये, तत्रैव मनः समाहितं भवति, अन्यथाऽन्यत्र धावतीति प्रसिद्धमिति भावः । तत्समाधानमेव मोक्षसाधनमित्येतदपि प्रसिद्ध-मित्याह– तद्धीति ।। अन्यथाऽन्यकरणात् पुनर्बन्धवृद्धेरिति भावः । न केवलं युक्तिप्रसिद्धमेव तदुभयमित्याह– उक्तं चेति ।। गृहमेधसौख्यमित्युपलक्षणम् । यस्य पुंसो भगवतोऽन्यद्य-त्किञ्चिदपि तत्सेवाङ्गत्वं विनोपादेयत्वबुद्धिगोचरः तस्य वरीयस्यो वेदादिवाचोऽपि तत्त्वं न ग्राहयन्ति, अतोऽसावन्यत्र धावति । कुरुते च तदर्थानि कर्माणि बन्धायेत्यर्थः ।। ४४ ।।

प्रमेयदीपिका

तयाऽपहृत’ इत्यादेरप्रतीतिनिरासायार्थमाह– तेषामिति ।। तेषां बुद्धिः मनोवृत्तिः व्यवसायात्मिका सम्यग्युक्तिनिर्णयात्मिका न भवति । तत एव ईश्वरे सम्यक् समाधानार्थं न विधीयते इत्यर्थः । सम्यग्युक्तिनिर्णयात्मकत्वाभावे कुतः समाध्यभावः? इत्यत आह– सम्यगिति ।। अनेन समाधिशब्दार्थोऽपि विवृतो भवति ।। किमीश्वरे मनस्समाधानेन? येन तदभावो निन्दा स्यादित्यत आह– तद्धीति ।। मोक्षाभावश्च महानिन्देति वक्ष्यति ।।

सम्यङ् निर्णीतार्थानाम्’ इत्युक्तं न केवलमानुभाविकम् । किन्तु पुराणेऽप्युक्तमित्याह– उक्तं चेति ।। वरीयसीः वरीयस्यः । ‘सुपां सुलुक्’ (पा.सू.७.१.३९) इत्यादिना जसः पूर्व-सवर्णः । वाचः वेदवाचः । स्वप्ने निरुक्त्या स्वप्नप्रतीतार्थदृष्टान्तेन हेयानुमितं हेयत्वेनानुमितम् । इदमेव हि सम्यङि्नर्णीतार्थत्वं यद् हेयोपादेयविवेकेन हेयहानम् उपादेयोपादानं च । ‘तद्धि मोक्षसाधनम्’ इत्येतत्तु श्रुत्यादिप्रसिद्धमेव ।। ४४ ।।

भावदीपः

वक्ष्यतीति ।। मोक्षस्य सर्वातिशयितसुखरूपत्वोक्त्या ‘मग्नस्य हि परेऽज्ञाने’ इत्याद्युक्त्या ‘अशान्तस्य कुतः सुखम्’ इत्यनेनेति भावः । सम्यङि्नर्णीतार्थानां ‘हि’ इत्याद्यर्थे प्रमाणोक्ति-रिव ‘तद्धि मोक्षसाधनम्’ इत्युक्तेऽर्थे कुतो न प्रमाणोक्तिः? इत्यत आह– तद्धि मोक्षेत्यादि ।। ईश्वरे मनस्ससमाधानं तच्छब्दार्थः ।। ‘तस्याभिध्यानाद्योजनात्’ (श्वेत.उ.१.१०) इत्यादि श्रुतिस्मृतिप्रसिद्धमेव । अतो न तत्र प्रमाणोक्तिरिति भावः ।। ४४ ।।

वाक्यार्थप्रदीपः

ननु वरीयसीरिति कथम् । वरीयस्य इति भवितव्यम् । न च ‘प्रथमयोः पूर्वसवर्णः’ इति जसः पूर्वसवर्णत्वे वरीयसीरिति सिद्ध्यतीति वाच्यम् । ‘दीर्घाज्जसिच’ इति जसि इचि च परे पूर्वसवर्णनिषेधादित्यत आह– सुपां सुलुगित्यादिनेति ।। तथा च च्छन्दसि विषये दीर्घाज्जसि चेत्यनेन निषिद्धस्य पूर्वसवर्णस्य पुनर्विधानात् इतिहासपुरणः पञ्चमो वेदानां वेद इति पुराण-स्यापि च्छन्दस्त्वाद्युक्तस्तत्र पूर्वसवर्णदीर्घ इति भावः ।।

भावरत्नकोशः

आपाततोऽर्थानवबोधादाह– अप्रतीतीति ।। ‘बुध्यतेऽनयेति बुद्धिर्वाक्’ इति प्राग् भाष्ये व्याख्यानादत्र तत्परत्वं न मन्तव्यमिति व्याख्याति– बुद्धिर्मनोवृत्तिरिति ।। भाष्ये व्याख्येयं समर्पयति– व्यवसायात्मिकेति ।। युक्तिशब्देन प्रमाणसामान्यमुच्यत इत्युक्तत्वात् परीक्षित-प्रमाणनिर्णीतार्थविषयिणीति । भाष्ये नञाकर्षणेन वाक्यान्तरत्वं ज्ञातव्यमिति भावेनाऽह– सम्यग्युक्ताति ।। तत एवेति ।। अव्यवसायात्मकत्वादेव । अनेन ‘मनस्समाधानम्’ इति भाष्येण । ‘समाधौ’ इति गीतास्थसमाधिशब्दः समाधानार्थक इति व्याख्यात इत्यर्थः । उक्तशङ्कानिराससमुच्चयार्थोऽपिशब्दः । तदभावः मनस्समाधानाभावः । तदभावे कथं निन्देत्यत आह– मोक्षाभावश्चेति ।। ईश्वरे मनस्समाधानं तावन्मोक्षसाधनम् । ‘मनस्संयम्य मच्चित्तो युक्त आसीत मत्परः’ इति मनस्समाधानस्य ‘शान्तिं निर्वाणपरमाम्’ इति मोक्षसाधनत्वस्य वक्ष्यमाणत्वात् । साधनाभावे च साध्याभावो नियतः । मोक्षाभावश्च

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

 मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’

इति षोडशे निन्दित इति मोक्षाभावो निन्देति वक्ष्यतीत्यर्थः । ‘प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः’ इत्यादिना बहुप्रकारेण निन्दनान्महानिन्देत्युक्तम् । ‘कृपणाः फलहेतवः’ इत्यत्र वक्ष्यतीत्यन्ये । सर्वातिशयितसुखरूपस्य मोक्षस्याभावाङ्गीकारे परे अज्ञाने मग्नस्य तस्य चेतनस्य दुःखतरं दुःखातिशयो न भवेत् किम्? भवेदेवेति ।।

मग्नस्य हि परेऽज्ञाने किं नु दुःखतरं भवेत्’ इति भाष्यकारो निन्दां वक्ष्यत्यस्मिन्नेवाध्याय इति तु स्वामिनः । ‘उक्तं चैतत्’ इति भाष्ये एतच्छब्देन मोक्षसाधनपरामर्शे पुराणे तदनुक्ते-र्व्यवहितवाक्योपात्तस्य मनस्समाधानं सम्यग् भवतीत्यस्य परामर्श इति भावेनाऽह– सम्यगिति ।। न केवलमिति चशब्दार्थः । आसन्निति क्रियां प्रति कर्तृसमर्पकं वाच इति पदम् । अन्यस्यादर्शनात् । वरीयसीरिति तु द्वितीयाबहुवचनान्तं कथं तद्विशेषणमिति तत्राऽह– वरीयसीरिति ।। अपौरुषेयतया निर्दोषतया प्रशस्ता इत्यर्थः । अलाक्षणिकमिति शङ्कां परिहरति– सुपामिति ।। ‘सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजालः’ इति सूत्रस्य सुपां स्थाने एते आदेशाः स्युरित्यर्थः । तथा च वाच इति प्रथमान्तविशेषणत्वमुपपद्यत इति भावः । हेयत्वेनानुमानमिति ।। गृहमेधिसौख्यं हेयम् । आशुतरविनाशित्वात् । स्वप्नप्रतीतार्थ-वदित्यनुमितमित्यर्थः । पुराणे सम्यङ्निर्णयस्य मोक्षसाधनत्वमित्यर्थो न प्रतीयत इत्यतस्तदुप-दर्शनार्थमाह– इदमेव हीति ।। तद्धि हेयहानमुपादेयोपादानं च । हिशब्दार्थविवरणम्– श्रुत्यादिप्रसिद्धमिति ।।

तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’ इत्यादिप्रमाण-प्रसिद्धमेवेत्यर्थः । तद्धि ईश्वरे मनस्समाधानं । ‘तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः’ इत्यादिप्रमाणे मोक्षसाधनं प्रसिद्धमेवेत्यर्थः । तथा च सम्यग् युक्तिनिर्णीतार्थानां हीश्वर इत्याद्यर्थे ‘न तस्य तत्त्वग्रहणाय’ इति प्रमाणोपन्यास इव ईश्वरे मनस्समाधानं मोक्षसाधनमित्यत्र किमिति न प्रमाणोपन्यास इति चोद्यानवकाश इति भाव इति तु स्वामिनः ।।

गीताक्षरार्थस्तु– नन्वस्त्ववैदिकमतानामप्रामाणिकत्वेन तत्राश्वासायोगः । व्यवसायात्मकं मतं वैदिकमवलम्बमाना अपि केचिद् वैदिकानि सर्वाण्येव कर्माणि स्वर्गादिफलान्याहुः । भवांस्तु कामार्थान्येव स्वर्गादिफलानि निष्कामानीश्वरार्पणबुद्ध्याऽनुष्ठितानि तु ज्ञानार्थानी-त्यभिप्रैति । तथा च त्वद्वचने निष्ठानुपपत्तिस्तदवस्थेति शङ्कित्वा तेषां वैदिकाभासताप्रदर्शनाय निन्दा क्रियते– यामिमामित्यादिश्लोकत्रयेण ।।

वेदवादरताः वेदैः यन्मुखत उच्यते आपाततः प्रतिपाद्यते कर्मादि तत्रैव रताः नान्यदस्तीति वादिनः आपाततः प्रतीतार्थादन्यार्थो मोक्षब्रह्मस्वरूपादिरूपोऽर्थो नास्तीति वादनशीलाः । कुतः? अविपश्चितः वेदतात्पर्यार्थानभिज्ञानिनः । कामात्मानः काम्यफलासक्तमनस्काः । स्वर्गः परः परमपुरुषार्थो येषां ते तथा । जन्मकर्मफलप्रदां बहुसंसारफलदामित्यर्थः । क्रियाविशेषबहुलां सन्ततकर्मविशेषप्रतिपादिकाम्, यामिमां पुष्पितां सञ्जातपुष्पाम्, मोक्षापेक्षयाऽल्पत्वेन पुष्पोपम-स्वर्गादिफलप्रतिपादिकां वाचं वेदात्मिकां भोगैश्वर्यगतिं तत्प्राप्तिं प्रति प्रवदन्ति । भोगाना-मैश्वर्याणां च प्राप्तिमुद्दिश्यैव वेदाः प्रवर्तन्त इति वदन्तीत्यर्थः । तया वाचा अपहृतचेतसां भोगैश्वर्यप्रसक्तानां तत्रासक्तचित्तानां व्यवसायात्मिका सम्यक्प्रमाणनिर्णीतार्थनिश्चयरूपा बुद्धिः समाधौ समाध्यर्थे न विधीयते । सम्यङ्निर्णीतार्थानां हीश्वरे मनस्समाधानं मोक्षसाधनं सम्यग् भवति । नान्येषामिति ।। ४२–४४ ।।

भावदीपिका

पूर्वं बुद्धिशब्देन करणव्युत्पत्त्या वाचो गृहीतत्वादत्रापि तत्परत्वभ्रान्तिं वारयति– बुुद्धि-र्मनोवृत्तिरिति ।। ज्ञानमिति यावत् ।। सम्यग्युक्तिनिर्णयात्मकेति ।। समीचीनप्रमाण-निर्णीतार्थविषयिणीत्यर्थः ।। अनेनेति ।। ‘मनस्समाधानम्’ इतिवचनेनेत्यर्थः । ईश्वरे मनस्समा-धानस्य मोक्षसाधनत्वेऽपि तदभावस्य कथं निन्दात्वमित्यत आह– मोक्षाभावश्चेति ।। ईश्वरे मनस्समाधानं तावन्मोक्षसाधनत्वेन श्रुत्यादिप्रसिद्धम् । तत्रेश्वरे मनस्समाधानानङ्गीकारे च मोक्ष एवानङ्गीकृतप्रायः स्यात् । मोक्षाभावाङ्गीकारश्च महानिन्देत्याशयः । भाष्ये ‘उक्तं च’ इत्यत्र तद्धि मोक्षसाधनमित्येतत्परामर्शे प्रमाणेऽस्यार्थस्य प्रतिपादनादर्शनाद् व्याचष्टे– सम्यगित्या-दिना ।। उक्तं चेत्यत्रत्यचशब्दार्थमाह– न केवलमिति ।।

ननु वरीयसीत्यस्य वाग्विशेषणत्वाद् ‘वरीयस्यः’ इति भवेत् । वरीयसीरिति द्वितीया-बहुवचनं कथुमित्यत आह– वरीयसीरिति ।। सुपामिति ।। ‘सुपां सुलुक् पूर्वसवर्णाच्छेया-डाड्यायाजालः सुश्च लुक् च पूर्वसवर्णश्च आ च आत् च शे च या च डा च ड्या च याच्च आल् च ते सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल इति इतरेतरयोगद्वन्द्वः । सुपां स्थाने एते आदेशाः स्युुरिति सूत्रार्थः । ऋजवः सन्तु पन्थाः । पन्थान इतिप्राप्ते जसः सुः । आर्द्रे चर्मन् । चर्मणीति प्राप्ते लुक् । मती । मत्या इति प्राप्ते पूर्वसवर्णदीर्घः । सखाया, सरवायाविति प्राप्ते औकारस्य आ । नतात् ब्राह्मणम् । नतमिति प्राप्ते अम आत् । अस्मे इन्द्राबृहस्पती नयुष्मे वाजबन्धवः । वयं यूयमिति प्राप्ते जसः शे । यूयवयादेशाभावश्छान्दसत्वात् । उरुया । उरुणेति प्राप्ते या । नाभा पृथिव्याः । नाभाविति प्राप्ते डा । अनुष्ट्या जयामसि । अनुष्टुभा इति प्राप्ते ड्या । साधुया । साध्विति प्राप्ते याच् । वसन्ता यजेत, वसन्ते इति प्राप्ते आल् च इत्युदाहाणानि । अत्र वरीयसी जस् इति स्थिते जकारलोपे वरीयसी अस् इति जाते, यणादेशे वरीयस्यस् इति जाते रुत्वे विसर्गे च वरीयस्य इति भवति । प्रकृते च वरीयसी अस् इत्यत्र यणादेशाभावे जसः जस्प्रत्ययान्तर्गतस्य अकारस्य पूर्वसवर्णः पूर्वं विद्यमानो य ईकारः स एव जातः । तथाच वरीयसीस् इति जाते रुत्वे विसर्गे च वरीयसीरित्येव जसि रूपं भवतीति वाच इत्येतद्विशेषणत्वं वरीयसीरित्यस्योपपन्नमित्यर्थः । ननु प्रमाणे सम्यङ्निर्णयस्य मोक्षसाधनत्वं न प्रतीयतेऽत आह– इदमेव हीति ।। ननु तद्धि मोक्षसाधनम् इत्यत्र प्रमाणानुक्तेरप्रमाणिकं तदित्यत आह– तद्धीति ।। ४४ ।।

भावप्रकाशः

वक्ष्यतीति ।। कृपणाः फलहेतव इत्यत्रेति शेषः ।। ४४ ।।