विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।। ५२ ।।

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।। ५२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- विविक्तसेवी दुर्जनसङ्गहीनदेशसेवाशीलः लघ्वाशी मिताहारशीलः यतने निगृहीतानि वाक्कायमानसानि यस्य स यतवाक्कायमानसः नित्यं ध्यानयोगपरः ध्यानम् भगवदनुचिन्तनम्, तदेव योगः उपायः तत्परः तत्रासक्तः वैराग्यं दृष्टादृष्टविषयेषु वैतृष्ण्यं नित्यमेव समुपाश्रितः ।। ५२ ।।