गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।। १८ ।।
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।। १८ ।।
भाष्यम्
गम्यते मुमुक्षुभिरिति गतिः । तथाहि सामवेदे वसिष्ठशाखायाम् ‘अथ कस्मादुच्यते गतिरिति ब्रह्मैव गतिरिति, तद्धि गम्यते पापविमुक्तैः’ इति साक्षादीक्षत इति साक्षी । तथाहि बाष्कलशाखायाम् ‘स साक्षादिदमद्राक्षीत्, यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्’ इति ।।
भावप्रदीपिका
गतिशब्दं सप्रमाणकं व्याचष्टे– गम्यत इति ।। किमुच्यते ? इति च योज्यम् । साक्षिशब्दस्य विशिष्टार्थं सप्रमाणकमाह– साक्षा-दिति ।। तस्मात् साक्षिणः साक्षित्वं साक्षिशब्दप्रवृत्तिनिमित्तमित्यर्थः ।।
प्रमेयदीपिका
‘गतिः कर्मफलम्’ इति व्याख्यानमपाकर्तुमाह– गम्यत इति ।। शरणम् इत्यतो भेदार्थमुक्तम्– मुमुक्षुभिरिति ।। अत एव ‘गम्यते’ इत्यस्यावगम्यत इत्यर्थः । कुत एतत्? इत्यत आह– तथा हीति ।। ‘किमुच्यते’ इत्यपि प्रश्नोऽध्याहार्यः । साक्षी इत्यौदासीन्यं प्रतीयते । अत आह– साक्षादिति ।। कुत एतत्? इत्यत आह– तथा हीति ।। यदद्राक्षीत् साक्षात् तत् साक्षिणः परमेश्वरस्य साक्षित्वं साक्षिशब्दप्रवृत्तिनिमित्तम् । तदुक्तम् ‘साक्षाद् द्रष्टरि सञ्ज्ञायाम्’ इति ।।
भावबोधः
नन्वाश्रयस्यैव गम्यत्वान्मुमुक्षुभिरित्युक्तेऽपि शरणमित्यतः कथं गतेर्भेदः । किञ्च मुक्तैरेव गम्यत्वं मुमुक्षुभिस्तु मेयत्वमेवेत्यत आह– किमुच्यत इत्यपीति ।।
भावदीपः
।। अत एवेति ।। शरणपदस्य आश्रयपर्यायप्राप्त्यर्थत्वेन व्याख्यानादेवेत्यर्थः । अन्यथासिद्ध अर्थभेदासिद्धेरिति भावः ।। ‘ब्रह्मैव गतिः’ इत्युत्तरो-क्त्यनुरोधादाह– इत्यपि प्रश्नोऽध्याहार्य इति ।। गतिरिति पदेन किमुच्यत इति प्रश्न इत्यर्थः ।। तदुक्तमिति ।। पाणिनिनोक्तमित्यर्थः । ‘साक्षात्’ इति सूत्रेण ‘साक्षात्’ इत्यव्ययाद् द्रष्टरि वाच्ये सञ्ज्ञायाम् इनिप्रत्यये ‘अव्ययानां भमात्रे टिलोपः’ इति टिलोपे ‘साक्षी’ इति सिद्धेरिति भावः ।।
वाक्यार्थप्रदीपः
ननु द्रष्ट्रृत्वस्य साक्षिशब्दप्रवृत्तिनिमित्तत्वं कुत इत्यत आह– तदुक्तमिति ।। पाणिनिनेति शेषः ।। तद्वाक्यमुदाहरति साक्षाद् द्रष्ट्ररि सञ्ज्ञायामिति ।। साक्षाच्छब्द अव्ययम् । सञ्ज्ञाग्रहणं च धनिकाधमर्णन्यायद्रष्ट्रुरूपाभि-धेयमित्यर्थः । तदुक्तमिति ।। पाणिनिनोक्तमित्यर्थः ।।
भावदीपिका
तथाऽपि कथमर्थभेदः । आश्रयस्यैव गम्यत्वादित्यत आह– अत एवेति ।। मुक्तैरवगम्यत्वस्य, मुमुक्षुभिस्तु ज्ञेयत्वस्यैव भगवतः प्रसिद्धेरिति भावः । श्रुतौ ‘ब्रह्मैव गतिः’ इत्यस्यापृष्टोत्तरत्वनिरासायाह– किमुच्यत इति ।। ‘गतिः’ इति शब्देन किमुच्यत इत्यर्थः । विहितस्यैवानूद्यत्वात् पूर्वं ‘साक्षादिदमद्राक्षीत्’ इति साक्षाद्द्रष्टृत्वस्यैव विहितत्वात्‘यदद्राक्षीत्’ इति कथमनुवाद इत्यत आह– यदद्राक्षीत्साक्षादिति ।। उक्तार्थे पाणिनिसम्मतिं चाह– तदुक्तमिति ।। साक्षाद्द्रष्टरि अपरोक्षतो द्रष्टरि अभिधेये सति संज्ञायां विवक्षितायां सत्यां ‘साक्षी’ इति शब्दो निपात्यत इति सूत्रार्थः । एवं च प्रकृते साक्षाद्द्रष्टुर्भगवतोऽभिधेयत्वात्, भगवत एवंसंज्ञाकत्वाच्च साक्षिशब्दवाच्यत्वं युक्तमिति भावः । एवं व्याख्याने ‘यत्साक्षादिदमद्राक्षीत्’ इति श्रुत्या पाणिनिसूत्रस्यैकार्थ्यं भवतीति ध्येयम् ।
केचित्तु साक्षाच्छब्दात् द्रष्टर्यभिधेये इनिप्रत्ययः स्यादिति सूत्रार्थः । तथा च ‘अव्ययानां भमात्रे टिलोपः’ इति वार्तिकेन टीभूतस्य ‘आत्’ इत्यस्य लोपे ‘साक्षिन्’ इति प्रातिपदिके सति, पश्चात्स्वाद्युत्पत्तौ ‘साक्षी’ इति रूपमित्याहुः । तन्न । प्रकृतानुपयोगात् । तथा हि ‘साक्षादीक्षते’ इति निरुच्य तत्रैव प्रमाणमुक्त्वा सम्मतितयोदाहृतसूत्रेऽपि साक्षाच्छब्दाद् इत्यादिव्याख्याने उक्तार्थाप्रतिभासने वाऽसङ्गत्यापत्तेर्न तथा सूत्रार्थ इति ध्येयम् ।
मुमुक्षोरपि संसारभीतत्वात् ‘परायणम्’ इति वक्ष्यमाणप्रमाणानुसारेणाह– मुक्तोपलक्षण-मिति ।। पुनरुक्तिरिति ।। ‘तिष्ठत्यस्मिन्’ इति स्थानशब्देन पुनरुक्तिरित्यर्थः ।। १८ ।।
भावप्रकाशः
।। भेदार्थमिति ।। शरणमित्यत्र मुक्ताश्रयत्वस्याऽभि-प्रेतत्वादिति भावः । ननु मुमुक्षुभिर्ज्ञेयत्वमेव न तु गम्यत्वमित्यत आह– अत एवेति ।। ब्रह्मैव गतिरिति प्रत्युत्तरानुरोधादाह– किमुच्यत इत्यपीति ।। साक्षात् द्रष्टरीति ।। साक्षाच्छब्दात् द्रष्टर्यभिधेये इनिः स्यात् संज्ञायामित्यर्थः । तथा चेनिप्रत्ययेऽव्ययानां भमात्रे टिलोप इति भावः ।।