अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ।। १३ ।।

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ।। १३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अप्रकाशः श्रोत्रादिषु शब्दादिविषयप्रकाशाभावः अप्रवृत्तिः उद्योगाभावः ‘रक्षाऊहाआगमलघुअसन्देहाः प्रयोजनम्’ इति महाभाष्यप्रयोगवत् ‘अप्रकाशः’, ‘अप्रवृत्तिः’ इति प्रयोगः । अन्यथा ‘निर्मक्षिकम् इतिवत् ‘अप्रकाशम्’ इति स्यादिति भावः । प्रमादः कृत्येष्वनवधानं मोहः मिथ्याध्यवसायः हे कुरुनन्दन एतानि कर्माणि तमसि विवृद्धे जायन्ते । एतैर्लिङ्गैस्तमोवृद्धिं जानीयाद् इत्यभिप्रायः ।। १३ ।।