पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।। ४० ।।

श्रीभगवानुवाच–

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।। ४० ।।

भावरत्नकोशः

एवं प्रश्ने तदुत्तरं भगवतोक्तम् इत्युच्यते भगवानुवाच– पार्थे-त्यादिभिः सार्धैश्चतुभिः श्लोकैः ।। हे पार्थ  इह लोके तस्य योगभ्रष्टस्यापि विनाशो दुर्गतिः तिर्यगादिभावो न विद्यते नास्ति । अमुत्र विनाशो नरकाद्यनर्थो नैव विद्यते । कुत इत्यत उक्तम्–न हीति ।। कल्याणकृत् ध्यानादिलक्षणकल्याणस्य कर्ता ।। ४० ।।