सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।। ३८ ।।

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।। ३८ ।।

भावरत्नकोशः

यच्चोक्तं ‘पापमेवाश्रयेदस्मान्’, ‘मित्रद्रोहे च पातकम्’ इत्यादि तत्रोच्यते– सुखदुःख इति ।। यथा दुःखमनुपादेयं तथा वैषयिकं सुखमप्यनुपादेयमिति सुखदुःखे तुल्ये कृत्वा तथा लाभालाभौ जयाजयौ समौ कृत्वा तत्र आस्थामविधाय भगवत्पूजारूपोऽयं स्वधर्म इति बुद्ध्या युज्यस्व युङ्क्ष्व घटस्व । एवं भगवद्भक्तिपूर्वं युद्धाचरणे पापं नावाप्स्यसीति स्वामिन इति ।।

प्रमेयदीपिका

स्वधर्मम्’ इत्यादयः श्लोका अतिरोहितार्थत्वान्न व्याख्याताः । एवमुत्तरत्रापि ।।

भावदीपः

एवमुत्तरत्रापीति ।। स्पष्टार्था न व्याख्यायन्त इत्यर्थः ।। ३१–३८ ।।

भावरत्नकोशः

उत्तरत्रापि ।। ये श्लोका भाष्यकृता न व्याख्याता तत्रापि इति योज्यम् ।। ३८ ।।