कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनाम् ।। २६ ।।

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनाम् ।। २६ ।।

भाष्यम्

सुलभं च तेषां ब्रह्मेत्याह– कामक्रोधेति ।। अभितः सर्वतः ।। २६ ।।

भावप्रदीपिका

न केवलं ते लभन्त इत्येव, किन्तु कारुण्यात् सर्वकालदेशेषु ब्रह्म लभ्यमित्यभिप्रायेण उत्तरश्लोकमवतारयति– सुलभं चेति ।। किं तत् सौलभ्य-वाचि-पदमित्यत आह– अभित इति ।। २६ ।।

भावप्रकाशिका

क्षीणकल्मषत्वादिविशेषणचतुष्टयवन्त प्राकृतविग्रहा ब्रह्म लभन्त इत्युक्तम् । अथ नैतावदेव । किन्तु ते तत्सुखेन लभन्त इति विशिनष्टीति भावेनोत्तरं श्लोकमवतारयति– सुलभं चेति ।। सौलभ्यवाचिपदमुपपादायन् व्याचष्टे– अभित इति ।। प्रायः सर्वत्र सर्वदा स्वप्रयत्नं विना स्वयमेव कृपया तन्मनोगोचरो भवतीत्यर्थः ।। २६ ।।

प्रमेयदीपिका

‘यतीनां सर्वं ब्रह्मतयैव प्रतीयते’ इत्यन्यथाप्रतीतिनिरासायाह– सुलभं चेति ।। न केवलमुक्तलक्षणा इति चार्थः । इदं चासाधारणधर्मत्वाज्ज्ञानिलक्षणं भवत्येव । सौलभ्यवाचि किमप्यत्र न प्रतीयत इत्यतस्तदुपादाय व्याचष्टे– अभित इति ।। सर्वदेशकालेष्वित्यर्थः ।।

भावदीपः

।। उक्तलक्षणा इति ।। योऽन्तःसुखः इत्यादिनोक्तलक्षणा इत्यर्थः । ज्ञानिलक्षणं प्रपञ्चयत्युत्तरश्लोकैः इति प्राक्तनभाष्यकथनायाः सङ्घटनायाह– इदं चेति ।। सर्वदेशकालेषु सुखेन ब्रह्मलब्धित्वमित्यर्थः ।। २६ ।।

भावरत्नकोशः

।। उक्तलक्षणा इति ।। ज्ञानिनो न केवलं ‘योऽन्तःसुखः’ इत्याद्युक्तान्तःसुख इत्यादिलक्षणकाः । किन्तु सर्वदेशकालेषु सुखेन ब्रह्मलब्धिमन्तश्चेति भावेन भाष्ये चशब्दः प्रयुक्त इत्यर्थः । ननु ‘ज्ञानिलक्षणं प्रपञ्चयत्युत्तरैः’ इत्युक्तम् । न चास्य श्लोकस्य ज्ञानिलक्षणप्रपञ्चनार्थत्वम् प्रतीयते ? इत्यत आह– इदं चेति ।। सर्वदेशकालेषु ब्रह्मलब्धिमत्त्व-मित्यर्थः । असाधारणेति । न ह्यज्ञानिनो ब्रह्म सुलभमिति भावः । तत् सौलभ्यवाचिपदम् । सर्वशब्दात्सप्तम्यर्थे तसिरिति भावेनाह– सर्वदेशकालेष्विति ।। यो यत्र यत्र देशे सञ्चारार्हः तत्र तत्र देशेषु कालेषु च तस्य सुलभं ब्रह्मेति भावः ।

न केवलं ज्ञानिनः ‘योऽन्तःसुखः’ इत्याद्युक्तान्तःसुखत्वादिलक्षणकाः । किन्तु सर्वदेशकालेषु सुखेन ब्रह्मलब्धिमन्तश्चेत्युच्यते– कामक्रोधेति ।। कामक्रोधाभ्यां हीनानां क्षीणसकलकल्मषाणां यतीनां प्रयत्नवतां यतचेतसां नियतमनसां विदित आत्मा परमात्मा यैस्तेषां ज्ञानिनां निर्वाणम् अप्राकृतविग्रहं ब्रह्म अभितः सर्वदेशकालेषु वर्तते रक्षकत्वेनोपलब्धिविषयत्वेन चेति योज्यम् । तथा चोक्तं प्राचीनटीकायाम् ‘प्रायः सर्वत्र सर्वदा स्वप्रयत्नं विना स्वयमेव कृपया तन्मनोगोचरो भवति’ इति । सर्वदेशकालेषु ब्रह्मलब्धिमत्त्वं चासाधारणधर्मत्वाद् ज्ञानिलक्षणं भवत्येवेति युक्तमस्यापि श्लोकस्य ज्ञानप्रपञ्चनपरत्वमिति ।। २६ ।।

भावप्रकाशः

अस्य ज्ञानिलक्षणप्रपञ्चार्थत्वाभावादुक्तविरोध इत्यत आह– इदं चेति ।। २६ ।।